मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ७२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 72

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथाकृष्टवति प्राणान्स्वयंभुवि नभोभवः ।

विराडात्मनि तत्याज वातस्कन्धस्थितः स्थितिम्

॥१॥

ते हि तस्य किल प्राणास्तेन क्रान्तेषु तेष्वपि ।

ऋक्षचक्रे स्थितिं कोऽन्यो धत्ते भूतैकधारिणीम्

॥२॥

वातस्कन्धे समाक्रान्ते ब्रह्मणा प्राणमारुते ।

समं गन्तुं परित्यज्य संस्थितिं क्षोभमागते

॥३॥

निराधाराः सवाताग्निदाहोल्मुकवदापतन् ।

व्योम्नस्तारास्तरोः पुष्पनिकरा इव भूतले

॥४॥

कालपाकचलन्मूला जगत्खण्डफलालयाः ।

प्रशान्तपवनाधारा विमानावलयोऽपतन्

॥५॥

प्रलयोन्मुखतां याते ब्राह्मे संकल्पनेन्धने ।

सिद्धानां गतयः शेमुरिद्धानामर्चिषामिव

॥६॥

प्रभ्रमन्त्योऽम्बरे कल्पमारुतैस्तनुतूलवत् ।

स्वशक्त्यपचये मूकाः सिद्धसंततयोऽपतन्

॥७॥

संकल्पद्रुमजालानि सेन्द्रादिनगराणि च ।

पेतुर्भूकम्पलोलस्य शिरांस्यमरभूभृतः

॥८॥

श्रीराम उवाच ।

चिति संकल्पमात्रात्मा विराड् ब्रह्मा जगद्वपुः ।

किमङ्गं तस्य भूलोकः किं स्वर्गः किं रसातलम्

॥९॥

कथमेतानि चाङ्गानि ब्रह्मंस्तस्य स्थितानि च ।

कथं वा सोऽन्तरे तस्य स्वस्यैव वपुषः स्थितः

॥१०॥

ब्रह्मा संकल्पमात्रात्मा निराकृतिरिदं स्थितम् ।

जगदित्येव जातो मे निश्चयः कथयेतरत्

॥११॥

श्रीवसिष्ठ उवाच ।

आदौ तावदिदं नासन्न सदास्ते निरामयम् ।

चिन्मात्रपरमाकाशमाशाकोशैकपूरकम्

॥१२॥

तत्स्वामाकाशतां चैतच्चेत्यमित्यवबुध्यते ।

स्वरूपमत्यजन्नित्यं चित्त्वाद्भवति चेतनम्

॥१३॥

विद्धि तच्चेतनं जीवं सघनत्वान्मनः स्थितम् ।

एतावति स्थितिजाले न किंचित्साकृति स्थितम्

॥१४॥

शुद्धं व्योमैव चिद्व्योम स्थितमात्मनि पूर्ववत् ।

यदेतत्प्रतिभातं तु तदन्यत्र शिवात्ततः

॥१५॥

अथ तन्मन आभोगि भाविताहंकृति स्फुरत् ।

संकल्पात्मकमाकाशमास्ते स्तिमितमक्षयम्

॥१६॥

तत्संकल्पचिदाभासनभोऽहमिति भावितम् ।

असत्तमेवानुभवत्संनिवेशं खमेव खे

॥१७॥

वेत्ति भावितमाकारं पश्यत्यनुभवत्यपि ।

संकल्पकात्मकं शून्यमेव देह इति स्थितम्

॥१८॥

शून्यमेव यथाकारि संकल्पनगरं भवान् ।

पश्यत्येवमजो देहं खे खमेवानुभूतवान्

॥१९॥

संविदो निर्मलत्वात्स यावदित्थं तथाविधम् ।

अनुभूयानुभवनं स्वेच्छयैवोपशाम्यति

॥२०॥

यदा तत्त्वपरिज्ञानमस्मदादेस्तदाऽऽततम् ।

इदं संसरणं विद्धि शून्यं सत्यमिव स्थितम्

॥२१॥

यथाभूतपरिज्ञानादत्र शाम्यति वासना ।

अद्वैतान्निरहंकारात्ततो मोक्षोऽवशिष्यते

॥२२॥

एवमेष स यो ब्रह्मा स एवेदं जगत्स्थितम् ।

विराजो ब्रह्मणो राम देहो यस्तदिदं जगत्

॥२३॥

संकल्पाकाशरूपस्य तस्य या भ्रान्तिरुत्थिता ।

तदिदं जगदाभाति तद्ब्रह्माण्डमुदाहृतम्

॥२४॥

सर्वमाकाशमेवेदं संकल्पकलनात्मकम् ।

वस्तुतस्त्वस्ति न जगत्त्वत्तामत्ते न च क्वचित्

॥२५॥

क्वचिन्मात्रेऽमले व्योम्नि कथं वा केन वा जगत् ।

किं जायते किमत्रास्ति कारणं सहकारि यत्

॥२६॥

अतोऽलीकमिदं जातमलीकं परिदृश्यते ।

अलीकं स्वदतेऽलोकमेवं पश्यति शून्यकम्

॥२७॥

जगदादिकया भासा चिन्मात्रं स्वदते स्वतः ।

आत्मनात्माम्बरे द्वैते स्पन्दनेनेव मारुतः

॥२८॥

इदं किंचिन्न किंचिद्वा द्वैताद्वैतविवर्जितम् ।

चिदाकाशं जगद्विद्धि शून्यमच्छं निरामयम्

॥२९॥

शान्ताशेषविशेषोऽहं तेन राघव संस्थितः ।

सन्नेवासन्निवातस्त्वमेवमेवास्व निर्ममः

॥३०॥

निर्वासनः शान्तमना मौनी विगतचापलः ।

सर्वं कुरु यथाप्राप्तं कुरु मा वात्र किं ग्रहः

॥३१॥

अनादिनित्यानुभवो य एकः

स एव दृश्यं न तु दृश्यमन्यत् ।

सत्यानुभूतेऽननुभूतयो याः

सुविस्तृता दृश्यमहादृशस्ताः

॥३२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे उ० पाषा० निर्वाणवर्णनं नाम द्विसप्ततितमः सर्ग ।। ७२ ।।