मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १०३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 103

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

भामात्रं भानमात्रं वा शान्तं भासत एव च ।

चिन्मात्रं यदनाद्यन्तं तस्य नाशः कथं कदा

॥१॥

तावन्मात्रं च पुरुषः कदाचित्स न नश्यति ।

यदि नश्यति चिन्मात्रं भूयो जायेत किं कथम्

॥२॥

न चान्यदन्यच्चिन्मात्रं क्वचित्किंचन कस्यचित् ।

सर्वानुभवसादृश्ये कीदृशी नाम सान्यता

॥३॥

सर्वस्यैव हिमं शीतमुष्णोऽग्निर्मधुरं पयः ।

चिन्मात्रस्यावदातस्य कीदृगन्यत्वमत्र तु

॥४॥

शरीरनाशे नाशश्चेच्चिन्मात्रस्य तदुच्यताम् ।

हर्षस्थाने विषादः किं मरणे संसृतिक्षये

॥५॥

न च नाम शरीरस्य नाशे नश्यति चिन्नभः ।

देहे नष्टेऽपि बन्धूनां म्लेच्छैर्दृष्टा पिशाचता

॥६॥

यावच्छरीरसत्ता चेच्चेतनस्य तदुच्यताम् ।

शवः कस्मान्न चलति सत्यखण्डे शरीरके

॥७॥

पिशाचानुभवो जीवधर्मश्चेत्तत्स सर्वदा ।

किं न पश्यति किं बन्धौ मृते पश्यति तत्तथा

॥८॥

जीवधर्मो विशिष्टश्चेत्तादृशस्तं नरः कथम् ।

मिथ्या देशान्तरमृते पिशाचत्वं न पश्यति

॥९॥

तस्मात्सर्वात्मकत्वे तच्चिन्मात्रं न नियन्त्रितम् ।

यद्यद्यत्र यथा वेत्ति तत्तत्तत्रावगच्छति

॥१०॥

अवाधितैवैकघना संविद्भवति यादृशी ।

तादृश्येवानुभूतिर्हि तत्स्वभावोऽत्र कारणम्

॥११॥

अन्यन्न संभवत्यत्र सर्गादावेव कारणम् ।

यन्नाम तदिदानीं स्यात्कथ्यतां कीदृशं कथम्

॥१२॥

सर्गादावेव नोत्पन्ना न चैवाद्यावभासते ।

विकल्पश्रीर्जगद्भासा केवलं भाति चिन्नभः

॥१३॥

आभासमात्रमेवेदं दृश्यमित्यवबुध्यते ।

दृश्यमित्यवबोधेन तदृते स्यात्क्व दृश्यता

॥१४॥

स्वचमत्कारचातुर्यं चारु चिन्नभसा रसात् ।

बोधेन बुध्यते दृश्यमित्यबोधान्न बुध्यते

॥१५॥

बोधोऽबोधश्च तद्रूपमेवमेव निरामयम् ।

भेदोऽत्र वाचि न त्वर्थे तस्मान्नास्त्येव दृश्यता

॥१६॥

या चासीद्दृश्यतैषां तां विद्धि त्वमविचारणाम् ।

सा चेदानीं विचारेण विनष्टातः क्व दृश्यते

॥१७॥

अस्मिन्नेव धियो यत्न आत्मज्ञानविचारणे ।

यत्नेन परमोऽभ्यासः स लोकद्वयसिद्धिदः

॥१८॥

अविद्योपशमस्त्वेष जातोऽपि भवतामिह ।

अभ्यासेन विना साधो न सिद्धिमुपगच्छति

॥१९॥

न्रोद्वेगं संपरित्यज्य गृहीत्वानुदिनं क्षणम् ।

लोकद्वयहितं पथ्यमिदं शास्त्रं विचार्यताम्

॥२०॥

विज्ञातमप्यविज्ञातमात्मज्ञानमिदं भवेत् ।

भवतां भूरिभागानां संभूयाभ्यसनं विना

॥२१॥

योऽयमर्थं प्रार्थयते तदर्थं यतते तथा ।

सोऽवश्यं तमवाप्नोति न चेच्छान्तो निवर्तते

॥२२॥

तस्मादस्मान्निवर्तध्वमसच्छास्त्रविचारणात् ।

शान्तिं प्राप्स्यथ सच्छास्त्राज्जयलक्ष्मीं यथा रणात्

॥२३॥

विवेके चाविवेके च वहत्येषा मनोनदी ।

यत्रैव वाह्यते यत्नात्तत्रैव स्थितिमृच्छति

॥२४॥

अस्माच्छास्त्रादृते श्रेयो न भूतं न भविष्यति ।

ततः परमबोधार्थमिदमेव विचार्यताम्

॥२५॥

स्वयमेव विचार्येदं परो बोधोऽनुभूयते ।

संसाराध्वश्रमहरो न त्वेतद्वरशापवत्

॥२६॥

यन्न पित्रा न वा मात्रा न चापि सुकृतैः कृतम् ।

श्रेयस्तद्वः परिज्ञातमिदमाशु करिष्यति

॥२७॥

भवबन्धमयी साधो विषमेयं विषूचिका ।

आत्मज्ञातादृते दीर्घा न कदाचन शाम्यति

॥२८॥

महामोहमयी माया मिथ्यैवाहमिति स्थिता ।

शास्त्रार्थभावनेनाशु मुच्यतां परशोच्यता

॥२९॥

यात माऽऽपातमधुरं व्योम व्योमैकरूपिणीम् ।

शून्यं वायुं लिहन्तोऽन्तर्लेलिहाना इवाहयः

॥३०॥

यान्ति वो दिवसाः कष्टमविज्ञातगमागमाः ।

व्यवहारे हि तैरेव प्रतिपालयतां मृतिम्

॥३१॥

तावदाश्वासनैषास्ति भवतां भयभागिनाम् ।

दिनानि कतिचिद्यावन्नायाति मरणावधिः

॥३२॥

आगच्छन्त्यां मृतौ कष्टं परितापमवाप्स्यथ ।

तं यत्राङ्गाङ्गविच्छेदः शीतचन्दनलेपनम्

॥३३॥

क्रीणन्ति प्राणपण्येन धनं मानं घनभ्रमाः ।

यथाशास्त्रैः कथं बुद्ध्या न क्रीणन्त्यजरं पदम्

॥३४॥

पदं परमयत्नेन क्रियते यैश्चिदम्बरे ।

कथं तैः सह्यतेऽज्ञानशत्रुपादः स्वमूर्धनि

॥३५॥

निर्मानमोहमापन्ना गतिं गच्छत माधमाम् ।

क्रियते स्वात्मबोधेन मूलकाषो महापदाम्

॥३६॥

प्रलपन्तमहोरात्रं युष्मदर्थेन मामिमम् ।

यं प्रदृश्येदमाकर्ण्य स्वात्मनैवात्मतार्प्यताम्

॥३७॥

अद्यैव न चिकित्सां यः करोति मरणापदः ।

संप्राप्तायां मृतौ मूढः करिष्यति किमातुरः

॥३८॥

अस्माद्ग्रन्थादृते ग्रन्थो नान्यः स्वात्मावबोधने ।

नूनमर्थकरो ग्राह्यस्तिलस्तैलार्थिनामिव

॥३९॥

आत्मज्ञानमिदं शास्त्रं प्रकाशयति दीपवत् ।

पितेव बोधयत्याशु कान्तेव रमयत्यलम्

॥४०॥

विद्यमानमपि ज्ञानं ज्ञातं शास्त्रगणान्न यत् ।

दुर्बोधं मधुरं तत्तु ज्ञास्यन्तीतो न संशयः

॥४१॥

इदमुत्तममाख्यानं मुख्यानां शास्त्रदृष्टिषु ।

सुखेन बोधदं हृद्यमपूर्वं न तु किंचन

॥४२॥

नानाख्यानकथाचित्रं विनोदेन विचारयेत् ।

इदं शास्त्रं परं याति पुमान्नास्त्यत्र संशयः

॥४३॥

यो ह्यद्यापि न संप्राप्तः पण्डितैरविखण्डितैः ।

स इतः प्राप्यते बोधः सुवर्णमिव सैकतात्

॥४४॥

शास्त्रकर्तरि मङ्कतव्यं न कदाचन कुत्रचित् ।

शास्त्रार्थ एव तन्नित्यं युक्तियुक्तानुभूतिदे

॥४५॥

अज्ञानान्मत्सरान्मोहादविचारिभिरेकता ।

अवहेलितशास्त्रार्थैः कर्तव्या नात्महन्तृभिः

॥४६॥

जानाम्येव यथैवेमा यदहं त्वं यथा धियः ।

तथा बोधितकारुण्यात्स्वभावो हि ममेदृशः

॥४७॥

युष्मत्संविल्लवः शुद्ध एवं वक्तुमिह स्थितः ।

अहं नरो न गन्धर्वो नामरो न च राक्षसः

॥४८॥

संविन्मात्रा भवन्तो हि तद्भावोऽस्त्यतिनिर्मलः ।

स्थितोऽस्मीति भवत्पुण्यैर्ननु नास्मि न चापरः

॥४९॥

श्यामायमाना नायान्ति यावन्मरणवासराः ।

सारः संह्रियतां तावद्वैरस्यं वस्तुदृष्टिषु

॥५०॥

इहैव नरकव्याधेश्चिकित्सां न करोति यः ।

गत्वा निरौषधं स्थानं सरुजः किं करिष्यति

॥५१॥

सर्वभावेषु वैरस्यं न यावत्समुपागतम् ।

भावानां भावना तावत्तानवं नोपगच्छति

॥५२॥

आत्मानमलमुद्धर्तुं वासनातानवादृते ।

नास्त्युपायो महाबुद्धे कश्चनापि कदाचन

॥५३॥

भावास्तु यदि विद्यन्ते तद्धिते वस्तुभावना ।

किं त्वेते नैव सन्तीह शशश्रृङ्गादयो यथा

॥५४॥

सर्व एव जगद्भावा अविचारितचारवः ।

अविद्यमानसद्भावा विचाराद्विशरारवः

॥५५॥

प्रामाणिकविचारेषु न विद्यन्ते कृतेषु ये ।

कथं सन्ति जगद्भावास्ते के सन्ति सदैव वा

॥५६॥

सर्व एव जगद्भावाः कारणाभावतो भृशम् ।

सर्गादावेव नोत्पन्ना यच्चेदं भाति तत्परम्

॥५७॥

पदे सर्वेन्द्रियातीते मनःषष्ठेन्द्रियात्मनाम् ।

भावानां कारणं नास्ति मनःषष्ठेन्द्रियात्मकम्

॥५८॥

भावानां विविधाख्यानामनाख्यं कारणं कुतः ।

कुतो वस्तुन्यवस्तुत्वं व्योमन्यव्योमता कुतः

॥५९॥

साकारस्य हि साकारं वटधानादिवद्भवेत् ।

बीजं तद्वस्तु साकारं जायतेऽन्यत्कुतोऽन्यथा

॥६०॥

न किंचिदपि यत्रास्ति बीजमाकृतिमन्मनाक् ।

तत आकृतिमद्विश्वं भवतीति विडम्बनम्

॥६१॥

कार्यकारणभावादि तस्मिन्नहि परे पदे ।

वाचालत्वेन यन्नाम कल्प्यते मौर्ख्यमेव तत्

॥६२॥

सहकारिनिमित्तानामभावे हि न कारणात् ।

कार्यं भवेदन्यदेति बालैरप्यनुभूयते

॥६३॥

तन्मात्रवेदनं भूयः पृथ्व्यादीनां च कारणम् ।

किमस्ति कथ्यतां छाया कथमास्ते वदातपे

॥६४॥

परमाणुसमूहा ये जगदित्यप्यवास्तवम् ।

शशश्रृङ्गं धनुःप्रख्यमज्ञानादभिधीयते

॥६५॥

परमाणुसमूहश्चेत्संभूय कुरुते जगत् ।

यदृच्छयैव तमसि शीर्यते च यदृच्छया

॥६६॥

तदङ्गमिङ्गते नित्यं देशे देशे गृहे गृहे ।

अपूर्वात्म रजः श्रृङ्गं खातं वा स्याद्दिने दिने

॥६७॥

न च तद्दृश्यते किंचित्कस्य तत्कर्म तादृशम् ।

भवेद्व्यर्थमभव्यस्य जडास्तु परमाणवः

॥६८॥

नाबुद्धिपूर्वं तत्कर्म संभवत्यङ्ग कस्यचित् ।

बुद्धिपूर्वं तु यद्व्यर्थं कुर्यादुन्मत्तको हि कः

॥६९॥

जडस्य बुद्धिपूर्वेहा मरुतो नास्ति तां विना ।

न संभवत्यणुचयो नान्यत्कर्तोपपद्यते

॥७०॥

वयमात्मान एवेमे खात्मानः खात्मका जनाः ।

तथा स्थिता यथा स्वप्ने भवतां स्वप्नमानवाः

॥७१॥

तस्मान्न जायते किंचिद्विश्वं नापि च विद्यते ।

इत्थं चिन्नभ एवाच्छं प्रकचत्यात्मनात्मनि

॥७२॥

विश्वाकाशं चिदाकाशे विष्वग्विश्रान्तिमागतम् ।

स्पन्दो द्रवत्वं शून्यत्वमनिलेऽम्भसि खे यथा

॥७३॥

देशाद्देशान्तरप्राप्तौ निमेषेणातिदूरतः ।

संविदो यद्वपुर्मध्ये चिद्व्योम्नो विद्धि तद्वपुः

॥७४॥

स स्वभावो हि सर्वेषामर्थानां ते च तन्मयाः ।

तादृशास्तन्नभोरूपास्तेन विश्वमतो नभः

॥७५॥

स्वभावस्य परा वृत्तिर्मनागेवाशु तस्य सा ।

स्वभावादविभिन्नैव सेदं जगदिति स्थिता

॥७६॥

जगच्चिन्नभसोस्तस्मान्न कदाचन भिन्नता ।

एकमेव द्वयो रूपं पवनस्पन्दयोरिव

॥७७॥

देशाद्देशान्तरप्राप्तौ विदो मध्ये हि यद्वपुः ।

शान्ताशेषविशेषात्म तन्मुख्यं नेतरद्विदुः

॥७८॥

स स्वभावोऽङ्ग भूतानां तत्र तिष्ठन्ति पण्डिताः ।

तस्मान्न विचलन्त्येते नित्यध्यानाद्धरादयः

॥७९॥

आभासाकाशमेवेदं भामात्रमवभासनम् ।

विश्वमाकाररहितं स्वभावं विदुरव्ययम्

॥८०॥

न जायते न म्रियते न भूत्वा भावि कुत्रचित् ।

अनन्यदेव चिद्व्योम्नः शून्यत्वमिव खाज्जगत्

॥८१॥

न विश्वमस्ति नैवासीन्न च नाम भविष्यति ।

इदमाभासते शान्तं चिद्व्योम परमात्मनि

॥८२॥

चिन्मात्रमेव कचति स्वप्ने पुरतया यथा ।

तथैव जाग्रदाख्येऽस्मिन्स स्वप्ने कचति स्वयम्

॥८३॥

सर्गादावेव भावानामसत्तेत्यस्ति देहकः ।

कुतस्तस्माच्छरीरत्वं स्वप्न एव नभश्चितेः

॥८४॥

स्वयंभ्वाख्यं शरीरं स्वं पूर्वः स्वप्नो महाचितेः ।

इत उत्थानास्तदनु स्वप्नात्स्वप्नान्तरं वयम्

॥८५॥

गण्डस्योपरि जातानां स्फोटानामत एव नः ।

परमेण प्रयत्नेन न मनो नाम यास्यति

॥८६॥

ब्रह्मैवासत्यपुरुषः सत्यवच्चानुभूयते ।

स्थितं ततःप्रभृत्येव न त्वलीकमिदं ततम्

॥८७॥

आब्रह्मस्तम्बपर्यन्तमलीकं जायते जगत् ।

यथा स्वप्ने तथालीकमेवमाशु विनश्यति

॥८८॥

चिद्व्योमैवैत्य विश्वत्वं यथा स्वप्ने विनश्यति ।

अनुदित्वैव विश्वत्वं जाग्रदाख्ये तथैव च

॥८९॥

अनुभूतमलीकं चाप्यलीकं सत्यवत्स्थितम् ।

संविदेव यथा स्वप्ने नगरादितयोदिता

॥९०॥

साकारेव निराकारा स्थिता तद्वज्जगत्तया ।

संविदाकाशमाकाशादणु मेरोरणुर्यथा

॥९१॥

किल यत्तस्य नाम स्यादाकाशादणुता कुतः ।

कारणाभावतोऽन्यस्य नाकार उपपद्यते

॥९२॥

सर्गादावेव योऽजातो जातोऽयं जगतः कुतः ।

यदेव वेदनाकाशे पुरं स्वप्ने तदेव नः

॥९३॥

भेदः स्वप्नाद्रिचिद्व्योम्नोर्न शून्याम्बरयोरिव ।

यदेव चिन्नभो नाभ तदेव स्वप्नपत्तनम्

॥९४॥

यदेव स्पन्दनं नाम स एव पवनो यथा ।

स्पन्दास्पन्दैकरूपात्मा वायुर्व्योमोपमो यथा

॥९५॥

तस्माच्चिन्नभ एवेदं जगदाकृति लक्ष्यते ।

सर्वं शून्यं निरालम्बं भासनं चिद्विवस्वतः

॥९६॥

शान्तमेवेदमखिलं निरस्तास्तमयोदयम् ।

सकृद्विभातममलं दृषन्मौनमनामयम्

॥९७॥

तस्माद्वद कथं भावाः कुतो भावाः क्व भावधीः ।

क्व द्वैतं क्वैकता क्वाहं क्व भावाः क्व च भावनाः

॥९८॥

नित्योदितो व्यवहरन्नपि निर्विकारो

द्वित्वैक्यमुक्तमतिरुत्तमशीतलोऽन्तः ।

निर्वाण आस्व विगतामयशुद्धबोध-

बोधैकतामुपगतोऽङ्ग न सन्ति भावाः

॥९९॥

इत्यार्षे श्रीवा० वाल्मी० दे० मो० निर्वा० उ० सकलभावाभावोपदेशेन परमार्थैकताप्रतिपादनं नाम त्र्यधिकशततमः सर्गः ।। १०३ ।।