मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ११

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 11

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

काल उवाच ।

अद्योद्दामतरङ्गौघभाङ्काररणितानिले ।

तीर एव तरङ्गिण्यास्तपस्तपति ते सुतः

॥१॥

जटावानक्षवलयी जितसर्वेन्द्रियभ्रमः ।

तत्र वर्षशतान्यष्टौ संस्थितस्तपसि स्थिरे

॥२॥

यदीच्छसि मुने द्रष्टुं तं स्वप्नाभं मनोभ्रमम् ।

तत्समुन्मील्य विज्ञाननेत्रमाशु विलोकय

॥३॥

श्रीवसिष्ठ उवाच ।

इत्युक्ते जगदीशेन कालेन समदृष्टिना ।

मुनिः संचिन्तयामास ज्ञानाक्ष्णा तनयेहितम्

॥४॥

ददर्श च मुहूर्तेन प्रतिभानवशादसौ ।

पुत्रोदन्तमशेषेण बुद्धिदर्पणबिम्बितम्

॥५॥

पुनर्मन्दरसानुस्थां स्वस्थां कालाग्रसंस्थिताम् ।

समङ्गायास्तटादेत्य विवेश स्वतनुं भृगुः

॥६॥

विस्मयस्मेरया दृष्ट्या कालमालोक्य कान्तया ।

वीतरागमुवाचेदं वीतरागो मुनिर्वचः

॥७॥

भगवन्भूतभव्येश बाला वयमनुज्ज्वलाः ।

त्वादृशामेव धीर्देव त्रिकालामलदर्शिनी

॥८॥

नानाकारविकाराढ्या सत्येवासत्यरूपिणी ।

विभ्रमं जनयत्येषा धीरस्यापि जगत्स्थितिः

॥९॥

त्वमेव देव जानासि त्वदभ्यन्तरवर्ति यत् ।

रूपमस्या मनोवृत्तेरिन्द्रजालविधायकम्

॥१०॥

मत्पुत्रस्यास्य भगवन्मृत्युः किल न विद्यते ।

तेनेमं मृतमालोक्य जातः संभ्रमवानहम्

॥११॥

अक्षीणाजीवितं पुत्रं कालो मे नीतवानिति ।

नियतेर्वशतो देव तुच्छापीच्छा ममोदिता

॥१२॥

ननु विज्ञातसंसारगतयो वयमापदाम् ।

संपदां चैव गच्छामो हर्षामर्षवशं विभो

॥१३॥

अयुक्तकारिणि क्रोधः प्रसादो युक्तकारिणि ।

कर्तव्य इति रूढेयं संसारे भगवन् स्थितिः

॥१४॥

इदं कार्यमिदं नेति यावत्कार्यं जगद्भ्रमः ।

तस्यैतत्संपरित्यागो हेय एव जगद्गुरो

॥१५॥

केवलं तावकीं चिन्तामनालोक्य यदा वयम् ।

भगवन्भवते क्रुद्धा याताः स्मस्तेन बाध्यताम्

॥१६॥

त्वयेदानीमहं देव स्मारितस्तनयेहितम् । ।

समङ्गायास्तटे तेन दृष्टोऽयं तनयो मया

॥१७॥

मनो जगति भूतानां द्वे शरीरेऽत्र सर्वगम् ।

मन एव शरीरं हि येनेदं भाव्यते जगत्

॥१८॥

काल उवाच ।

सम्यगुक्तं त्वया ब्रह्मन् शरीरं मन एव च ।

करोति देहं संकल्पात्कुम्भकारो घटं यथा

॥१९॥

करोत्यकृतमाकारं कृतं नाशयति क्षणात् । ।

संकल्पेन मनोमोहाद्बालो वेतालकं यथा

॥२०॥

तथा च संभ्रमस्वप्नमिथ्याज्ञानादिभासुराः । ।

गन्धर्वनगराकारा दृष्टा मनसि शक्तयः

॥२१॥

स्थूलदृष्टिदशां त्वेतामवलम्ब्य महामुने । ।

पुंसो मनः शरीरं च कायौ द्वाविति कथ्यते

॥२२॥

मनो मनननिर्माणमात्रमेतज्जगत्त्रयम् ।

न सन्नासदिव स्फारमुदितं नेतरन्मुने

॥२३॥

चित्तदेहाङ्गलतया भेदवासनयेद्धया ।

द्विचन्द्रत्वमिवाज्ञानान्नानातेयं समुत्थिता

॥२४॥

।

भेदवासनया पश्यत्पदार्थनिचयं मनः । ।

भिन्नं पश्यति सर्वत्र घटावटपटादिकम्

॥२५॥

ऽ

कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः ।

भावयत्स्वविकल्पोत्थां याति संसारितां मनः

॥२६॥

मननं कृत्रिमं रूपं ममैतन्न यतोऽस्म्यहम् ।

इति तत्त्यागतः शान्तं चेतो ब्रह्म सनातनम्

॥२७॥

यथा प्रवितताम्भोधौ द्रुतां नैकतरङ्गिणि ।

शाम्यत्स्पन्दतयानेककल्लोलावलिशालिनि

॥२८॥

वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले ।

अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे

॥२९॥

ह्रस्वस्तरङ्गः स्वं रूपं भावयन्त्यस्वभावतः ।

ह्रस्वोऽस्मीति विकल्पेन करोति स्वेन भावनाम्

॥३०॥

दीर्घस्तरङ्गः स्वं रूपं भावयन्त्यस्वभावतः ।

दीर्घोऽस्मीति विकल्पेन करोति स्वेन भावनाम्

॥३१॥

ह्रस्वश्चैव परिभ्रष्टरूपोऽस्मीति तलातलम् ।

भावयन्भूतलं याति तादृग्भावनया स्वया

॥३२॥

उत्पन्नश्च पलादूर्ध्वमुत्थितोऽस्मीति भावितः ।

सरश्मिरत्नजालस्तु शोभते दीप्तया श्रिया

॥३३॥

तुषारकरबिम्बस्थः शीतलोऽस्मीति बिम्बति ।

सतटाचलदावाग्निप्रतिबिम्बो ज्वलद्वपुः

॥३४॥

बिभेति बत दग्धोऽस्मीत्यात्तमौनश्च कम्पते ।

प्रतिबिम्बितवेलाद्रितटपक्षवनद्रुमः

॥३५॥

महदारम्भसंरम्भसंयुक्तोऽस्मीति राजते ।

विशल्लोलानिलात्यन्तध्वस्तलोलशरीरकः

॥३६॥

खण्डशः परियातोऽस्मीत्यात्तक्रन्द इवारवी ।

न चोर्मयस्ते जलधेर्व्यतिरिक्ताः पयोधरात्

॥३७॥

नचैकं रूपमेतेषां किंचित्सन्नाप्यसन्मयम् ।

नचैते ह्रस्वदैर्घ्याद्या गुणास्तेषु न तेषु ते

॥३८॥

नोर्मयः संस्थिता ह्यब्धौ न तत्तत्र न संस्थिताः ।

केवलं स्वस्वभावस्थसंकल्पविकलीकृताः

॥३९॥

नष्टानष्टाः पुनर्जाता जाताजाताः पुनः पुनः ।

परस्परपरामर्शान्नान्यतामुपयान्त्यलम्

॥४०॥

एकरूपाम्बुसामान्यमया एव निरामयाः ।

तथैवास्मिन्प्रवितते सिते शुद्धे निरामये

॥४१॥

ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि ।

सर्वशक्तावनाद्यन्ते पृथग्वदपृथक्कृताः

॥४२॥

संस्थिताः शक्तयश्चित्रा विचित्राचारचञ्चलाः ।

नानाशक्तिर्हि नानात्वमेति स्वे वपुषि स्थितिम्

॥४३॥

बृंहितं ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम् ।

स्त्रीपुमान्व्यङ्गरूपेण ब्रह्मेव परिवर्तते

॥४४॥

कल्पनान्या जगन्नाम्नी नासीदस्ति भविष्यति ।

ब्रह्मणो जगतो भेदो मनागपि न विद्यते

॥४५॥

संपूर्णं खल्विदं ब्रह्म जगद्ब्रह्मैव केवलम् ।

इति भावय यत्नेन ह्यन्यत्सर्वं परित्यज

॥४६॥

नानारूपिण्येकरूपा वैरूप्यशतकारिणी ।

नियतिर्नियताकारा पदार्थमधितिष्ठति

॥४७॥

जडाजडमुपादत्ते चित्तमायाति चिन्मये ।

वासनारूपिणी शक्तिः स्वस्थरूपा स्थितात्मनः

॥४८॥

ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते ।

नानारूपैः प्रतिस्पन्दैः परिपूर्ण इवार्णवः

॥४९॥

नानातां स्वयमादत्ते नानाकारविहारतः ।

आत्मैवात्मन्यात्मनैव समुद्राम्भ इवाम्भसि

॥५०॥

व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा ।

व्यतिरिक्ता न विश्वेशात्समग्राः कल्पनास्तथा

॥५१॥

शाखापुष्पलतापत्रफलकोरकयुक्तयः ।

यथैकस्मिंस्तथा बीजे सर्वदा सर्वशक्तिता

॥५२॥

विचित्रवर्णता यद्वद्दृश्यते कठिनातपे ।

विचित्रशक्तिता तद्वद्देवेशे सदसन्मयी

॥५३॥

विचित्ररूपोदेतीयमविचित्रात्स्थितिः शिवात् ।

एकवर्णात्पयोवाहाच्छक्रचापलता यथा

॥५४॥

अजडाज्जडतोदेति जाड्यभावनहेतुका ।

ऊर्णनाभाद्यथा तन्तुर्यथा पुंसः सुषुप्तता

॥५५॥

अचितश्चेतसः शक्तिं स्वबन्धायेच्छया शिवः ।

तनोति तान्तवं कोशं कोशकारकृमिर्यथा

॥५६॥

स्वेच्छयात्मात्मनो ब्रह्मन्भावयित्वैष विस्मृतिम् ।

करोति कठिनं बन्धं कोशकारकृमिर्यथा

॥५७॥

स्वेच्छयात्मात्मनो ब्रह्मन्भावयित्वा स्वकं वपुः ।

संसारान्मोक्षमाप्नोति स्वालानादिव वारणः

॥५८॥

यथैव भावयत्यात्मा सततं भवति स्वयम् ।

तथैवापूर्यते शक्त्या शीघ्रमेव महानपि

॥५९॥

भाविता शक्तिरात्मानमात्मतां नयति क्षणात् ।

अनन्तमखिलं प्रावृड्मिहिका महती यथा

॥६०॥

या शक्तिरुदिता शीघ्रं याति तन्मयतामजः ।

य एवर्तुः स्थितिं यातस्तन्मयो भवति द्रुमः

॥६१॥

न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः ।

बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः

॥६२॥

नास्ति बन्धो न मोक्षोऽस्ति तन्मयस्त्विव लक्ष्यते ।

ग्रस्तं नित्यमनित्येन मायामयमहो जगत्

॥६३॥

यदैव चित्तं कलितं किलानेनाकलात्मना ।

कोशकारवदात्मायमनेनावलितस्तदा

॥६४॥

अन्योन्यरूपास्त्वत्यन्तं विकल्पितशरीरकाः ।

मनःशक्तय एतस्मादिमा निर्यान्ति कोटयः

॥६५॥

तज्जास्तत्स्थाः पृथग्रूपाः समुद्रादिव वीचयः ।

तज्जास्तत्स्थाः पृथक्स्थाश्च चन्द्रादिव मरीचयः

॥६६॥

अस्मिन्स्पन्दमये स्फारे परमात्ममहाम्बुधौ ।

चिज्जले वितताभोगे चिन्मात्ररसमालिनि

॥६७॥

काश्चित्स्थिरा ब्रह्मविष्णू काश्चिद्रुद्रत्वमागताः ।

काश्चित्पुरुषतां प्राप्ताः काश्चिद्देवत्वमागताः

॥६८॥

[ लहर्यः प्रस्फुरन्त्येताः स्वभावोद्भावितात्मकाः ।

काश्चिद्यममहेन्द्रार्कवह्निवैश्रवणादिकाः ।।

घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश्चपलैषणाः ।

काश्चित्किंनरगन्धर्वविद्याधरसुरादिकाः ।।

उत्पतन्ति पतन्त्युग्रा लहर्यः परिवल्गिताः ।

काश्चित्किंचित्स्थिराकारा यथा कमलजादिकाः ।।

काश्चिदुत्पन्नविध्वस्ता यथा सुरनरादिकाः ।।]

कृमिकीटपतङ्गाहिगोमशाजगरादिकाः ।

काश्चित्तस्मिन्महाम्भोधौ स्फुरन्त्येतेम्बुबिन्दुवत्

॥६९॥

काश्चिच्चला नरमृगगृध्रजम्बुलकादिकाः ।

स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्विव

॥७०॥

सुदीर्घजीविताः काश्चित्काश्चिदत्यल्पजीविताः ।

अतुच्छकलनाः काश्चित्काश्चित्तुच्छशरीरकाः

॥७१॥

संसारस्वप्नसंरम्भे काश्चित्स्थैर्येण भाविताः ।

सुविकल्पहताः काश्चिच्छङ्कन्ते सुस्थिरं जगत्

॥७२॥

अल्पाल्पभावनाः काश्चिद्दैन्यदोषवशीकृताः ।

कृशोऽतिदुःखी मूढोऽहमितिदुःखैर्वशीकृताः

॥७३॥

काश्चित्स्थावरतां याताः काश्चिद्देवत्वमागताः ।

काश्चित्पुरुषतां प्राप्ताः काश्चिदर्णवतां गताः

॥७४॥

काश्चित्स्थिता जगति कल्पशतान्यनल्पाः

काश्चिद्व्रजन्ति परमं पदमिन्दुशुद्धाः ।

ब्रह्मार्णवात्समुदिता लहरीविलोला-

श्चित्संविदो हि मननापरनामवत्यः

॥७५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने संसारप्रवृत्तिदर्शनं नामैकादशः सर्गः ।। ११ ।।