मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ९९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 99

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच।

सन्ति दुःखक्षयेऽस्माकं शास्त्रसत्सङ्गयुक्तयः ।

मन्त्रौषधितपोदानतीर्थपुण्याश्रमाश्रयाः

॥१॥

कृमिकीटपतङ्गाद्यास्तिर्यक्स्थावरजातयः ।

कथं स्थिताः किमारम्भास्तेषां दुःखक्षयः कथम्

॥२॥

श्रीवसिष्ठ उवाच ।

सर्वाण्येवेह भूतानि स्थावराणि चराणि च ।

आत्मोचितायां सत्तायां विश्रान्तानि स्थितान्यलम्

॥३॥

भूतानामणुमात्राणामप्यस्माकमिवैषणाः ।

किंत्वल्पास्था वयं विघ्नास्तेषां त्वचलसंनिभाः

॥४॥

यथा विराट् प्रयतते बालखिल्यास्तथैव खे ।

बालमुष्ट्यल्पकायेऽपि पश्याहंकृतिजृम्भितम्

॥५॥

जायन्ते च म्रियन्ते च निराधारेऽम्बरे खगाः ।

शून्यैकविषयास्तेषां स्वास्थ्यं न भवति क्षणम्

॥६॥

पिपीलिकायाश्चेष्टाभिर्ग्रासावासात्मबन्धुभिः ।

अस्मद्दिवसकल्पोऽपि न पर्याप्तः क्षणो यथा

॥७॥

त्रसरेणुप्रमाणात्मा कृम्यणुस्तिमिनामकः ।

गमने व्यग्रता तस्य गरुडस्येव लक्ष्यते

॥८॥

अयं सोहमिदं तन्म इत्याकल्पितकल्पनम् ।

जगद्यथा नृणां स्फारं तथैवोच्चैर्गुणैः कृमेः

॥९॥

देशकालक्रियाद्रव्यव्यग्रया जर्जरीकृतम् ।

क्षीयते व्रणकीटानामस्माकमिव जीवितम्

॥१०॥

पादपाः किंचिदुन्निद्रा घननिद्राः खलूपलाः ।

कृमिकीटादयः कार्ये नरवत्स्वप्नबोधिनः

॥११॥

शरीरनाश एवैषां सुखं संप्रति दुःखकृत् ।

अस्माकमिव तेषां तज्जीवितं तु सुखायते

॥१२॥

जनो द्वीपान्तरं यादृग्विक्रीतः परिपश्यति ।

पदार्थजालं पश्यन्ति तादृक्पशुमृगादयः

॥१३॥

अस्माकमिव संसारस्तिरश्चां सुखदुःखदः ।

पदार्थप्रविभागेन केवलं ते विवर्जिताः

॥१४॥

हृदयात्सुखदुःखाभ्यां नासातो रशनागुणैः ।

पशवः परिकृष्यन्ते विक्रीताः पामरा अपि

॥१५॥

सुप्तानां यादृगस्माकं वेदनं स्पष्टसुत्वचाम् ।

वृक्षगुल्माङ्कुरादीनां तादृगुद्दामवेदनम्

॥१६॥

यादृगस्माकमीत्यर्थक्रमसंसारपातिनाम् ।

पदार्थवेदनं तादृक्तिरश्चां भ्रान्तमभ्रमम्

॥१७॥

आह्लादमात्रे सौम्यत्वं सुखतश्चेन्द्रकीटयोः ।

समं विकल्पविन्मुक्तं विकल्पस्त्वनतिक्रमः

॥१८॥

रागद्वेषभयाहारमैथुनोत्थं सुखासुखम् ।

तिरश्चां जन्ममृत्यादिखेदः कश्चिन्न भिद्यते

॥१९॥

ऋते पदार्थभूतार्थभविष्यद्वस्तुबोधतः ।

शेषं बभ्र्वहिगोमायुगजादीनां नृभिः समम्

॥२०॥

निद्रामयानां वृक्षाणां स्वसत्तामचलादयः ।

स्थिता अनुभवन्तोऽन्ये चिदाकाशमखण्डितम्

॥२१॥

आपीननिद्रा वृक्षाद्याः स्वसत्तास्थास्तथाद्रयः ।

जङ्गमानि चिदाकाशं नाम किंचित्कदाचन

॥२२॥

अखण्डचित्ता शैलादिसत्ता निद्रा च भूरुहाम् ।

द्वैतोपलम्भमुक्तत्वात्खमेवैकमतो जगत्

॥२३॥

परिज्ञातं जगद्यावदपरिज्ञानसंयुतम् ।

न त्वं नाहं न चैवास्तिनास्ती न च भविष्यति

॥२४॥

यथास्थितं सदैवेदं मौनमेव शिलाघनम् ।

अनाद्यन्तमविच्छिद्रमनिद्रं च सनिद्रकम्

॥२५॥

पूर्वं सर्गाद्यथैवासीत्तथैवैकं समस्थितम् ।

भविष्यत्यधुनानन्तकालमेवं तथैव च

॥२६॥

नैवात्मता न परता न जगत्ता न शून्यता ।

न मौनता न मौनित्वं किंचिन्नेहोपपद्यते

॥२७॥

त्वं यथास्थितमेवास्व यथास्थितमहं स्थितः ।

सुखासुखे पराकाशे शान्ते नेहास्ति किंचन

॥२८॥

परमाकाशतां मुक्त्वा किं स्वप्ननगरे वद ।

विद्यते किल तच्छान्तं चिद्व्योमाच्छमनामयम्

॥२९॥

अपरिज्ञप्तिरेवैका तत्र संभ्रमकारिणी ।

परिज्ञातमिदं यावद्विद्यते सापि न क्वचित्

॥३०॥

परिज्ञाते जगत्स्वप्ने यावत्सत्यं न किंचन ।

ग्रहस्तदेनं प्रति किं स्नेहो वन्ध्यासुते तु कः

॥३१॥

स्वप्नकाले परिज्ञाते जगत्स्वप्नमणावणौ ।

किमुपादेयता कास्था प्रबोधेऽसौ न किंचन

॥३२॥

यन्न किंचित्प्रबोधोऽस्ति नाप्रबोधोऽस्ति तत्क्वचित् ।

यस्तूपलम्भस्तत्काले पूर्वावस्थैव सा तथा

॥३३॥

विद्यते वर्तमानत्वं भविष्यद्भूतता तथा ।

बोधाबोधश्च नो सत्यं वस्तु शान्तं किलाखिलम्

॥३४॥

यथोर्मिणोर्मौ निहते न काचित्पयसां क्षतिः ।

तथा देहेन निहते देहे नास्ति चितेः क्षतिः

॥३५॥

चितावाकाश एवाहं देह इत्युपजायते ।

संविदेव ततो देहे नष्टे किं नाम नश्यति

॥३६॥

प्रबुद्धस्यैव चिद्व्योम्नः स्वप्नो जगदिति स्थितम् ।

पृथ्व्यादिरहितं यस्मात्तस्मात्स्वप्नात्मकं जगत्

॥३७॥

सर्गादौ पूर्वचित्स्वप्नाज्जाता पृथ्व्यादिवस्तुधीः ।

स्वप्नार्थे सत्यताभ्रान्तिः कल्पनामात्ररूपिणी

॥३८॥

पूर्वात्पूर्वतरस्यास्य स्वप्नस्यावयवस्थितौ ।

सत्येवासत्यरूपायां पृथ्व्यादिकलना कृता

॥३९॥

सा च भ्रान्तिस्तथा रूढा यथासत्यैव सत्यताम् ।

परमामागता तत्तु सत्यमत्यन्तनिर्मलम्

॥४०॥

वस्तुतस्तु यथाभूतं चिद्बब्रह्मैवाततं स्थितम् ।

न च तत्संस्थितं किंचित्स्मर्ताऽस्मर्ता किमात्मकः

॥४१॥

एवं मात्रापरिज्ञानमेवात्र प्रतिबोधकम् ।

अत्रैव तु परिज्ञानं कवाटप्रविघाटनम्

॥४२॥

पारिशेष्यान्न पृथ्व्यादि किंचित्संभवति क्वचित् ।

यो द्रष्टा यच्च वा दृश्यं विमलं शिवमेव तत्

॥४३॥

मुकुरेऽन्तर्यथा बिम्बाद्विम्बं भाति जगत्तथा ।

चिद्व्योमनि स्वतो भातमबिम्बादेव बिम्बितम्

॥४४॥

मुकुरेऽन्तर्यथा बिम्बं न दृष्टमपि किंचन ।

तथा चिद्व्योमगं विश्वं न दृष्टमपि किंचन

॥४५॥

लभ्यते यद्विचारेण यत्सकारणकं स्थितम् ।

तत्सच्छेषं तु भामात्रमभूतं सत्कथं भवेत्

॥४६॥

भवेद्भ्रमात्मकमपि किंचिदर्थक्रियाकरम् ।

स्वप्नाङ्गनापि कुरुते सत्यामर्थक्रियां नृणाम्

॥४७॥

यत्तद्भानं तु सा चिद्भा परमं तच्चिदम्बरम् ।

इति क्वाहं क्व विश्वश्रीः क्व त्वं दृश्यदृशश्च काः

॥४८॥

मृत्वा पुनर्भवनमस्ति किमङ्ग नष्टं

मृत्वा न चेद्भवनमस्ति तथापि शान्तिः ।

विज्ञानदृष्टिवशतोऽस्त्यथ चेद्विमोक्ष-

स्तन्नेह किंचिदपि दुःखमुदारबुद्धेः

॥४९॥

मूर्खस्य यादृशमिदं तु तदज्ञ एव

जानात्यसौ न हि वयं किल तत्र तज्ज्ञाः ।

मत्स्यो हि यो मृगनदीसलिले स एव

जानाति तच्चपलवीचिविवर्तनानि

॥५०॥

अन्तर्बहिस्त्वमहमित्यपि चैवमादि

सर्वात्मकं तपति चिन्नभ एकमेव ।

शाखाशिखाविटपपत्रफलैकदेहः

संकल्पवृक्ष इव बोधखमात्रसारः

॥५१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्रकरणे उ० परमार्थनिरूपणं नाम नवनवतितमः सर्गः ।। ९९ ।।