मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ५५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 55

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ।

आदावेव हि नोत्पन्नाः सर्गादौ कारणं विना

॥१॥

न त्वमूर्तो हि चिद्धातुः कारणं भवितुं क्वचित् ।

स्वात्मा शक्तः स मूर्तानां बीजमुर्वीरुहामिव

॥२॥

स्वभावमेव सततं भावयन्भावनात्मकम् ।

आत्मन्येव हि चिद्धातुः सर्वोऽनुभववान्स्थितः

॥३॥

आस्वादयति यं भावं चिद्धातुर्गगनात्मकः ।

लब्धः सर्गः प्रलापेन क्षीबः क्षुब्धतया यथा

॥४॥

यदा सर्वमनुत्पन्नं नास्त्येवापि च दृश्यते ।

तदा ब्रह्मैव विद्धीदं समं शान्तमसत्समम्

॥५॥

चिन्नभश्चिन्नभस्येव पयसीव पयोद्रवः ।

चित्त्वात्कचति यत्तेन तदेवेदं जगत्कृतम्

॥६॥

स्वप्ने तदेव जगदित्युदेति विमला यथा ।

काचकस्येव कचति तथेत्थं सादि सर्गखे

॥७॥

चित्काचकस्य कचनं यथा स्वप्ने जगद्भवेत् ।

तथैव जाग्रदविधं तत्स्वमात्रमिदं स्थितम्

॥८॥

आदिसर्गे हि चित्स्वप्नो जाग्रदित्यभिशब्द्यते ।

अद्य रात्रौ चितेः स्वप्नः स्वप्न इत्यपि शब्द्यते

॥९॥

पूर्वप्रवृत्ता सरितां रूढाद्यापि यथास्थिता ।

तरङ्गलेखा दृष्टीनां पदार्थरचना तथा

॥१०॥

यथा वारितरङ्गश्रीः सरितां रचना मिता ।

तथा चिद्व्योम्नि चिद्बीजसत्तान्तःसृष्टितामिता

॥११॥

मृतस्यात्यन्तनाशश्चेत्तन्निद्रासुखमेव तत् ।

भूयश्चोदेति संसारस्तत्सुखं नवमेव तत्

॥१२॥

कुकर्मभ्यस्तु चेद्भीतिः सा समेह परत्र च ।

तस्मादेते समसुखे सर्वेषां मृतिजन्मनी

॥१३॥

मरणं जीवितं वास्तु सहजे वासने तयोः ।

इति विश्रान्तचित्तोयः सोऽन्तःशीतल उच्यते

॥१४॥

सर्वसंवित्तिविगमे संविद्रोहति यादृशी ।

भूयते तन्मयेनैव तेनासौ मुक्त उच्यते

॥१५॥

अत्यन्ताभावसंवित्त्या सर्वदृश्यस्य वेदनम् ।

उदेत्यपास्तसंवेद्यं सति वाऽसति सर्गके

॥१६॥

यन्न चेत्यं न चिद्रूपं यच्चितेरप्यचेतितम् ।

तद्भावैक्यं गतास्तज्ज्ञाः शान्ता व्यवहृतौ स्थिताः

॥१७॥

चित्काचकाचकच्यं यज्जगन्नाम्ना तदुच्यते ।

अत्यच्छे परमाकाशे बन्धमोक्षदृशः कुतः

॥१८॥

चिन्नभःस्पन्दमात्रात्म संकल्पात्मतया जगत् ।

सद्भूतमयमेवेदं न पृथ्व्यादिमयं क्वचित्

॥१९॥

नेह देशो न कालोऽस्ति न द्रव्यं न क्रिया न खम् ।

सदिवाखिलमुच्छूनं वाप्यनुच्छूनमप्यसत्

॥२०॥

भाति केवलमेवेत्थं परमार्थघनं घनम् ।

यन्न शून्यं न वाऽशून्यमत्यच्छं गगनादपि

॥२१॥

साकारमप्यनाकारमसदेवातिभास्वरम् ।

अतिशुद्धैकचिन्मात्रस्फारं स्वप्नपुरं यथा

॥२२॥

निर्वाणमेवमिदमाततमित्थमन्त-

श्चिद्व्योम्न आविलमनाविलरूपमेव ।

नानेव न क्वचिदपि प्रसृतं न नाना

शून्यत्वमम्बर इवाम्बुनिधौ द्रवत्वम्

॥२३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० जगतः परमार्थमयत्ववर्णनं नाम पञ्चपञ्चाशः सर्गः ।। ५५ ।।