मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १४५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 145

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

मुनिरुवाच ।

बहिष्ठैर्बाह्यमेवान्तरन्तस्थैः स्वप्नमिन्द्रियैः ।

जीवो वेत्ति द्वयस्थातितीव्रसंवेगिभिर्द्वयम्

॥१॥

यदेन्द्रियाणि तिष्ठन्ति बाह्यतश्च समाकुलम् ।

तदा म्लानानुभवनः संकल्पार्थोऽनुभूयते

॥२॥

यदा त्वन्तर्मुखान्येव सन्त्यक्षाणि तदा जगत् ।

अणुमात्रं स्ववपुषि जीवस्तेनातिवेत्ति तत्

॥३॥

जगप्सप्रतिघं नास्ति किंचिदेव कदाचन ।

जीवेक्षणानामक्षाणां दृष्टिरप्रतिघा जगत्

॥४॥

जीवनेत्राणीन्द्रियाणि यदा बाह्यमयान्यलम् ।

तदा बाह्यात्मकं वेत्ति चिति जीवो जगद्वपुः

॥५॥

श्रोत्रं त्वगीक्षणं घ्राणं जिह्वा चेतीहितात्मकः ।

संघातः प्रोच्यते जीवश्चिद्रूपोऽनिलमूर्तिमान्

॥६॥

सर्वत्र सर्वदा जीवः सर्वेन्द्रियमयः स्थितः ।

चिच्चिद्व्योमाव्ययस्तेन सर्वं सर्वत्र पश्यति

॥७॥

श्लेष्मात्मना रसेनान्तर्जीव आपूर्यते यदा ।

तेऽक्षाणुकेऽणुरूपात्मा तदा तत्रैव विन्दति

॥८॥

क्षीरार्णव इवोड्डीनो नभश्चन्द्रोदयान्वितम् ।

सरांसि फुल्लपद्मानि कह्लारवलितानि च

॥९॥

पुष्पाभ्रप्रतिधानानि परिगीतानि षट्पदैः ।

वसन्तान्तःपुराण्यन्तरुद्यानान्युदितानि खे

॥१०॥

उत्सवान्मङ्गलाकीर्णांल्लीलालोलाङ्गनागणान् ।

भक्ष्यभोज्यान्नपानश्रीपरिपूर्णगृहाजिरान्

॥११॥

सपुष्पाः फेनहसनास्तरलातरलेक्षणाः ।

विलासेनाम्बुधिं यान्ति सरितो मत्तयौवनाः

॥१२॥

हिमवच्छुभ्रशृङ्गाणि सौधानि शिशिराण्यलम् ।

सुधावधौतभित्तीनि कृतानीन्दुतलैरिव

॥१३॥

शिशिरासारहेमन्तप्रावृण्मेघवृतानि च ।

स्थलानि नीलनलिनीलताशाद्वलवन्ति च

॥१४॥

पुष्पप्रकरसंछन्ना विश्रान्तहरिणाध्वगाः ।

स्निग्धपत्रतरुच्छायाः पुरोपवनभूमिकाः

॥१५॥

कदम्बकुन्दमन्दारमकरन्देन्दुकान्तिभिः ।

भासमानासनस्थानसंस्थानाः कुसुमस्थलीः

॥१६॥

नलिनीजालिनीर्नीलाः पुष्पकस्थलधारिणीः ।

वनावलीर्विलीनाभ्रनिर्मलाकाशकोमलाः

॥१७॥

कदलीकन्दलीकुन्दकदम्बकृतशेखराः ।

गिरिमालाश्चलच्चारुलीलापल्लवपेलवाः

॥१८॥

हेलावलितधम्मिल्लमुक्तमालतिकालताः ।

इव बालाङ्गना नृत्यं तन्वानास्तनुगात्रिकाः

॥१९॥

उत्फुल्लश्वेतनलिनीनिभा नरपतेः सभाः ।

चारुचामरभृङ्गारवितानकशतावृताः

॥२०॥

वल्लीवलयविन्यासविलासवलिताङ्गिकाः ।

वनमाला विलोलाम्बुप्रणालीकाकलीकलाः

॥२१॥

धराभरकरालाङ्गधाराधरधराधराः ।

दिशः सीकरनीहारहारोदरधरा दश

॥२२॥

पित्तात्मना रसेनान्तर्जीव आपूर्यते यदा ।

ओजोन्तरणुमात्रात्मा तदा तत्रैव विन्दति

॥२३॥

पवनस्पन्दसंशुष्ककिंशुकद्रुमशोभनाः ।

ज्वालालीरुज्ज्वलाम्भोजदलपल्लवपेलवाः

॥२४॥

संतप्तसिकतासेकसनीहारसरिच्छिराः ।

दावानलशिखाश्यामधूमश्यामलदिङ्मुखाः

॥२५॥

कृशानुकर्कशानर्कांश्चक्रधाराशितत्विषः ।

दावदाहविषावेशविपरीतरसाकरान्

॥२६॥

स्वेदमुष्णीकृताब्धिं वा स्विन्नं त्रैलोक्यमण्डलम् ।

क्षरत्क्षाराण्यरण्यानि प्रतर्दगहनान्यपि

॥२७॥

प्रतरन्मृगतृष्णाम्बुसरत्सारसरूपि च ।

स्थलान्यदृष्टपूर्वाणि भूतपूर्वतरूणि च

॥२८॥

अध्वगं संभ्रमवशात्तप्तधूलिविधूसरम् ।

दूरादमृतवद्दृष्टं स्निग्धच्छायाध्वपादपम्

॥२९॥

ज्वरज्वालितमाकारं भुवनं तप्तमग्निवत् ।

पांसूपहतदेशानि दिङ्मुखानि च खानि च

॥३०॥

ग्रहग्रामार्णवाद्व्यब्धिवनव्योमाग्निका दिशः ।

तुहिनाहारहानन्तासंख्याम्बुदघटोद्भटान्

॥३१॥

शरद्ग्रीष्मवसन्तांश्च तापानातपदायिनः ।

तृणपत्रलतौघाभ्रराश्यूष्मपिहितावनीः

॥३२॥

सौवर्णमम्बरतलं भूतलं दिक्तटानि च ।

तप्तान्यदभ्रसरसीहिमशैलस्थलानि व

॥३३॥

रसानुरिक्ते वातेन जीव आपूर्यते यदा ।

ओजोन्तरणुमात्रात्मा तदा तत्रैव विन्दते

॥३४॥

वातविक्षुब्धसंवित्त्वादपूर्वं वसुधातलम् ।

अपूर्वा नगरग्रामशैलाब्धिवनमण्डलीः

॥३५॥

उड्डीयमानमात्मानं शिलाः शैलस्थलानिव ।

घनघुंघुमसारावानचक्रभ्रमणादि च

॥३६॥

हयोष्ट्रगरुडाम्भोदहंसयानावरोहणम् ।

यक्षविद्याधरादीनां गत्यागमनसंचरम्

॥३७॥

साद्रिद्यूर्वीनदीशानां वनभूग्रामपूर्दिशाम् ।

कम्पं भयोन्मुखाङ्गानां बुद्बुदानामिवार्णवे

॥३८॥

अन्धकूपे निपतितं विपुले संकटेऽथवा ।

अथवा रूढमात्मानं खमाभं पादपं गिरिम्

॥३९॥

वात्पित्तश्लेष्मयुक्तो जीव आपूर्यते यदा ।

भागैर्वातवशं प्राप्तैरार्तोऽसौ विन्दते तदा

॥४०॥

पतन्तीं पार्वतीं वृष्टिं सुशिलावृष्टिसंकटम् ।

स्फुटाट्टकटकारावभ्रमत्पादपमण्डलम्

॥४१॥

भ्रमद्भिर्वनविन्यासैः संदिग्धाम्भोधरोत्कटम् ।

सिंहवारणवर्षाभ्रनिरन्तरदिगन्तरम्

॥४२॥

तालीतमालहिंतालमालाज्वलनसंकुलम् ।

गुहाघुंघुमनिर्ह्रादभांकारघनघर्घरम्

॥४३॥

मन्द्रमन्दरमन्थानशब्दसंदर्भसुन्दरीम् ।

दरीं दलनदुर्वारमिथःसंघट्टघट्टिताम्

॥४४॥

श्रृङ्गसंघट्टसदृशाः क्रेंकारोत्करकर्कशाः ।

नदीर्मुक्तालतापातसस्रग्दामनभस्तलाः

॥४५॥

शिलाशकलपूर्णार्णपूर्णाम्बरमहार्णवम् ।

वहद्वनघनोद्धातघट्टितब्रह्ममण्डलम्

॥४६॥

परस्परविनिर्मृष्टदशदर्शनदन्तुरम् ।

चटत्कटकटारावस्फुटत्कटकटङ्कितम्

॥४७॥

खपातपवनाधूतवनवातलतोदयम् ।

रणदात्मदृषच्चूर्णकर्बुराम्बुजधारिणम्

॥४८॥

प्राग्भटोद्भटभेदोत्थैर्मन्द्रैर्मरमरारवैः ।

क्रूराक्रन्दैरिवाभाति विराजितजगत्र्त्रयम्

॥४९॥

इति तैः काष्ठपाषाणमृद्युग्वातभटैर्वृतः ।

परिपीडित एवास्ते यदा जीवो जडीकृतः

॥५०॥

मृदन्तःकीटकणवच्छिलान्तर्गतभेकवत् ।

गर्भस्थापक्वशिशुवत्फलान्तर्गतबीजवत्

॥५१॥

बीजोदरस्थाङ्कुरवद्द्रव्यपिण्डोदराणुवत् ।

अश्रान्तस्तम्बकोशस्थदारुपुत्रकदेहवत्

॥५२॥

सौषिर्यासंभवात्प्राणपवनस्पन्दवर्जितः ।

प्रोन्नमत्पर्शुपूरेण शिलापूरेण तर्जितः

॥५३॥

तदा निविडतेजोन्तरेवानुभवति स्वयम् ।

सुषुप्तं शैलकोशाभमन्धकूपोदरोपमम्

॥५४॥

यदा परिणतं यत्नं पुनः सौषिर्यमागतम् ।

पुनर्वेत्ति तदा जीवः स्वप्नं प्राणावबोधितः

॥५५॥

यदा तस्मिन्प्रदेशेऽन्तर्भागभागान्पतन्ति ते ।

देहे परिणमन्तोऽन्तस्तदेवात्यद्रिवर्षणम्

॥५६॥

बह्वेव वह्निबहुना स्वल्पेनाल्पं प्रपश्यति ।

वातपित्तादियोगेन बहिरन्तश्च संभ्रमम्

॥५७॥

पश्यत्येतद्यथैवान्तरेष जीवो वशीकृतः ।

वातपित्तादिवलितो बहिर्वेत्त्येवमेति वा

॥५८॥

क्षुब्धैरन्तर्बहिश्चैव स्वल्पैः स्वल्पं प्रपश्यति ।

समैः सममिदं दृश्यं वातपित्तकफादिना

॥५९॥

बहिः पश्यत्ययं जीवः कुपितैरेभिरावृतः ।

स्पन्दं भूम्यद्रिनभसां ज्वलनं वानलोच्चयैः

॥६०॥

आकाशगमनं चैव चन्द्रोदयहिमाचलान् ।

गहनं वृक्षशैलानां नभःप्लवनमर्णसाम्

॥६१॥

मज्जनोन्मज्जनं वाब्धौ सुरतं सुरसद्मसु ।

शैलोपवनशुभ्राभ्रपीठविश्रमणोच्चयम्

॥६२॥

बृहत्क्रकचनिष्पेषं नरकानुभवभ्रमम् ।

तालीतमालहिंतालमालावलनमम्बरे

॥६३॥

चक्रवृत्तैश्च पतनं झगित्युत्पतनं दिवि ।

शून्येऽपि जनतावृन्दं स्थलेऽप्यब्धिनिमज्जनम्

॥६४॥

विचित्रं विपरीतं च व्यवहारं महानिशि ।

अह्नीव भास्करालोकं दुर्भेद्यं चाह्नि वा तमः

॥६५॥

साद्रिभूतलमाकाशे कुड्यबन्धे घने स्थलम् ।

कुड्यबन्धांश्च गगने मित्रभावं च विद्विषि

॥६६॥

स्वजने परताबुद्धिं सुजनत्वं च दुर्जने ।

सुसमस्थलतां श्वभ्रे श्वभ्रत्वं सुसमे स्थले

॥६७॥

उद्गीतालापमसृणान्सुधाधौतान्सुचित्रितान् ।

अद्रीञ्छ्वेतमयान्वापि नवनीतमयान्श्च वा

॥६८॥

कदम्बनीपजम्बीरपत्रस्तबकसद्मसु ।

सुखविश्रमणं स्त्रीभिः नाकं पद्मेष्विवालिनः

॥६९॥

अन्तर्निमीलिता ह्येताः पश्यन्त्युन्मीलिता बहिः ।

धातूनामिति वैषम्याद्भ्रान्तिमिन्द्रियवृत्तयः

॥७०॥

एवंविधान्यनेकानि पश्यन्त्यनुभवन्ति च ।

बहिरेव यथा स्वप्ने वस्तुन्यसमधातवः

॥७१॥

बहिश्चान्तश्च दृश्यन्ते विपरीतान्यनेकशः ।

कार्याण्यतिकरालानि जीवैरसमधातुभिः

॥७२॥

समेषु धातुष्वेषोऽन्तर्जीवोऽनुभवति स्वयम् ।

तेजोन्तर्गत एवेमां व्यवहारस्थितिं समाम्

॥७३॥

यथास्थितां पुरग्रामपत्तनारण्यसंततिम् ।

सौम्यवारितरुच्छायादेशाध्वगगमागमम्

॥७४॥

सुखातपमयेन्द्वर्कताराहोरात्रमण्डितम् ।

एवमेतदसद्भूतं सद्भूतमिव भासते

॥७५॥

दृश्योपलम्भं चित्तत्त्वे स्पन्दनं पवने यथा ।

असदेव सदाभासमभिन्नं भिन्नवत्स्थितम्

॥७६॥

शान्तादुदेति सकलं जगदम्बरात्म

शान्तं न किंचन न नाम सदित्युदेति ।

तद्व्योमनीदृशमनन्तचितेः शरीरे

भामात्रमाततमनन्तवपुर्विभाति

॥७७॥

इ० वा० महारामा० वा० दे० मो० नि० उ० अ० वि० श० जाग्रत्स्वप्नसुषुप्तिवर्णनं नाम पञ्चचत्वारिंशदधिकशततमः सर्गः

॥१४५॥