मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ३५

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 35

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

जयन्ति ते महाशूराः साधवो यैर्विनिर्जितम् ।

अविद्यामेदुरोल्लासैः स्वमनो विषयोन्मुखम्

॥१॥

संसारस्यास्य दुःखस्य सर्वोपद्रवदायिनः ।

उपाय एक एवास्ति मनसः स्वस्य निग्रहः

॥२॥

श्रूयतां ज्ञानसर्वस्वं श्रुत्वा चैवावधार्यताम् ।

भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते

॥३॥

किमन्यैः शास्त्रसंदर्भैः क्रियतामिदमेव तु ।

यद्यत्स्वाद्विह तत्सर्वं दृश्यतां विषवह्निवत्

॥४॥

विषमा विषयाभोगाः प्रविचार्य पुनःपुनः ।

उपरिष्टात्परित्यज्य सेव्यमानाः सुखावहाः

॥५॥

दोषान्प्रसवति स्फारान्वासनावलिता मतिः ।

कीर्णकण्टकबीजा भूः कण्टकप्रसरं यथा

॥६॥

अलग्नवासनाजाला मतिः प्रसरवर्जिता ।

अदृष्टरागद्वेषा या शममेति शनैः परम्

॥७॥

शुभाशुभानसद्ग्लानीन्प्रसूते सुगुणान्सदा ।

फलदानङ्कुरान्काले श्रेष्ठबीजवतीव भूः

॥८॥

शुभभावानुसंधानातप्रसन्ने मनसि स्थिते ।

शनैः शनैः प्रशान्ते च मिथ्याज्ञानघनाम्बुदे

॥९॥

वृद्धिं याते च सौजन्ये यक्षे शुक्ल इवोडुपे ।

विवेके प्रसृते पुण्ये नभसीवार्कतेजसि

॥१०॥

धृतावन्तर्विवृद्धायां मुक्तायामिव कीचके ।

स्थितावन्तः कृतार्थायां मधाविव निशाकरे

॥११॥

फलिते शीतलच्छाये सत्सङ्गसफलद्रुमे ।

स्रवत्यानन्दसुरस समाधिसरलद्रुमे

॥१२॥

मनो भवति निर्द्वन्द्वं निष्कामं निरुपद्रवम् ।

प्रशान्तचापलानर्थशोकमोहभयामयम्

॥१३॥

क्षीणशास्त्रार्थसंदेहं विगताशेषकौतुकम् ।

निरस्तकल्पनाजालं मोहमुक्तमलेपकम्

॥१४॥

निरीहं निरुपाक्रोशं निरपेक्षं निराधिकम् ।

संशान्तशोकनीहारमसक्तं ग्रन्थिवर्जितम्

॥१५॥

संदेहोग्रसुतं साग्रं सतृष्णादारपञ्जरम् ।

नाशयित्वा स्वमात्मानं साधयत्यर्थमैश्वरम्

॥१६॥

आत्मपीवरताहेतून्विकल्पांश्चायमुज्झति ।

संस्मृत्य प्रभुतामेषु जहाति तृणवत्तनुम्

॥१७॥

मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ।

ज्ञमनो नाशमभ्येति मनोऽज्ञस्य विवर्धते

॥१८॥

मनोमात्रं जगच्चक्रं मनः पर्वतमण्डलम् ।

मनो व्योम मनो देवो मनो मित्रं मनो रिपुः

॥१९॥

विकल्पकलुषा या स्याच्चित्तत्त्वस्यात्मविस्मृतिः ।

मन इत्युच्यते सेयं वासना भवभागिनी

॥२०॥

चेत्यानुपातकलितचिन्मात्रे तिष्ठताभिधम् ।

मनाग्विवकल्पकलुषं चित्तत्त्वं जीव उच्यते

॥२१॥

चेत्यप्रपतितं रूढसंज्ञमज्ञत्वमागतम् ।

तदेवाधिकनिःसारं कल्प्यतेऽन्तर्मनस्तया

॥२२॥

नात्मा संसारिपुरुषो न शरीरं न शोणितम् ।

जडं सर्वं शरीरादि देही स्ववदलेपकः

॥२३॥

शरीरे कणशः कृत्ते नास्त्यन्यद्रुधिरादिकात् ।

निर्भिन्ने कदलीस्तम्भे नास्त्यन्यत्पल्लवादृते

॥२४॥

मनो जीवो नरं विद्धि तदेवाकारमागतम् ।

आत्मनात्मानमादत्ते स्वविकल्पात्मकल्पितम्

॥२५॥

स्वविकल्पान्नरस्तत्र प्रसार्य रचयत्यलम् ।

जालमात्मनिबन्धाय कोशकारकृमिर्यथा

॥२६॥

इमं देहभ्रमं त्यक्त्वा देशकालान्तरे पुनः ।

शरीरत्वमथादत्ते पल्लवत्वमिवाङ्कुरः

॥२७॥

यादृग्वासनमेतत्स्यात्तमनस्तादृक्प्रजायते ।

जातं स्वपिति यच्चित्तं तत्स्वप्ने निशि तिष्ठति

॥२८॥

अम्लं मधुरसासिक्तं मधुरं मधुरञ्जितम् ।

बीजं प्रतिविषाकल्कसिक्तं च कटु जायते

॥२९॥

शुभवासनया चेतो महत्या जायते महत् ।

भवतीन्द्रमनोराज्य इन्द्रता स्वप्नभाङ्गरः

॥३०॥

क्षुद्रवासनया चेतःक्षुद्रतामपि पेलवाम् ।

पिशाचविभ्रमात्स्वप्ने पिशाचान्निशि पश्यति

॥३१॥

सरसि स्फारनैर्मल्ये कालुष्यं याति न स्थितिम् ।

तथैव स्फारकालुष्ये प्रसादो याति न स्थितिम्

॥३२॥

मनसि स्फारकालुष्ये तद्रूपं जायते फलम् ।

तथैव स्फारनैर्मल्ये तद्रूपं जायते फलम्

॥३३॥

त्यजत्युदारां न गतिं क्षीणोऽप्यनिशमुत्तमः ।

उद्योगवानविरतं पूरणाशामिवोडुपः

॥३४॥

नेह बन्धो न मोक्षोऽस्ति नाबन्धोऽस्ति न बन्धता।

मिथ्योत्थितैव मायेयमिन्द्रजाललता यथा

॥३५॥

गन्धर्वनगराकारा मृगतृष्णा इवोत्थिता ।

द्विचन्द्रविभ्रमाभासा द्वैतैकत्वविवर्जिता

॥३६॥

सर्वैव ब्रह्मसत्तेयमित्येषा परमार्थता ।

परिस्फुरति निःसारः संसारोऽयमसन्मयः

॥३७॥

नानन्तोऽहं वराकोऽहमिति दुर्निश्चयोदितः ।

अनन्तोऽस्मीश्वरोऽस्मीति निश्चयेन विलीयते

॥३८॥

सर्वगे स्वात्मनि स्वच्छे एषोऽहमिति भावना ।

एतत्तद्बन्धनं लोके स्वविकल्पोपकल्पितम्

॥३९॥

बन्धमोक्षदशाहीना द्वित्वैकत्वविवर्जिता ।

सर्वैव ब्रह्मसत्तेयमित्येषा परमार्थता

॥४०॥

नैर्मल्यप्राप्तमरणमसक्तं सर्वदृष्टिषु ।

अमनस्त्वमिहापन्नं ब्रह्म पश्यति नान्यथा

॥४१॥

मनो निर्मलतां यातं शुभसंतानवारिभिः ।

ब्राह्मीं दृष्टिमुपादत्ते रागं शुक्लपटो यथा

॥४२॥

सर्वमेव ममात्मेति सर्वभावनयानघ ।

हेयादेयबले क्षीणे बन्धमोक्षो विमुच्यताम्

॥४३॥

शुद्धस्य मनसः कायशास्त्रवैराग्यबुद्धिभिः ।

अभिजातोपलस्येव जगत्तस्येति विद्युतिः

॥४४॥

पदार्थेनैकतामेत्य मनसो नैकतानता ।

असत्यज्ञानदृष्टिं तां विद्धि क्षणविनाशिनीम्

॥४५॥

सबाह्याभ्यन्तरं त्यक्त्वा सर्वां दृश्यदृशं यदा ।

मनस्तिष्ठति तल्लीनं संप्राप्तं तत्पदं तदा

॥४६॥

दृश्यदृष्टिः स्फुटा येयं सा ह्यवश्यमसन्मयी ।

तन्मयत्वं च मनसः स्वरूपं विद्धि नेतरत्

॥४७॥

आद्यन्तयोर्विनाशित्वान्मध्येऽपि तदसन्मयम् ।

अज्ञातमनसस्तेन दुःखिता हस्तसंस्थिता

॥४८॥

आत्मैवेदं जगदिति विना भावेन दुःखदा ।

दृश्यश्रीरन्यथा त्वेषा भोगमोक्षप्रदायिनी

॥४९॥

जलमन्यत्तरङ्गोऽन्य इति नानातयाऽज्ञता ।

जलमेव तरङ्गोऽयमित्येकत्वात्किल ज्ञता

॥५०॥

दुःखमायात्यसदिति हेयोपादेयरूपि यत् ।

तदभावेन तु ज्ञानादानन्त्यमवशिष्यते

॥५१॥

संकल्पकल्पितत्वाच्च मनोरूपमसन्मयम् ।

असन्मयविनाशे तु कः शोको वद राघव

॥५२॥

अवत्सलो यथा बन्धुररागद्वेषया धिया ।

दृश्यते पश्य तद्वत्त्वं तत्त्वं पञ्जरमात्मनः

॥५३॥

अवत्सलाद्यथा बन्धोः सुखदुःखैर्न लिप्यते ।

तत्त्वेन संपरिज्ञानात्तथा तत्त्वचयात्मनः

॥५४॥

तदनादि शिवं ज्ञानं यन्मध्यं द्रष्टृदृश्ययोः ।

तस्मिन्सत्ये मनः शान्तं पांसुर्वायुक्षये यथा

॥५५॥

उपशान्ते मनोवायौ देहपांसुः प्रशाम्यति ।

पुनः संसारनगरे न नीहारः प्रवर्तते

॥५६॥

वासनाप्रावृषि क्षीणे संस्थितौ राममागते ।

जाड्ये जनितहृत्कम्पे पङ्के शोषमुपागते

॥५७॥

शुष्के तृष्णावटे शान्ते मन्दे हृदयकानने ।

क्षीणेष्वक्षकदम्बेषु मिथ्याज्ञानघने क्षते

॥५८॥

क्षीयते मोहमिहिका प्रभात इव शर्वरी ।

क्वापि गच्छति तज्जाड्यं विषं मन्त्रहतं यथा

॥५९॥

देहाद्रौ न भयक्षुद्राः सरितः प्रसरन्त्यलम् ।

नोल्लसन्ति लसत्पक्षाः संकल्पोग्रकलापिनः

॥६०॥

परां निर्मलतामेति संविदाकाशगोचरः ।

राजतेऽतितरामच्छो जीवादित्यो महोदयः

॥६१॥

घनमोहभरोन्मुक्ता विविक्तत्वं परं गताः ।

समये ह्यतिशोभन्ते धौता आशा महादिशः

॥६२॥

भृशमाभाति विमला मुदिताकाशमञ्जरी ।

शीतलीकृतदिक्वक्रा शरद्व्योम्नीव चन्द्रिका

॥६३॥

सर्वसंपत्प्रकाशेन परमानन्ददायिना ।

भृशं सफलतामेति सुविविक्ता विवेकभूः

॥६४॥

सपर्वतवनाभोगं परमालोकसुन्दरम् ।

अच्छाच्छं शीतलच्छायं जायते भुवनान्तरम्

॥६५॥

विस्तारितं सुसुमतां स्फारितं स्फटिकाकृतिम् ।

उपैति हृत्सरः स्वच्छं नीरजोम्बुजकोशकम्

॥६६॥

हृत्पद्मकोशान्मलिनः स्वाहंकारमधुव्रतः ।

अपुनर्दर्शनायैव चञ्चलः क्वापि गच्छति

॥६७॥

भवत्यपगताक्षेपः सर्वगः सर्वनायकः ।

निर्वासनः शान्तमनाः स्वदेहनगरेश्वरः

॥६८॥

विचारणासमधिगतात्मदीपको

मनस्यलं परिगलितेव धीरधीः ।

विलोकयन्क्षयभवनीरसा गती-

र्गतज्वरो विलसति देहपत्तने

॥६९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये स्थितिप्रकरणे उपशमवर्णनं नाम पञ्चत्रिंशः सर्गः ।। ३५ ।।