मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ९२

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 92

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इत्युक्तवान्स भगवान्मया कमलसंभवः ।

रघूद्वह पुनः पृष्टो वाक्यमाक्षिप्य भूतपः

॥१॥

त्वयैव भगवन्प्रोक्ताः शापमन्त्रादिशक्तयः ।

अमोघा इति ता एव कथं मोघाः कृताः पुनः

॥२॥

शापेन मन्त्रवीर्येण मनोबुद्धीन्द्रियाण्यपि ।

सर्वाण्येव विमूढानि दृष्टानि किल जन्तुषु

॥३॥

यथैतौ पवनस्पन्दौ यथा स्नेहतिलौ यथा ।

अभिन्नौ तद्वदेवैतौ मनोदेहौ स एव तत्

॥४॥

अथ नास्तीह वा देहः केवलं चेतसैव सः ।

मुधानुभूयते स्वप्नमृगतृष्णाद्विचन्द्रवत्

॥५॥

एकनाशे द्वयोरेव नाशोऽत्राभ्युपपद्यते ।

अवश्यं भवितुं मनोनाशे देहपरिक्षयः

॥६॥

मनः शापादिभिर्दोषैः कथं नाक्रम्यते प्रभो ।

कथमाक्रम्यते वापि ब्रूहि मे परमेश्वर

॥७॥

ब्रह्मोवाच ।

न तदस्तिजगत्कोशे शुभकर्मानुपातिना ।

यत्पौरुषेण शुद्धेन न समासाद्यते जनैः

॥८॥

आब्रह्म स्थावरान्तं च सर्वदा सर्वजातयः ।

सर्व एव जगत्यस्मिन्द्विशरीराः शरीरिणः

॥९॥

एकं मनःशरीरं तु क्षिप्रकारि सदा चलम् ।

अकिंचित्करमन्यत्तु शरीरं मांसनिर्मितम्

॥१०॥

तत्र मांसमयः कायः सर्वस्यैव च संगतः ।

सर्वैराक्रम्यते शापैस्तथा विद्यादिसंचयैः

॥११॥

मूकप्रायो ह्यशक्तोऽसौ दीनः क्षणविनश्वरः ।

पद्मपत्राम्बुचपलो दैवादिविवशस्थितिः

॥१२॥

मनोनाम द्वितीयोऽयं कायः कायवतामिह ।

स आयत्तोऽपि नायत्तो भूतानां भुवनत्रये

॥१३॥

पौरुषं स्वमवष्टभ्य धैर्यमालम्ब्य शाश्वतम् ।

यदि तिष्ठत्यगम्योऽसौ दुःखानां तदनिन्दितः

॥१४॥

यथा यथासौ यतते मनोदेहो हि देहिनाम् ।

तथा तथासौ भवति स्वनिश्चयफलैकभाक्

॥१५॥

सफलो मांसदेहस्य न कश्चित्पौरुषक्रमः ।

मनोदेहस्य सफलं सर्वमेव स्वचेष्टितम्

॥१६॥

पवित्रमनुसंधानं चेतः स्मरति सर्वदा ।

निष्फलास्तत्र शापाद्याः शिलायामिव सायकाः

॥१७॥

पतत्वम्भसि वह्नौ वा कर्दमे वा शरीरकम् ।

मनो यदनुसंधत्ते तदेवाप्नोति तत्क्षणात्

॥१८॥

पुरुषातिशयः सर्वः सर्वभावोपमर्दने ।

ददात्यविघ्नेन फलं मनो हि मनसो मुने

॥१९॥

पौरुषेण बलेनान्तश्चित्तं कृत्वा प्रियामयम् ।

कृत्रिमेन्द्रेण दुःखार्तिर्न दृष्टा सा मनागपि

॥२०॥

पौरुषेण मनः कृत्वा नीरागं विगतज्वरम् ।

माण्डव्येन जिताः क्लेशाः शूलप्रान्तेऽपितिष्ठता

॥२१॥

अन्धकूपस्थितेनापि मानसैर्यज्ञसंचयैः ।

ऋषिणा दीर्घतपसा संप्राप्तं वैबुधं पदम्

॥२२॥

इन्दुपुत्रैर्नरैरेव पुरुषाध्यवसायतः ।

ध्यानेन ब्रह्मता प्राप्ता सा मयापि न खण्ड्यते

॥२३॥

अन्येऽपि सावधाना ये धीराः सुरमहर्षयः ।

चित्तात्स्वमनुसंधानं न त्यजन्ति मनागपि

॥२४॥

आधयो व्याधयश्चैव शापाः पापदृशस्तथा ।

न खण्डयन्ति तच्चित्तं पद्मघाताः शिलामिव

॥२५॥

ये चापि खण्डिताः केचिच्छापाद्यैराधिसायकैः ।

स्वविवेकाक्षमं तेषां मनो मन्ये विपौरुषम्

॥२६॥

न कदाचन संसारे सावधानमना मनाक् ।

स्वप्नेऽपि कश्चिदृश्ये वा दोषजालैः खिलीकृतः

॥२७॥

मनसैव मनस्तस्मात्पौरुषेण पुमानिह ।

स्वकमेव स्वकेनैव योजयेत्पावने पथि

॥२८॥

प्रतिभातं यदेवास्य यथाभूतं भवत्यलम् ।

क्षणादेव मनः पीनं बालवेतालवन्मुने

॥२९॥

प्रतिभासस्यानुपदं प्राक्तनीं स्थितिमुज्झति ।

कुलालकर्मानुपदं घटो मृत्पिण्डतामिव

॥३०॥

प्रतिभासार्थतामेति क्षणादेव मनो मुने ।

स्पन्दमात्रात्मकं वारि यथा तुङ्गतरङ्गताम्

॥३१॥

अनुसंधानमात्रेण सूर्यबिम्बेऽपि यामिनीम् ।

मनः पश्यत्यशुद्धाक्षश्चन्द्रबिम्बे द्वितामिव

॥३२॥

यत्पश्यति तदेवाशु फलीभूतमिदं मनः ।

सह हर्षविषादाभ्यां भुङ्क्ते तस्मात्तदेव तत्

॥३३॥

प्रतिभानुपदं चेतश्चन्द्रेऽप्यग्निशिखाशतम् ।

दृष्ट्वा दाहमवाप्नोति दग्धं च परितप्यते

॥३४॥

प्रतिभानुपदं चेतः क्षारेऽपि हि रसायनम् ।

दृष्ट्वा पीत्वा परां तृप्तिं याति वल्गति नृत्यति

॥३५॥

प्रतिभानुपदं चेतो व्योमन्यपि महावनम् ।

दृष्ट्वा लुनाति लूत्वा च पुनरारोपयत्यलम्

॥३६॥

इत्थं यदेव परिकल्पयतीन्द्रजालं

क्षिप्रं तदेव परिपश्यति तात चेतः ।

नासज्जगन्न च सदित्यवगम्य नूनं

लूनां दृशं विविधभेदवतीं जहीहि

॥३७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मनोमाहात्म्यवर्णनं नाम द्विनवतितमः सर्गः ।। ९२ ।।