मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः २५

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 25

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अस्मिन्विहरतो लोके लोकारामस्य धीमतः ।

श्रेयसे तिष्ठतो यत्नमुत्तमार्थाभिधायिनः

॥१॥

दामव्यालकटन्यायो मा ते भवतु राघव ।

भीमभासदृढस्थित्या त्वं विशोको भवेति च

॥२॥

श्रीराम उवाच ।

दामव्यालकटन्यायो मा ते भूदित्युदाहृतम् ।

ब्रह्मन् किमेतद्भवता भवतापापहारिणा

॥३॥

भीमभासदृढस्थित्या त्वं विशोको भवेति च ।

प्रभो किमुक्तं भवता भवतापापहारिणा

॥४॥

उदारयैतया शुद्धं संप्रबोधय मां गिरा ।

घनस्तापापहारिण्या प्रावृषीव कलापिनम्

॥५॥

श्रीवसिष्ठ उवाच ।

दामव्यालकटन्यायं भीमभासदृढस्थितिम् ।

श्रृणु राघव तच्छ्रुत्वा यदिष्टं तत्समाचर

॥६॥

आसीत्पातालकुहरे सर्वाश्चर्यमनोरमे ।

शम्बरो नाम दैत्येन्द्रो मायामणिमहार्णवः

॥७॥

आकाशनगरोद्यानरचितासुरमन्दिरः ।

कुत्रिमोत्तमचन्द्रार्कभूषितात्मीयमण्डलः

॥८॥

शिलाशकलसंभूतपद्माद्यैरमराचलः ।

अनन्तविभवारम्भपरिपूरितदानवः

॥९॥

गृहरत्नाङ्गनागेयजितामरवधूध्वनिः ।

चन्द्रबिम्बकलापूर्णक्रीडोपवनपादपः

॥१०॥

फुल्लनीलोत्पलव्यूहकरालरमणालयः ।

रत्नहंसध्वनाहूतहेमाम्बुरुहसारसः

॥११॥

हेमपादपशाखाग्रकृताम्भोरुहकुड्मलः ।

करञ्जजालप्रपतन्मन्दारकुसुमाकरः

॥१२॥

तर्कुयन्त्रमयानन्तदैत्यनिर्जितवासवः ।

हिमशीतानलज्वालानिर्मितोद्यानमण्डपः

॥१३॥

सर्वत्र कुसुमोद्यानजितानन्दननन्दनः ।

मायासर्वहृतव्यालमलयाचलचन्दनः

॥१४॥

हेमश्रीलोकलावण्यनिर्जितान्तःपुराङ्गनः ।

नानाकुसुमसंभारजानुदघ्नगृहाङ्गणः

॥१५॥

क्रीडार्थमृन्मयेशानजितचक्रगदाधरः ।

अजस्रोड्डीनरत्नौघताराढ्यखपुरान्तरः

॥१६॥

निशीथाखिलपातालशतचन्द्रनभस्तलः ।

स्वशालभञ्जिकालोकगीतगीतिरणोत्कटः

॥१७॥

मायैरावणनागेन्द्रविद्रुतामरवारणः ।

त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः

॥१८॥

सर्वसंपत्तिसुभगः सर्वैश्वर्यनमस्कृतः ।

समस्तदैत्यसामन्तवन्दितोग्रानुशासनः

॥१९॥

महाभुजवनच्छायाविश्रान्तासुरमण्डलः ।

सर्वबुद्धिगणाधाररत्नमण्डलमण्डितः

॥२०॥

तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः ।

बभूव विपुलं सैन्यमासुरं सुरनाशनम्

॥२१॥

तस्मिन्मायाबले सुप्ते देशान्तरगते तथा ।

तत्सैन्यं तरसा जघ्नुश्छिद्रं प्राप्य किलामराः

॥२२॥

अथ शम्बरदैत्येन मुण्डिक्रोधद्रुमादयः ।

रक्षार्थमथ सामन्ताः स्वसेनासु नियोजिताः

॥२३॥

तानप्यन्तरमासाद्य जघ्नुर्देवा भयानकाः ।

व्योमान्तरगताः श्येनाः कलविङ्कानिवाकुलान्

॥२४॥

सेनापतीन्पुनश्चान्यांश्चकारासुरसत्तमः ।

चपलानुद्भटारावांस्तरङ्गानिव सागरः

॥२५॥

देवास्तानपु तस्याशु जघ्नुस्तेन स कोपवान् ।

जगामामरनाशाय परिपूर्णे त्रिविष्टपम्

॥२६॥

तस्मात्तन्माययाभीताः सुरास्तेऽन्तर्धिमाययुः ।

मेरुकाननकुञ्जेषु मृगा गौरीहरेरिव

॥२७॥

क्रन्दत्क्षुद्रामरगणं वाष्पक्लिन्नाप्सरोमुखम् ।

शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम्

॥२८॥

विहरन्कुपितस्तत्र लब्धमाहृत्य सुन्दरम् ।

लोकपालपुरीं दग्ध्वा जगामात्मीयमालयम्

॥२९॥

एवं दृढतरीभूते द्वेषे दानवदेवयोः ।

देवाः स्वर्गं परित्यज्य दिक्षु जग्मुरदर्शनम्

॥३०॥

अथ शम्बरदैत्येन ये ये सेनाधिनायकाः ।

क्रियन्ते यत्नतस्तांस्तु जघ्नुर्यत्नपराः सुराः

॥३१॥

यावदुद्बेगमायातः शम्बरः कोपवान्भृशम् ।

तार्णोऽतिमात्रमनल इव जज्वाल सोच्छ्वसन्

॥३२॥

त्रैलोक्यमपि चान्विष्यन्न देवाँल्लब्धवानथ ।

परेणापि प्रयत्नेन निधानमिव दुष्कृती

॥३३॥

ससर्ज मायया घोरानसुरांस्त्रीन्महाबलान् ।

बलरक्षार्थमुदितान्कालान्मूर्तिमिव स्थितान्

॥३४॥

निर्वृत्ता मायया भीमा बलपादपवाहिनः ।

उदगुस्ते महामायाः पक्षक्षुब्धा इवाद्रयः

॥३५॥

दामो व्यालः कटश्चेति नामभिः परिलाञ्छिताः ।

यथाप्राप्तैककर्तारश्चेतनामात्रधर्मिणः

॥३६॥

अभावात्कर्मणां ते च प्राक्तना नच वासनाः ।

निर्विकल्पकचिन्मात्रपरिस्पन्दैकधर्मकाः

॥३७॥

कर्मजीवकलां तन्वीमसारां च मनोभिदाम् ।

अपुष्टां कृत्रिमामन्तश्चोदयोदयमागताः

॥३८॥

ते ह्यन्धपारम्पर्येण काकतालीयवद्भटाः ।

प्रकृतामनुवर्तन्ते क्रियामुज्झितवासनाः

॥३९॥

अर्धसुप्ता यथा बालाः स्वाङ्गै रिङ्गन्ति केवलम् ।

वासनात्माभिमानाभ्यां हीनास्ते तद्वदेव हि

॥४०॥

नाभिपातं न चापातं न विदुस्ते पलायनम् ।

न जीवितं न मरणं न रणं न जयाजयौ

॥४१॥

केवलं सैनिकानग्रे दृष्टानाहननोद्यतान् ।

अभिजग्मुः परानाजौ प्रहारदलिताद्रयः

॥४२॥

शम्बरश्चिन्तयामास परितुष्टमनाः परम् ।

विजेष्यते हि मे सेना मायासुरसुरक्षिता

॥४३॥

अतिबलासुरदोर्द्रुमपालिता

मम चमूः स्थिरतामलमेष्यति ।

अमरवारणदन्तविघट्टने-

ष्वमरपर्वतहेमशिला यथा

॥४४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दामव्यालकटोत्पत्तिवर्णनं नाम पञ्चविंशः सर्गः ।। २५ ।।