मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ७१

3
योगवासिष्ठम् · उपशमप्रकरणम् · 71

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

यावत्तुर्यपरामर्शस्तावत्केवलतापदम् ।

जीवन्मुक्तस्य विषयो वचसां च रघूद्वह

॥१॥

अत ऊर्ध्वमदेहानां मुक्तानां वचसा तथा ।

विषयो न महाबाहो पुरुषाणामिवाम्बरम्

॥२॥

सा हि विश्रान्तिपदवी दूरेभ्योऽपि दवीयसी ।

गम्या विदेहमुक्तानां खलेखेव नभस्वताम्

॥३॥

सुषुप्तावस्थया कंचित्कालं भुक्त्वा जगत्स्थितिम् ।

तुर्यतामेति तदनु परमानन्दघूर्णितः

॥४॥

तुर्यातीतदशां तज्ज्ञा यथा यान्त्यात्मकोविदाः ।

तथाधिगच्छ निर्द्वन्द्वं पदं रघुकुलोद्वह

॥५॥

सुषुप्तावस्थया राम भव संव्यवहारवान् ।

चित्रेन्दोरिव ते न स्तः क्षयोद्वेगावरिन्दम

॥६॥

शरीरसंनिवेशस्य क्षये स्थैर्ये च संविदः ।

मा गृहाण भ्रमो ह्येष शरीरमिति जृम्भते

॥७॥

देहनाशेन कोऽर्थस्ते कोऽर्थस्ते देहसंस्थया ।

भव त्वं प्रकृतारम्भस्तिष्ठत्वेष यथास्थितम्

॥८॥

ज्ञातवानसि तत्सत्यं बुद्धवानसि तत्पदम् ।

प्राप्तवानसि रूपं स्वं विशोको भव भूतये

॥९॥

ईप्सितानीप्सितं त्यक्त्वा शीतलालोकशोभया ।

अन्धकारात्तथाम्भोदान्मुक्तं खमिव शोभते

॥१०॥

मनस्तवात्मसंपन्नं नाधः समनुधावति ।

योगमन्त्रतपःसिद्धः पुरुषः खादिवावनिम्

॥११॥

इह शुद्धा चिदेवास्ति पारावारविवर्जिता ।

अयं सोऽहमिदं तन्म इति ते मास्तु विभ्रमः

॥१२॥

आत्मेति व्यवहारार्थमभिधा कल्पिता विभोः ।

नामरूपादिभेदस्तु दूरमस्मादलं गतः

॥१३॥

जलमेव यथाम्भोधिर्न तरङ्गादिकं पृथक् ।

आत्मैवेदं तथा सर्वं न भूतोयादिकं पृथक्

॥१४॥

यथा समस्ताज्जलधौ जलादन्यन्न लभ्यते ।

तथैव जगतः स्फारादात्मनोऽन्यन्न लभ्यते

॥१५॥

अयं सोऽहमिति प्राज्ञ क्व करोषि व्यवस्थितिम् ।

किं तत्त्वं किं च वा ते स्यात्किं तत्त्वं किं च वा न ते

॥१६॥

न द्वित्वमस्ति नो देहाः संबन्धो न च तैः स्थितः ।

संभाव्यते कलङ्को वा भानोरिव तमःपटैः

॥१७॥

द्वित्वमभ्युपगम्यापि कथयामि तवारिहन् ।

देहादिभिः सद्भिरपि न संबन्धो विभोर्भवेत्

॥१८॥

छायातपप्रसरयोः प्रकाशतमसोर्यथा ।

न संभवति संबन्धस्तथा वै देहदेहिनोः

॥१९॥

यथा शीतोष्णयोर्नित्यं परस्परविरुद्धयोः ।

न संभवति संबन्धो राम देहात्मनोस्तथा

॥२०॥

अविनाभाविनोर्यस्तु संबन्धः कथमेतयोः ।

जडचेतनयोर्देहदेहिनोरनुभूयते

॥२१॥

चिन्मात्रस्यात्मनो देहसंबन्ध इति या कथा ।

सैषा दुरवबोधार्था दावाग्नौ जलधिर्यथा

॥२२॥

सत्यावलोकनेनैषा मिथ्यादृष्टिर्विनश्यति ।

अवलोकनया साम्यमातपे जलधिर्यथा

॥२३॥

चिदात्मा निर्मलो नित्यः स्वावभासो निरामयः ।

देहस्त्वनित्यो मलवांस्तेन संबध्यते कथम्

॥२४॥

स्पन्दमायाति वातेन भूतैर्वा पीवरीकृतः ।

देहस्तेन न संबन्धो मनागेव सहात्मना

॥२५॥

सिद्धे द्वित्वेऽपि देहस्य न संबन्धस्य संभवः ।

द्वित्वासिद्धौ तु सुमते कलनैवेदृशी कुतः

॥२५॥

इत्येतदेव तत्सत्त्वे तत्रैवान्तःस्थितिं कुरु ।

न बन्धोऽस्ति न मोक्षोऽस्ति कदाचित्कस्यचित्क्वचित्

सर्वमात्ममयं शान्तमित्येवं प्रत्ययं स्फुटम् ।

सबाह्याभ्यन्तरं राम सर्वत्र दृढतां नय

॥२८॥

सुखी दुःखी विमूढोऽस्मीत्येता दुर्दृष्टयः स्मृताः ।

आसु चेद्वस्तुबुद्धिस्ते तच्चिरं दुःखमिच्छसि

॥२९॥

यः क्रमः शैलतृणयोः कौशेयोपलयोस्तथा ।

साम्यं प्रति स एवोक्तः परमात्मशरीरयोः

॥३०॥

यथा तेजस्तिमिरयोर्न संबन्धो न तुल्यता ।

अत्यन्तभिन्नयो राम तथैवात्मशरीरयोः

॥३१॥

यथा शीतोष्णयोरैक्यं कथास्वपि न दृश्यते ।

जडप्रकाशयोः श्लेषो न तथात्मशरीरयोः

॥३२॥

देहश्चलति वातेन तेनैवायाति गच्छति ।

शब्दं करोति वातेन देहनाडीविलासिना

॥३३॥

शब्दः कचटतप्रायः स्फुरत्यन्तः समीरणैः ।

यथा प्रजायते वंशाद्देहरन्ध्रात्तथैव हि

॥३४॥

कनीनिकापरिस्पन्दश्चक्षुःस्पन्दस्य मारुतात् ।

इन्द्रियस्फुरणात्सैव संवित्केवलमात्मनः

॥३५॥

आकाशोपलकुड्यादौ सर्वत्रात्मदशा स्थिता ।

प्रतिबिम्बमिवादर्शे चित्त एवात्र दृश्यते

॥३६॥

शरीरालयमुत्सृज्य यत्र चित्तविहंगमः ।

स्ववासनावशाद्याति तत्रैवात्मानुभूयते

॥३७॥

यत्र पुष्पं तत्र गन्धसंविदः संस्थिता यथा ।

यत्र चित्तं हि तत्रात्मसंविदः संस्थितास्तथा

॥३८॥

सर्वत्र स्थितमाकाशमादर्शे प्रतिबिम्बति ।

यथा तथात्मा सर्वत्र स्थितश्चेतसि दृश्यते

॥३९॥

अपामवनतं स्थानमास्पदं भूतले यथा ।

अन्तःकरणमेवात्मसंविदामास्पदं तथा

॥४०॥

सत्यासत्यं जगद्रूपमन्तःकरणबिम्बिता ।

आत्मसंवित्तनोतीदमालोकमिव सूर्यभा

॥४१॥

अन्तःकरणमेवातः कारणं भूतसंसृतौ ।

आत्मा सर्वातिगत्वात्तु कारणं सदकारणम्

॥४२॥

अविचारणमज्ञानं मौर्ख्यमाहुर्महाधियः ।

संसारसंसृतौ सारमन्तःकरणकारणम्

॥४३॥

असम्यक्प्रेक्षणान्मोहाच्चेतःसत्तां गृहीतवत् ।

संमोहबीजकणिकां तमोऽर्कादिव दृश्यते

॥४४॥

यथा भूतात्मतत्त्वैकपरिज्ञानेन राघव ।

असत्तामेत्यलं चेतो दीपेनेव तमः क्षणात्

॥४५॥

संसारकारणमितः स्वयं चेतो विचारयेत् ।

जीवोऽन्तःकरणं चित्तं मनश्चेत्यादिनामकम्

॥४६॥

श्रीराम उवाच ।

एताः संज्ञाः प्रभो ब्रह्मंश्चेतसो रूढिमागताः ।

कथमित्येव कथय मयि मानद सिद्धये

॥४७॥

श्रीवसिष्ठ उवाच ।

सर्वे भावा इमे नित्यमात्मतत्वैकरूपिणः ।

चित्तात्तरङ्गकगणा जलैककलिता यथा

॥४८॥

आत्मा स्पन्दैकरूपात्मा स्थितस्तेषु क्वचित्क्वचित् ।

तरङ्गेषु विलोलेषु पयोधेः सलिलं यथा

॥४९॥

क्वचिदस्पन्दरूपात्मा स्थितस्तेषु महेश्वरः ।

तरङ्गत्वमयातेषु जलभावो जलेष्विव

॥५०॥

तत्रोपलादयो भावा अलोलाः स्वात्मनि स्थिताः ।

सुराफेनवदुत्स्पन्दा लोलास्तु पुरुषादयः

॥५१॥

तत्र तेषु शरीरेषु सर्वशक्तिस्तदात्मनः ।

कलिताऽज्ञानकलना तेनाज्ञानमसौ स्थितः

॥५२॥

तदज्ञानमनन्तात्मभूषितं जीव उच्यते। ।

स संसारे महामोहमायापञ्जरकुञ्जरः

॥५३॥

जीवनाज्जीव इत्युक्तोऽहंभावः स्यात्त्वहंतया ।

बुद्धिर्निश्चायकत्वेन संकल्पकलनान्मनः

॥५४॥

प्रकृतिः प्रकृतित्वेन देहो दिग्धतया स्थितः ।

जडः प्रकृतिभावेन चेतनः स्वात्मसत्तया

॥५५॥

जडाजडदृशोर्मध्यं यत्तत्त्वं पारमात्मिकम् ।

तदेतदेव नानात्वं नानासंज्ञाभिराततम्

॥५६॥

एवं स्वरूपं जीवस्य बृहदारण्यकादिषु ।

बहुधा बहुषु प्रोक्तं वेदान्तेषु किलानघ

॥५७॥

अज्ञैस्त्वेतासु संज्ञासु कुविकल्पकुतार्किकैः ।

मोहाय केवलं मूढैर्व्यर्थमास्थाः प्रकल्पिताः

॥५८॥

एवमेष महाबाहो जीवः संसारकारणम् ।

मूकेनातिवराकेण देहकेनेह किं कृतम्

॥५९॥

आधाराधेययोरेकनाशे नान्यस्य नष्टता ।

यथा तथा शरीरादिनाशे नात्मनि नष्टता

॥६०॥

एकपर्णरसे क्षीणे रसो नैति यथा क्षयम् ।

याति पर्णरसश्चार्करश्मिजालान्तरे यथा

॥६१॥

शरीरसंक्षये देही न क्षयं याति कस्यचित् ।

निर्वासनश्चेत्तद्व्योम्नि तिष्ठत्यात्मपदे तथा

॥६२॥

देहनाशे विनष्टोऽस्मीत्येवं यस्याऽमतेर्भ्रमः ।

मातुः स्तनतटात्तस्य मन्ये वेताल उत्थितः

॥६३॥

यस्य ह्यात्यन्तिको नाशः स्यादसावुदितः स्मृतः ।

चित्तनाशो हि नाशः स्यात्स मोक्ष इति कथ्यते

॥६४॥

मृतो नष्ट इति प्रोक्तो मन्ये तच्च मृषा ह्यसत् ।

स देशकालान्तरितो भूत्वा भूत्वानुभूयते

॥६५॥

इहोह्यन्ते जनैरेवं तरङ्गान्तस्तृणैरिव ।

मरणव्यपदेशासु देशकालतिरोहितैः

॥६६॥

वासनावस्थितो जीवो यात्युत्सृज्य शरीरकम् ।

कपिर्वनतरुं त्यक्त्वा तर्वन्तरमिवास्थितः

॥६७॥

पुनस्तदपि संत्यज्य गच्छत्यन्यदपि क्षणात् ।

अन्यस्मिन्वितते देशे कालेऽन्यस्मिंश्च राघव

॥६८॥

इतश्चेतश्च नीयन्ते जीवा वासनया स्वया ।

चिरं तदपिजीविन्या धूर्त्या धात्र्यैव बालकाः

॥६९॥

वासनारज्जुवलिता जीर्णाः पर्वतकुक्षिषु ।

जरयन्त्यतिदुःखेन जीवितं जीवजीविकाः

॥७०॥

जरठजरदुपोढदुःखभाराः

परिणतिजर्जरजीविताश्च सत्यः ।

हृदयजनितवासनानुवृत्त्या

नरकभरे जनताश्चिरं पतन्ति

॥७१॥

श्रीवाल्मीकिरुवाच ।

इत्युक्तवत्यथ मुनौ दिवसो जगाम

सायंतनाय विधयेऽस्तमिनो जगाम ।

स्नातुं सभा कृतनमस्करणा जगाम

श्यामाक्षये रविकरैश्च सहाजगाम

॥७२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे संसारोपदेशो नामैकसप्ततितमः सर्गः ।। ७१ ।।