मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ६४

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 64

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

योऽयं सर्वगतो देवः परमात्मा महेश्वरः ।

स्वच्छः स्वानुभवानन्दस्वरूपोऽन्तादिवर्जितः

॥१॥

एतस्मात्परमानन्दाच्छुद्धचिन्मात्ररूपिणः ।

जीवः संजायते पूर्वं स चित्तं चित्ततो जगत्

॥२॥

श्रीराम उवाच ।

स्वानुभूतिप्रमाणेऽस्मिन्ब्रह्मणि ब्रह्मबृंहिते ।

कथं सत्तामवाप्नोति जीवको द्वैतवर्जिते

॥३॥

श्रीवसिष्ठ उवाच ।

असदाभासमच्छात्म ब्रह्मास्तीह प्रबृंहितम् ।

बृहच्चिद्भैरववपुरानन्दाभिधमव्ययम्

॥४॥

तस्य यत्सममापूर्णं शुद्धं सत्वमचिह्नितम् ।

तद्विदामप्यनिर्देश्यं तच्छान्तं परमं पदम्

॥५॥

तस्यैवोद्यदिवाशान्ति यत्सत्त्वं संविदात्मकम् ।

स्वभावात्स्पन्दनं तत्तु जीवशब्देन कथ्यते

॥६॥

तत्रेमाः परमादर्शे चिद्व्योम्न्यनुभवात्मिकाः ।

असंख्याः प्रतिबिम्बन्ति जगज्जालपरम्पराः

॥७॥

ब्रह्मणः स्फुरणं किंचिद्यदवाताम्बुधेरिव ।

दीपस्येवाप्यवातस्य तं जीवं विद्धि राघव

॥८॥

शान्तत्वापगमेऽच्छस्य मनाक्संवेदनात्मकम् ।

स्वाभाविकं यत्स्फुरणं चिद्व्योम्नः सोऽङ्ग जीवकः

॥९॥

यथा वातस्य चलनं कृशानोरुष्णता यथा ।

शीतता वा तुषारस्य तथा जीवत्वमात्मनः

॥१०॥

चिद्रूपस्यात्मतत्त्वस्य स्वाभाववशतः स्वयम् ।

मनाक्संवेदनमिव यत्तज्जीव इति स्मृतम्

॥११॥

तदेव घनसंवित्त्या यात्यहंतामनुक्रमात् ।

वह्न्यणुः स्वेन्धनाधिक्यात्स्वां प्रकाशकतामिव

॥१२॥

यथा स्वतारकामार्गे व्योम्नः स्फुरति नीलिमा ।

शून्यस्याप्यस्य जीवस्य तथाहंभावभावना

॥१३॥

जीवोऽहंकृतिमादत्ते संकल्पकलयेद्धया ।

स्वयैतया घनतया नीलिमानमिवाम्बरम्

॥१४॥

अहंभावो हि दिक्कालव्यवच्छेदी कृताकृतिः ।

स्वयं संकल्पवशतो वातस्पन्द इव स्फुरन्

॥१५॥

संकल्पोन्मुखता यातस्त्वहंकाराभिधः स्थितः ।

चित्तं जीवो मनो माया प्रकृतिश्चेति नामभिः

॥१६॥

तत्संकल्पात्मकं चेतो भूततन्मात्रकल्पनम् ।

कुर्वंस्ततो व्रजत्येव संकल्पाद्याति पञ्चताम्

॥१७॥

तन्मात्रपञ्चकाकारं चित्तं तेजःकणो भवेत् ।

अजातजगति व्योम्नि तारका पेलवा यथा

॥१८॥

तेजःकणत्वमादत्ते चित्तं तन्मात्रकल्पनात् ।

शनैः स्वस्मात्परिस्पन्दाद्बीजमङ्कुरतामिव

॥१९॥

असौ तेजःकणोऽण्डाख्यः कल्पनात्कश्चिदण्डताम् ।

प्रयात्यन्तःस्फुरद्ब्रह्मा जलमापिण्डतामिव

॥२०॥

कश्चिद्द्रागिति देहादिकलनाद्याति देहताम् ।

भ्रान्तित्वं तदतद्रूपं गन्धर्वैश्च वसत्पुरम्

॥२१॥

कश्चित्स्थावरतामेति कश्चिज्जंगमतामपि ।

कश्चिद्याति खचार्यादिरूपं संकल्पतः स्वतः

॥२२॥

सर्गादावादिजो देहो जीवः संकल्पसंभवः ।

क्रमेण पदमासाद्य वैरिञ्चं कुरुते जगत्

॥२३॥

आत्मभूकलनात्मासौ यत्संकल्पयति क्षणात् ।

तत्स्वभाववशादेव जातमेव प्रपश्यति

॥२४॥

चित्स्वभावात्समायातं ब्रह्मत्वं सर्वकारणम् ।

संसृतौ कारणं पश्चात्कर्म निर्माय संस्थितम्

॥२५॥

चित्तं स्वभावात्स्फुरति चित्तः फेन इवाम्भसः ।

कर्मभिर्बध्यते पश्चाड्डिण्डीरमिव रज्जुभिः

॥२६॥

संकल्पः कलनाबीजं तदात्मैव हि जीवकः ।

कर्म पश्चात्तनोत्युच्चैरुत्थायाकर्मतः क्रमात्

॥२७॥

क्रोडीकृताङ्कुरं पूर्वं जीवो धत्ते स्वजीवितम् ।

पश्चान्नानात्वमायाति पत्राङ्कुरफलक्रमैः

॥२८॥

अन्ये स्व एव ये जीवा एवमेवाकृतिं गताः ।

पूर्वोत्पन्ने जगति ते यान्ति भूताश्रयां स्थितिम्

॥२९॥

स्वकर्मभिस्ततो जन्ममृतिकारणतां गतैः ।

प्रयान्त्यूर्ध्वमधस्ताद्वा कर्म चित्स्पन्द उच्यते

॥३०॥

चित्स्पन्दन भवति कर्म तदेव दैवं

चित्तं तदेव भवतीह शुभाशुभादि ।

तस्माज्जगन्ति भुवनानि भवन्ति पूर्वं

भूत्वा निजाङ्गकुसुमानि तरोरिवाद्यात्

॥३१॥