मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः २८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 28

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवं भुशुण्डवृत्तान्तः कथितस्ते मयानघ ।

अनया प्रज्ञया तीर्णो भुशुण्डो मोहसंकटात्

॥१॥

एतां दृष्टिमवष्टभ्य स्वप्राणाभ्यासपूर्विकाम् ।

भुशुण्डवन्महाबाहो भव तीर्णमहार्णवः

॥२॥

यथा ज्ञानेन योगेन संतताभ्यासजन्मना ।

भुशुण्डः प्राप्तवान्प्राप्यं तथासादय तत्पदम्

॥३॥

असक्तबुद्धयः सर्वे भुशुण्डवदवस्थितिम् ।

प्राप्नुवन्ति परे तत्त्वे प्राणापानावलोकिनः

॥४॥

एता विचित्रा भवता श्रुता विज्ञानदृष्टयः ।

इदानीं धियमालम्ब्य यथेच्छसि तथा कुरु

॥५॥

श्रीराम उवाच ।

भगवन्भवता भूमिभास्वता ज्ञानरश्मिभिः ।

हार्दमुद्दामदौरात्म्यं प्रमृष्टमखिलं तमः

॥६॥

प्रबुद्धाः स्मः प्रहृष्टाः स्मः प्रविष्टाः स्मः स्वमास्पदम् ।

स्थिताः स्मो ज्ञातविज्ञेया भवन्तो ह्यपरा इव

॥७॥

अहो भुशुण्डचरितं परं विस्मयकारकम् ।

भगवन्भवता प्रोक्तमुत्तमार्थावबोधनम्

॥८॥

भुशुण्डचरिते ब्रह्मन्नेतस्मिन्कथिते त्वया ।

यच्छरीरगृहं प्रोक्तं मांसचर्मास्थिनिर्मितम्

॥९॥

तत्केन नाम रचितं कुतो वा तत्समुत्थितम् ।

कथं वा स्थितिमायातं को वा तत्रावतिष्ठते

॥१०॥

श्रीवसिष्ठ उवाच ।

परमार्थावबोधाय दोषापाकरणाय च ।

श्रृणु राघव तत्त्वेन वक्ष्यमाणमिदं मया

॥११॥

अस्थिस्थूणं नवद्वारं रक्तमांसावलेपनम् ।

शरीरसदनं राम न केनचिदिदं कृतम्

॥१२॥

आभासमात्रमेवेदमित्थमेवावभासते ।

द्विचन्द्रविभ्रमाकारं सदसच्च व्यवस्थितम्

॥१३॥

द्विचन्द्रदर्शनविधौ चन्द्रद्वित्वं सदैव हि ।

वस्तुतश्चैक एवेन्दुः स्थितो देहस्तथैव हि

॥१४॥

देहप्रत्ययकाले हि देहोऽयं समवस्थितः ।

असन्नेव च सत्तस्मात्प्रोक्तः सदसदात्मकः

॥१५॥

स्वप्ने स्वप्नावबोधः संस्त्वन्यदा स मुधैव हि ।

बुद्बुदो बुद्बुदविधौ सत्यो मिथ्यैव चान्यदा

॥१६॥

देहो देहविधौ सत्यो ह्यसत्य इतरद्विधौ ।

प्रतिभासविधौ तावज्जलं सदसदन्यदा

॥१७॥

प्रतिभासविधौ देहः सन्नसंश्चान्यदा स्मृतः ।

आभासमात्रमेवेदमित्थं संप्रति भासते

॥१८॥

अयं नामाहमित्यन्तर्गृहीतमननं स्थितम् ।

मांसास्थिमयनिर्माणदेहोऽहमिति विभ्रमम्

॥१९॥

त्यज संकल्पनिर्माणदेहाः सन्ति सहस्रशः ।

सुखतल्पगतो येन स्वप्नदेहेन दिक्तटान्

॥२०॥

परिभ्रमसि हे राम स देहस्ते क्व संस्थितः ।

जागरायां मनोराज्ये येन स्वर्गपुरान्तरम्

॥२१॥

परिभ्रमसि मेरुं वा स देहस्ते क्व संस्थितः ।

स्वप्नेष्वपि च यः स्वप्नस्तत्र येन महीतटान्

॥२२॥

परिभ्रमसि हे राम स देहस्ते क्व संस्थितः ।

मनोराज्यं मनोराज्ये महद्विभवभूमिषु

॥२३॥

परिभ्रमसि येनेह स देहस्ते क्व संस्थितः ।

गतैर्देहैर्मनोराज्ये या विचित्रा जगत्क्रियाः

॥२४॥

प्रकरोषि महाबाहो ते देहास्ते क्व संस्थिताः ।

विलासिन्यानुरागिण्या येन संकल्पकान्तया

॥२५॥

निर्वृतिं यासि देहेन स देहस्ते क्व संस्थितः ।

एते राम यथा देहा मनसः सदसन्मयाः

॥२६॥

तथैव तादृशाचारो देहोऽयं मनसः स्मृतः ।

इदं धनमयं देहो देशोऽयमिति विभ्रमः

॥२७॥

तत्सर्वं चित्तवीर्यस्य संकल्पस्य विजृम्भितम् ।

दीर्घस्वप्नमिमं विद्धि दीर्घं वा चित्तविभ्रमम्

॥२८॥

दीर्घं वापि मनोराज्यं संसारं रघुनन्दन ।

प्रबोधमेष्यसि यदा परमात्मेच्छया स्वया

॥२९॥

द्रक्ष्यसि त्वं तदा सम्यगिदमर्कोदये यथा ।

स्वप्नसंकल्पजालेन यथान्यैव जगत्स्थितिः

॥३०॥

तथैवेयं हि संकल्पकलना काचिदेव हि ।

यथा पूर्वं मयोत्पत्तिः प्रोक्ता कमलजन्मनः

॥३१॥

मनसः स्वयमेवान्तःसंकल्पकलनोद्भवा ।

विचित्ररचनोपेतं मनस्तत्रात्तविभ्रमम्

॥३२॥

संकल्पकलनामात्रं तथेदमवभासनम् ।

यथा कल्पित आभासो मनसोऽब्जजतां गतः

॥३३॥

देहाद्विचिन्तितो देहः स्थितोऽन्यस्तद्वदेव हि ।

प्राक्प्रवाहचिराभ्यस्तो वासनातिशयेन यः

॥३४॥

तथैव दृश्यते देहस्तथाऽऽकृत्युदयेन सः ।

पौरुषेण प्रयत्नेन संकल्पो ह्ययमेव चित्

॥३५॥

अन्यथा भाव्यते राम भूयते तदिहान्यथा ।

अयं सोऽयं ममायं च संसार इति भाविते

॥३६॥

सत्यो यो भाव्यते राम भावनादार्ढ्यसंभवः ।

भावितं तीव्रवेगेन यदेवाशु तदेव हि

॥३७॥

सर्वत्र दृश्यते राम कान्तेवात्यन्तवल्लभा ।

अहर्व्यावृत्तिरभ्यस्ता यथा स्वप्नेषु दृश्यते

॥३८॥

तथायं भावनाभ्यस्तः संसारोऽप्यवलोक्यते ।

यथा स्वप्नावनौ क्षिप्रमहर्यदवभासते

॥३९॥

तथेदमल्पकालस्थमपि संलक्ष्यते स्थिरम् ।

व्योमन्येव यथा तापतप्ते संदृश्यते सरित्

॥४०॥

धराप्यविद्यमानापि संकल्पाद्दृश्यते तथा ।

दृश्यते दृष्टिवैरूप्याद्यथा व्योमनि पिच्छिका

॥४१॥

तथैवेयं जगल्लक्ष्मीर्दुर्ज्ञानादवभासते ।

दृश्यते समया दृष्ट्या न यथा व्योम्नि पिच्छिका

॥४२॥

सम्यग्दृष्ट्या जगल्लक्ष्मीस्तथेयं नावभासते ।

भीरुरभ्येति न यथा स्वसंकल्पेषु संभ्रमम्

॥४३॥

स्वसंकल्पे हि संसारे न तथैति भयं सुधीः ।

स्व एव हि स्वभावोऽयमित्थं संप्रति भासते

॥४४॥

संसारसरणिस्थित्यां कस्मात्कोऽत्र विभेति किम् ।

स एव किंचित्संशोध्यः शुद्ध्या विमलतां गते

॥४५॥

तस्मिन्न दृश्यते राम मोहोऽयं जगतः स्थितः ।

सम्यगालोकमात्रेण स्वभावः शुद्धिमृच्छति

॥४६॥

न गृह्णाति मलं भूयस्ताम्रतामिव काञ्चनम् ।

आभासमात्रमेवेदं न सन्नासज्जगत्त्रयम्

॥४७॥

इत्यन्यकलनात्यागः सम्यगालोकनं विदुः ।

मरणं जीवितं स्वर्गो ज्ञानमज्ञानमेव च

॥४८॥

चिदाभासादृते नास्तीत्येकता सम्यगीक्षणम् ।

त्वमहंतादिसंसार इति मे न दिशो दश

॥४९॥

सर्वं स्वाभासमेवेति सम्यगालोकनं विदुः ।

सदसन्मयसंसारे यथा भूतार्थदर्शनात्

॥५०॥

नास्तमेति न चोदेति सम्यगालोकनान्मनः ।

निर्णीय सर्वभावानामसत्त्वं सत्त्वमेव च

॥५१॥

निष्कामं शान्तिमभ्येति सम्यगालोकनान्मनः ।

न निन्दति न च स्तौति न हृष्यति न शोचति

॥५२॥

शीतलां सत्यतामेति सम्यगालोकनान्मनः ।

अवश्यमेव मर्तव्यं सर्वैरेव हि बन्धुभिः

॥५३॥

इति बन्धुवियोगेषु किं वृथा परितप्यसे ।

अवश्यमेव च मया मर्तव्यमिति निश्चयः

॥५४॥

इत्यात्ममरणप्राप्तौ किं मुधा परितप्यसे ।

अवश्यमेव जातेन किंचित्सुविभवादिकम्

॥५५॥

प्राप्तव्यं पुरुषेणेति हर्षस्यावसरो हि कः ।

सर्वस्यैव हि संसारे नरस्य व्यवहारिणः

॥५६॥

अर्थायाता भवत्यापच्छोकस्यावसरो हि कः ।

बृंहत्युदेति स्फुरति बुद्बुदौघ इवार्णवे

॥५७॥

इदं हि जगतां जालं किमत्र परिदेवना ।

सत्सदेव सदैवैतदसदेवासदेव हि

॥५८॥

क्रियावैचित्र्यमात्रे तु किमन्यत्परिदेव्यते ।

नाहमस्मि न चाभूवं भविष्यामि न सोऽधुना

॥५९॥

देहोऽयं चित्रदोषोत्थः किमन्यत्परिदेव्यते ।

देहाच्चेदन्य एवाहं चिदाभासस्तदङ्ग हे

॥६०॥

कौ तौ मे सदसद्भावौ यन्निष्ठं परितप्यते ।

इति निश्चयवत्स्वान्तं सम्यग्ज्ञानात्मनो मुनेः

॥६१॥

नास्तमेति न चोदेति न शान्तं परितप्यते ।

परतामेव नाशान्तामनुत्तमपदे स्थितः

॥६२॥

आदत्ते तित्तिरी मृद्वीं तृणकोटिमिवामलाम् ।

एतदर्थमसत्येऽस्मिन्नास्था कार्या मनागपि

॥६३॥

सुरज्ज्वेव बलीवर्दो बध्यते जन्तुरास्थया ।

अतस्त्वया दृढमिदमिति निर्णीय बुद्धितः

॥६४॥

आस्थारहितया बुद्ध्या विहर्तव्यमिहानघ ।

कर्तव्यमेव कर्तव्यमकर्तव्यमुपेक्ष्यते

॥६५॥

आस्थानास्थे परित्यज्य लीलयैव महाधिया ।

आभासमात्रमेवेदं यस्य च प्रतिभासते

॥६६॥

सोऽन्तः शीतलतामेति दिनान्ते भुवनं यथा ।

प्रतिभासं परित्यज्य पदार्थपटलव्रजे

॥६७॥

आभासमात्रसामान्यमिदमालोकयानघ ।

आभासमात्रकं राम चित्तामर्शकलङ्कितम्

॥६८॥

ततस्तदपि संत्यज्य निराभासो भवोत्तम ।

चिदाकाशमयो नित्यं सर्वगः सर्ववर्जितः

॥६९॥

आभासस्य परित्यागे भवस्येकान्तनिर्मलः ।

नाहमस्मि न मे भोगाः सत्या इत्यभिभाविते

॥७०॥

नेदमाडम्बरं व्यर्थमनर्थायावभासते ।

अहमेव हि वा सर्वं चिदित्येवं विभाविते

॥७१॥

नेदमाडम्बरं व्यर्थमनर्थायावभासते ।

दर्शनद्वयमप्येतत्सत्यमत्यन्तसिद्धिदम्

॥७२॥

यदेकमेतयोवेत्सि रम्यं तद्राम संश्रय ।

द्वाभ्यामेवाथ वै ताभ्यां दर्शनाभ्यामिहानघ

॥७३॥

विहरन्कुरु कल्याण रागद्वेषपरिक्षयम् ।

यत्किंचिदुदितं लोके यन्नभस्यथ वा दिवि

॥७४॥

तत्सर्वं प्राप्यते राम रागद्वेषपरिक्षयात् ।

रागादिहतया बुद्ध्या यादृग्राम विचेष्टितम्

॥७५॥

तत्तदेव प्रयात्याशु मूढानां विपरीतताम् ।

द्वेषदोषोर्मिरुद्धासु न गुणाश्चित्तवृत्तिषु

॥७६॥

पदं कुर्वन्ति दग्धासु स्थलीषु हरिणा इव ।

रागो द्वेषश्च सर्पौ द्वौ न विलीनौ मनोविले

॥७७॥

यस्य कल्पतरोस्तस्मात्किं नामाङ्ग न लभ्यते ।

ये हि प्राज्ञाः स्वनियता विदग्धाः शास्त्रशालिनः

॥७८॥

रागद्वेषमयास्ते वै जम्बुकास्ते धिगस्तु तान् ।

मद्धनं भुक्तमन्येन धनं त्यक्तं मयाऽन्यतः

॥७९॥

इति संव्यवहारेहाः के रागद्वेषयोः क्रमाः ।

धनानि बन्धवो मित्रं पुनरायान्ति यान्ति च

॥८०॥

किमेतेषु नरः प्राज्ञो रज्यते वा विरज्यते ।

भावाभावभवाभोगा मायेयं पारमेश्वरी

॥८१॥

संसाररचना सर्वा संसक्तं पातयत्यलम् ।

न धनं न जनो नात्मा सत्यं राघव वस्तुतः

॥८२॥

मिथ्यैव मिथ्यावसितमितीदं परिलक्ष्यते ।

आद्यन्तयोः सर्वमसन्मध्येऽप्यस्थिरमाधिमत्

॥८३॥

क्व बघ्नाति रतिं प्राज्ञो ह्यन्यकल्पितखद्रुमे ।

एकेन कल्पिता खे स्त्री भुङ्क्ते तां दूरगोऽपरः

॥८४॥

इतीयमङ्ग संसाररचना तेन मा भ्रम ।

भूताजवं जवीभावमिममाततमाकुलम्

॥८५॥

गन्धर्वपुरनिर्माणविलासेन समं विदुः ।

स्वप्नसंकल्पपुरवदसदेवेदमुत्थितम्

॥८६॥

सर्वत्र संस्थमेवेदं सुषुप्तमिव विच्युतम् ।

परिपश्यसि संसारदीर्घस्वप्नपुरद्रुमम्

॥८७॥

अज्ञाननिद्रालुठनस्वभावात्मकमच्युतम् ।

संसारस्वप्नसंभ्रान्तो भवानयमिह स्थितः

॥८८॥

तदेनां विततां निद्रां घनाज्ञानमयात्मिकाम् ।

त्यजालक्ष्मीमिवावाप्तनिधानः पुरुषोत्तमः

॥८९॥

प्रबोधमेहि पश्य स्वमात्मानमुदितं सदा ।

निर्विकल्पं चिदाभासं प्रातःपद्मं रविं यथा

॥९०॥

प्रबुध्यस्व प्रबुध्यस्व पुनःपुनरयं मया ।

प्रबोध्यसे महाबाहो पश्यात्मार्कमनामयम्

॥९१॥

मयैतेनाभिवृष्टेन शीतेन ज्ञानवारिणा ।

सुशब्दशालिना राम ह्यनेनैवासि बोधितः

॥९२॥

बोधमासादय परं प्रबोधोऽद्यैव राघव ।

सत्यमालोकयालीकं त्यक्त्वेमं जागतं भ्रमम्

॥९३॥

न ते जन्म न ते दुःखं न दोषास्ते न ते भ्रमाः ।

सर्वं संकल्पमुत्सृज्य तिष्ठात्मनि सुसंस्थितः

॥९४॥

परिगलितविकल्पदोषजाल-

स्त्वमसि सुसारसुषुप्तसौम्यदृष्टिः ।

अतिविततमिदं सुशुद्धये त्वं

समुपशमात्मनि तिष्ठ हे महात्मन्

॥९५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० परमार्थयोगोपदेशो नामाष्टाविंशः सर्गः ।। २८ ।।