मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १६५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 165

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

जाग्रत्स्वप्ने स्वप्न एव जाग्रत्त्वमनुगच्छति ।

स्वप्नजाग्रति जाग्रत्तु स्वप्नतामुपगच्छति

॥१॥

स्वप्नो जाग्रत्प्रविशति जाग्रत्स्वप्नात्प्रबुध्यते ।

जाग्रत्स्वप्नं प्रविशति प्रबुद्धः स्वप्नजाग्रतः

॥२॥

जाग्रतस्वप्नवता स्वप्नः स्वप्न इत्यभिधीयते ।

स्वप्नजाग्रद्वता जाग्रज्जाग्रदित्यभिधीयते

॥३॥

तज्जाग्रज्जाग्रतीवेह न तु स्वप्नः कदाचन ।

स्वप्ने स्वप्नो जाग्रदेव न तु जाग्रत्कदाचन

॥४॥

लघुकालात्मकः स्वप्नः सर्वदैव हि जाग्रति ।

लघुकालात्मकं जाग्रत्स्वप्नकाले सदैव च

॥५॥

न जाग्रत्स्वप्नयोर्भेदः कश्चनास्ति कदाचन ।

एकस्यावसरोऽन्यत्र द्वयोरपि न सन्मयः

॥६॥

मृतिप्रबोधसमये जाग्रत्स्वप्नः प्रशाम्यति ।

स्वप्नानुभवबोधे च शून्य एवातिभास्वरः

॥७॥

जीवतः स्वप्नसमये मृतिबोधोदयं विना ।

परलोकात्मकं जाग्रत्किंचनापि न दृश्यते

॥८॥

स्थिते जीवितबोधेऽस्मिञ्छून्ये नानामयात्मनि ।

परलोकात्मकः स्वप्नः कश्चनापि न दृश्यते

॥९॥

चिच्चमत्कृतिमात्रात्म यथा स्वप्ने जगत्त्रयम् ।

हृदि सर्गात्प्रभृत्येव तथैवाभाति जाग्रति

॥१०॥

सन्त्येवासत्यभूतानि स्फारापि परमार्थतः ।

नास्त्येवाकारवत्तेयं स्वप्नोर्व्यामिव जाग्रति

॥११॥

नानात्मभासुरमपि स्वप्ने शून्यं यथा जगत् ।

तथैव जाग्रत्यखिलं व्योमैवेदं चिदात्मकम्

॥१२॥

चिद्व्योम्नो हि स्वभावोऽयं यदिदं जगदम्बरे ।

कचतीत्थमिह स्फारमालोक इव तेजसः

॥१३॥

चितेश्चमत्कृतिरियं जगन्नाम्नी चकास्त्यलम् ।

सहजा गगने कुड्ये परमाणौ स्थले जले

॥१४॥

भ्रान्तावसत्यरूपायां स्थितायां सत्यवस्तुवत् ।

आकाशमात्रदेहायां क इवैनां प्रति ग्रहः

॥१५॥

ग्रहीतृग्रहणग्राह्यरूपमाशून्यमेव च ।

सदस्त्वेवासदेवास्तु जगदत्राङ्ग किं ग्रहः

॥१६॥

इत्थमस्त्विदमथान्यथास्तु वा

मैव भूद्भवतु कोऽत्र संभ्रमः ।

कोऽत्र फल्गुनि फले फलग्रहो

बुद्धमेव तदलं विकल्पनैः

॥१७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० जाग्रत्स्वप्नैक्योपदेशो नाम पञ्चषष्ट्यधिकशततमः सर्गः ।। १६५ ।।