मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १९७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 197

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

तथा कुरु मुनिश्रेष्ठ यथा वैवधिकक्रमम् ।

असंदेहमिमं सम्यगवगच्छामि मानद

॥१॥

श्रीवसिष्ठ उवाच ।

ये ते वैवधिका राम त एते मानवा भुवि ।

तेषां दारिद्र्यदुःखं यत्तदज्ञानं महातपः

॥२॥

यत्तन्महावनं प्रोक्तं गुरुशास्त्रक्रमादि तत् ।

यदुद्यतास्ते ग्रासार्थं जना भोगार्थिनो हि ते

॥३॥

भोगौघाः सिद्धिमायान्तु मम निष्कृपणो जनः ।

अनपेक्षितकार्यार्थः शास्त्रादौ संप्रवर्तते

॥४॥

भोगार्थं संप्रवृत्तोऽपि प्राप्नोत्यभ्यासतः क्रमात् ।

जन्तुश्चिन्तितमेवाद्यपदं परवशोऽपि सन्

॥५॥

दार्वर्थमुद्यतो भावी यथा संप्राप्तवान्मणिम् ।

भोगार्थमात्तशास्त्रोऽयं तथाप्नोति जनः पदम्

॥६॥

किं स्याच्छास्त्रविचाराभ्यामिति संदेहलीलया ।

कश्चित्प्रवर्तते पश्चादाप्नोति पदमुत्तमम्

॥७॥

अदृष्टोत्तमतत्त्वार्थः शास्त्रादौ संप्रवर्तते ।

संदेहेनार्थभोगार्थं जनः प्राप्नोति तत्पदम्

॥८॥

अन्यथा संप्रवर्तन्ते शास्त्रैर्वासनया जनाः ।

अन्यदासादयन्त्याद्यं मणिं वैवधिका इव

॥९॥

परोपकारेऽविरतं स्वभावेन प्रवर्तते ।

यः स साधुरिति प्रोक्तः प्रमाणं त्वस्य चेष्टितम्

॥१०॥

साध्वाचारवशाल्लोको भोगसंप्राप्तिशङ्कया ।

संदेहश्चाप्यतत्त्वज्ञः शास्त्रादौ संप्रवर्तते

॥११॥

भोगार्थं संप्रवृत्तोऽसौ भोगमोक्षावुभावपि ।

तस्मात्प्राप्नोति दार्वर्थी वनाच्चिन्तामणिं यथा

॥१२॥

केचिच्चन्दनदारूणि केचिच्चिन्तामणिं मणिम् ।

केचित्सामान्यरत्नानि प्राप्नुवन्ति यथा वनात्

॥१३॥

केचित्कामं केचिदर्थं केचिद्धर्मत्रयं तु वा ।

केचिन्मोक्षमशेषं च लभन्ते शास्त्रतस्तथा

॥१४॥

वर्गत्रयोपदेशो हि शास्त्रादिष्वस्ति राघव ।

ब्रह्मप्राप्तिस्त्ववाच्यत्वान्नास्ति तच्छासनेष्वपि

॥१५॥

केवलं सर्ववाक्यार्थैर्ध्वन्यमानावगम्यते ।

कालश्रीः प्रसवेनेव स्वयं स्वानुभवेन सा

॥१६॥

सर्वार्थातिगतं शास्त्रे विद्यते ब्रह्मवेदनम् ।

सर्वगातिगतं स्वच्छं लावण्यमिव योषिति

॥१७॥

न शास्त्रान्न गुरोर्वाक्यान्न दानान्नेश्वरार्चनात् ।

एष सर्वपदातीतो बोधः संप्राप्यते परः

॥१८॥

एतान्यकरणान्येव कारणत्वं गतान्यलम् ।

परमात्मैकविश्रान्तौ यथा राघव तच्छृणु

॥११॥

शास्त्रादभ्यासयोगेन चित्तं यातं विशुद्धताम् ।

अनिच्छदेवमेवाशु पदं पश्यति पावनम्

॥२०॥

एतच्छास्त्रादविद्यायाः सात्त्विको भाग उच्यते ।

तामसः सात्त्विकेनास्याभागेनायाति संक्षयम्

॥२१॥

नूनं मलं प्रधानेन क्षालवच्छास्त्ररूपिणा ।

पुरुषः शुद्धतामेति परमां वस्तुशक्तितः

॥२२॥

अनिच्छयोरेव यथा सप्तसप्तिसमुद्रयोः ।

प्रागदृश्यं तृतीयत्वं स्वभाववशतः स्वतः

॥२३॥

स्वसंनिधानमात्रेण विदितप्रतिभासनम् ।

सदसन्मयमाभोगि प्रतिबिम्बं प्रवर्तते

॥२४॥

मुमुक्षुशास्त्रयोरेवं मिथः संबन्धमात्रतः ।

सर्वसंवित्पदातीतमात्मज्ञानं प्रवर्तते

॥२५॥

अनयोः प्रेक्षणाद्देहे विवेको जायते यथा ।

तथा स्वभावतः शास्त्रविवेकाज्ज्ञेयवेदनम्

॥२६॥

लोष्टेन लोष्टं सलिले क्षालयन्बालको यथा ।

क्षयेण लोष्टयोर्हस्तनैर्मल्यं लभते परम्

॥२७॥

तथा शास्त्रविकल्पौघैर्विकल्पांश्चेतनाद्बुधः ।

क्षालयन्स्वविचारेण परमां याति शुद्धताम्

॥२८॥

महावाक्यार्थनिष्यन्दं स्वात्मज्ञानमवाप्यते ।

शास्त्रादेरिक्षुरसतः स्वाद्विव स्वानुभूतितः

॥२९॥

प्रभाभित्योः समासङ्गाद्यथाऽऽलोकोऽनुभूयते ।

श्रुतश्रुतवतोः सङ्गादात्मज्ञानं तथा भवेत्

॥३०॥

त्रिवर्गमात्रसिद्ध्यै यन्न मोक्षाय च तच्छ्रुतम् ।

विपुलश्रुतचर्चासु तुच्छमश्रुतमेव तत्

॥३१॥

तच्छ्रुतं यत्किल ज्ञप्त्यै सा ज्ञप्तिः समता यया ।

तत्साम्यं यत्र सौषुप्ती स्थितिर्जाग्रति जायते

॥३२॥

एवं हि सर्वमेतत्तच्छास्त्रादेः समवाप्यते ।

तस्मात्सर्वप्रयत्नेन शास्त्राद्यभ्यासमाहरेत्

॥३३॥

शास्त्रार्थभावनवशेन गिरा गुरूणां

सत्सङ्गमेन नियमेन शमेन राम ।

तत्प्राप्यते सकलविश्वपदादतीतं

सर्वेश्वरं परममाद्यमनादिशर्म

॥३४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० शास्त्रमाहात्म्यं नाम सप्तनवत्यधिकशततमः सर्गः ।। १९७ ।।