मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ३५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 35

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

ततो मुहूर्तेन हरो गौरीकमलिनीसरः ।

मद्विकासोन्मुखः स्वैरं विकासं बहिराददे

॥१॥

दृक्चयो द्योतयामास मुखाकाशतलोदितः ।

बोधं समुद्गकादर्क अंशुराशिरिवोद्गतः

॥२॥

ईश्वर उवाच ।

मुने मननमाहूय स्वसत्तैवाशु मीयताम् ।

त्वमर्थं माहरानर्थं पवनः स्पन्दतामिव

॥३॥

द्रष्टव्यमिह यत्किंचित्तद्दृष्टं किं समं भ्रमैः ।

न हि हेयमुपादेयं चेह पश्यामि तद्विदः

॥४॥

शान्त्यशान्तिमयानेतान्विकल्पान्दलयन्नसिः ।

धीरोसिनान्यथाऽऽस्थित्वा त्वमेव भव चात्मदृक्

॥५॥

इमां दृश्यदशामाशु बाह्यबोधाय वा पुनः ।

समाश्रित्य मदुक्तं त्वं श्रृणु तूष्णीं स्थितेन किम्

॥६॥

इत्युक्त्वा बाह्यबोधस्त्वं मा भवेति त्रिशूलधृक् ।

प्राणेनेदं देहगेहं परिस्फुरति यन्त्रवत्

॥७॥

प्राणहीनं परिस्पन्दं त्यक्त्वा तिष्ठति मूकवत् ।

चालनी पावनी शक्तिः शक्तिः संवेदनी चितिः

॥८॥

सा मूर्ता खादपि स्वच्छा सत्सत्तैवात्र कारणम् ।

विनश्यतः प्राणदेहौ वियोगान्मरुदेव च

॥९॥

चिदात्मा खादपि स्वच्छो न विनश्यति किं भ्रमैः ।

मनःप्राणमये देहे चित्तत्त्वं परिजायते

॥१०॥

मुकुरे ह्यमलाभासे प्रतिबिम्बं प्रवर्तते ।

सदप्यग्रगतं वस्तु प्रतिबिम्बक्रिया विना

॥११॥

यथा नास्ति मलोपेते मुकुरे मुनिनायक ।

तथा नास्ति गतप्राणे विद्यमानेऽपि देहके

॥१२॥

सर्वगापि चिदुच्छूनबोधात्स्पन्दादिकं प्रति ।

बोधात्कलङ्कविमला चिदेव परमं शिवम्

॥१३॥

विदुर्देवं तदाभासं सर्वसत्तार्थदं तथा ।

स हरिः स शिवः सोऽजः स ब्रह्मा स सुरेश्वरः

॥१४॥

अनिलानलचन्द्रार्कवपुः स परमेश्वरः ।

स एष सर्वगो ह्यात्मा चित्खनिश्चेतनः स्मृतः

॥१५॥

देवेशो देवभृद्धाता देवदेवो दिवः पतिः ।

महाचितः समुल्लासं मुह्यन्तीव न केचन

॥१६॥

ये नाम ते जगत्येते ब्रह्मविष्णुहरादयः ।

परस्मात्परिनिर्याता ब्रह्मविष्णुहरादयः

॥१७॥

कणास्तप्तायस इव वारिधेरिव बिन्दवः ।

तेष्विव भ्रमभूतेषु जातेष्विव परात्पदात्

॥१८॥

स्थितेषु भ्रमबीजेषु कल्पनाजालकर्तृषु ।

सहस्रशतशाखेयमविद्योदेति पीवरी

॥१९॥

वेदवेदार्थवेदादिजीवजालजटावली ।

ततस्तस्या अनन्तायाः प्रसृतायाः पुनःपुनः

॥२०॥

संपन्नदेशकालायाः क्रमः स्याद्वर्णनासु कः ।

ब्रह्मविष्णुहरादीनामतोऽयं परमः पिता

॥२१॥

मूलबीजं महादेवः पल्लवानामिव द्रुमः ।

सर्वसत्त्वाभिधः सर्वः सर्वसंवेदनैककृत्

॥२२॥

सर्वसत्ताप्रदो भास्वान्वन्द्योऽभ्यर्च्यश्च तद्विदः ।

प्रत्यक्षवस्तुविषयः सर्वत्रैव सदोदितः

॥२३॥

संवेदनात्मकतया गतया सर्वगोचरम् ।

न तस्याह्वानमन्त्रादि किंचिदेवोपयुज्यते

॥२४॥

नित्याहूतः स सर्वस्थो लभ्यते सर्वतः स्वचित् ।

यां यां वस्तुदशां याति तत एव मुने शिवम्

॥२५॥

स्वरूपं समवाप्नोति रूपालोकमनोदृशाम् ।

आद्यं पूज्यं नमस्कार्यं स्तुत्यमर्घ्यं सुरेश्वरम्

॥२६॥

एनं तं विद्धि वेद्यानां सीमान्तं महतामपि ।

एतमात्मानमालोक्य जराशोकभयापहम् ।

संभृष्टबीजवज्जन्तुर्न भूयः परिरोहति

॥२७॥

सकलजन्तुषु यत्त्वभयप्रदं

विदितमाद्यमुपास्यमयत्नतः ।

त्वमजमात्मगतं परमं पदं

भवसि किं परिमुह्यसि दृष्टिषु

॥२८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० महादेवस्य पूज्यसीमान्तत्वकथनं नाम पञ्चत्रिंशः सर्गः ।। ३५।।