मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ८२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 82

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अणुतां स्थूलतां वापि यथा गच्छति योगिनाम् ।

देहो नाम तथा सम्यग्वक्ष्यमाणमिदं श्रृणु

॥१॥

हृद्यब्जचक्रकोशोर्ध्वं प्रस्फुरत्यानलः कणः ।

हेमभ्रमरवत्सांध्यविद्युल्लव इवाम्बुदे

॥२॥

स प्रवर्धनसंवित्त्या वात्ययेवाशु वर्धते ।

संविद्रूपतया नूनमर्कवद्याति चोदयम्

॥३॥

संध्याभ्रप्रथमार्काभो वृद्धिमभ्यागतः क्षणात् ।

गालयत्यखिलं साङ्गं देहं हेम यथानलः

॥४॥

जलस्पर्शासहो युक्त्या गलयेत्प्रपदादपि ।

बाह्य एवानलः स्पर्शात्स्वान्ते वस्तुविशेषतः

॥५॥

स शरीरद्वयं पश्चाद्विधूय क्वापि लीयते ।

विक्षोभितेन प्राणेन नीहारो वात्यया यथा

॥६॥

आधारनाडीनिर्हीना व्योमस्थैवावशिष्यते ।

शक्तिः कुण्डलिनी वह्नेर्धूमलेखेव निर्गता

॥७॥

क्रोडीकृतमनोबुद्धिमयजीवाद्यहंकृतिः ।

अन्तःस्फुरच्चमत्कारा धूमलेखेव नागरी

॥८॥

विसे शैले तृणे भित्तावुपले दिवि भूतले ।

सा यथा योज्यते यत्र तेन निर्यात्यलं तथा

॥९॥

संवित्तिः सैव यात्यङ्ग रसाद्यन्तं यथाक्रमम् ।

रसेनापूर्णतामेति तन्त्रीभार इवाम्बुना

॥१०॥

रसापूर्णा यमाकारं भावयत्याशु तत्तथा ।

धत्ते चित्रकृतो बुद्धौ रेखा राम यथा कृतिम्

॥११॥

दृढभाववशादन्तरस्थीन्याप्नोति सा ततः ।

मातृगर्भनिषण्णेषु सुसूक्ष्मेवाङ्कुरस्थितिः

॥१२॥

यथाभिमतमाकारं प्रमाणं वेत्ति राघव ।

जीवशक्तिरवाप्नोति सुमेर्वादि तृणादि च

॥१३॥

श्रुतं त्वया योगसाध्यमणिमाद्यर्थसाधनम् ।

ज्ञानसाध्यमिदानीं त्वं श्रृणु श्रवणभूषणम्

॥१४॥

एकं चिन्मात्रमस्तीह शुद्धं सौम्यमलक्षितम् ।

सूक्ष्मात्सूक्ष्मतरं शान्तं न जगन्न जगत्क्रिया

॥१५॥

तच्चिनोत्यात्मनात्मानं संकल्पोन्मुखतां गतम् ।

यदा तदा जीव इति प्रोक्तमाविलतां गतम्

॥१६॥

असत्यमेव संकल्पभ्रमेणेदं शरीरकम् ।

जीवः पश्यति मूढात्मा बालो यक्षमिवोद्धतम्

॥१७॥

यदा तु ज्ञानदीपेन सम्यगालोक आगतः ।

संकल्पमोहो जीवस्य क्षीयते शरदभ्रवत्

॥१८॥

शान्तिमायाति देहोऽयं सर्वसंकल्पसंक्षयात् ।

तदा राघव निःशेषं दीपस्तैलक्षये यथा

॥१९॥

निद्राव्यपगमे जन्तुर्यथा स्वप्नं न पश्यति ।

जीवो हि भाविते सत्ये तथा देहं न पश्यति

॥२०॥

अतत्त्वे तत्त्वभावेन जीवो देहावृतः स्थितः ।

निर्देहो भवति श्रीमान् सुखी तत्त्वैकभावनात्

॥२१॥

अनात्मनि शरीरादावात्मभावनमङ्ग यत् ।

सूर्याद्यालोकदुर्भेदं हार्दं तद्दारुणं तमः

॥२२॥

आत्मन्येवात्मभावेन सर्वव्यापि निरञ्जनम् ।

चिन्मात्रममलोऽस्मीति ज्ञानादित्येन नश्यति

॥२३॥

अन्ये च विदितात्मानो भावयन्ति यथैव यत् ।

तत्तथैवाशु पश्यन्ति दृढभावनया तया

॥२४॥

दृढभावानुसंधानाद्विमूढा अपि राघव ।

विषं नयन्त्यमृतताममृतं विषतामपि

॥२५॥

एवं यथा यदेवेह भाव्यते दृढभावनात् ।

भूयते हि तदेवाशु तदित्यालोकितं मुहुः

॥२६॥

सत्यभावनदृष्टोऽयं देहो देहो भवत्यलम् ।

दृष्टस्त्वसत्यभावेन व्योमतां याति देहकः

॥२७॥

अणिमादिपदप्राप्तौ ज्ञानयुक्तिरिति श्रुता ।

भवता साधुना राम युक्तिमन्यामिमां श्रृणु

॥२८॥

रेचकाभ्यासयोगेन जीवः कुण्डलिनीगृहात् ।

उद्धृत्य योज्यते यावदामोदः पवनादिव

॥२९॥

त्यज्यते विरतस्पन्दो देहोऽयं काष्ठलोष्टवत् ।

देहेऽपि जीवेऽपि मतावासेचक इवादरः

॥३०॥

स्थावरे जंगमे वापि यथाभिमतयेच्छया ।

भोक्तुं तत्संपदं सम्यग्जीवोऽन्तर्विनिवेश्यते

॥३१॥

इति सिद्धिश्रियं भुक्त्वा स्थितं चेत्तद्वपुः पुनः ।

प्रविश्यते स्वमन्यद्वा यद्यत्तात विरोचते

॥३२॥

देहादयस्तथा बिम्बान्व्याप्तवत्याखिलानथ ।

संविदा जगदापूर्य संपूर्ण स्थीयतेऽथवा

॥३३॥

ज्ञात्वा सदाभ्युदितमुज्झितदोषमीशो

यद्यद्यथा समभिवाञ्छति चित्प्रकाशः ।

प्राप्नोति तत्तदचिरेण तथैव राम

सम्यक्पदं विदुरनावरणत्वमेव

॥३४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० चू० अणिमादिलाभयोगोपदेशो नाम द्व्यशीतितमः सर्गः ।।८२।।