मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ६१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 61

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

चिदाकाशाच्चिदाकाशे पयसीव पयोरयाः ।

चित्त्वाज्जीवाः स्फुरन्त्येते एत एव मनांसि नः

॥१॥

विशदाकाशरूपाणि तान्येव च मनांसि नः ।

जगन्ति तान्यनन्तानि संपन्नान्यभितः स्वयम्

॥२॥

श्रीराम उवाच ।

सर्वभूतगणे मोक्षं महाकल्पक्षये गते ।

पुनः कस्य कथं सर्गसंवित्तिरुपजायते

॥३॥

श्रीवसिष्ठ उवाच ।

महाप्रलयपर्यन्ते क्षितिजलपवनहुताशाकाशा-शेषविशेषविनाशे आब्रह्मस्थावरान्तेषु मुक्तौ परि-णतेषु भूयो यथेदं जगदनुभूयते तथा शृणु । अव्यपदेश्यं यत्परमार्थघनं ब्रह्म चिन्मात्रमित्याच-क्षते मुनयः तस्य हृदयमिदं जगत्तस्मादव्यतिरि-क्तमेव, स एव च देवस्तदात्मीयं हृदयं स्वभावं जगदित्यवगच्छति च विनोदेनैव न तु वास्तवेन रूपेण जगदिति किंचिदुपलभामहे, विचारयन्त-स्तस्मात्किमिव नश्यते किमिव जायते यथा परम कारणमविनाशि तथा तद्धृदयमविनाश्यं च । महा- कल्पादयश्च तदवयवा एव, अपरिज्ञानमात्रमत्र केवलं भेदायैव तदपि प्रेक्ष्यमाणेन लभ्यत एव

॥४॥

तस्मान्न कस्यचित्किंचित्कदाचिन्नश्यति क्वचित् ।

न चैव जायते ब्रह्म शान्तं दृश्यमजं स्थितम्

॥५॥

आकाशपरमाणुसहस्रांशमात्रेऽपि या शुद्धचि-न्मात्रसत्ता विद्यते

॥०॥

वपुर्जगदिदं तस्या ननु नाम महाचितेः ।

कथं नश्यत्यनष्टायां तस्यां सा च न नश्यति

॥७॥

संविदो हृदयं स्वप्ने यथा भाति जगत्तया ।

व्योमात्मैव तथैवादिसर्गात्प्रभृति भासते

॥८॥

चिद्व्योमावयवः सर्गः सर्गस्यैतादृशाः क्षयाः ।

उदयाश्चेति खं सर्वे किं नाशि किमनाशि च

॥९॥

एषा हि परमार्थसंविदच्छेद्या अदाह्याऽक्लेद्याऽ-शोष्या, सा ह्यतद्विदामदृश्या तस्या यद्धृदयं तत्तदेव भवति यथासौ न नश्यति तदन्तर्वर्ती जगदाद्यनुभवो न जायते न नश्यत्येवेति केवलं स्मरणविस्मरणव- शेन स्वभावरूपेणानुभवाननुभवौ कल्पयतीव

॥१०॥

यद्यद्यदात्मकं तत्त्वं तद्विनाशे विनाऽक्षयि ।

तस्माद्ब्रह्मात्मकं दृश्यं विद्धि ब्रह्मवदक्षयम्

॥११॥

महाप्रलयादयस्तदवयवा एव

॥१२॥

चिन्मात्रे परमे व्योम्नि कुत एव भवाभवौ ।

कुतो भावविकारादिः कथं व्योम्नि निराकृते

॥१३॥

महाकल्पादयो भावा नामैतानि जगन्ति च ।

ब्रह्मात्मकतयैवास्मिन्संविद्ब्रह्मणि संस्थितम्

॥१४॥

निराकृत्यच्छचिन्मात्रं दृश्यं संकल्प्य तद्वशम् ।

याति येनैव घटितो यक्षस्तद्धृदये किल ।

॥१५॥

यथावयविनो वृक्षस्य शाखाविटपफलपल्लवपु-ष्पाद्योऽवयवास्तथा परमार्थघनस्याकाशादप्यच्छ- रूपस्याव्यपदेश्यस्य प्रलयमहाप्रलयनाशोद्भेदभावा- भावसुखदुःखजननमरण साकारनिराकारत्वादयो- ऽवयवाः , यथैव चासाववयव्यनाशोऽव्यपदेश्यश्च तथैव त इति ।

॥१६॥

अवयवावयविनोर्दृश्ययोर्वाप्यदृश्ययोः ।

एकात्मनोरेव सदा भेदोऽस्ति न कदाचन ।

॥१७॥

यथा तरोः संविन्मूलं तथा परमार्थघनस्य क्वचि-त्किंचित्त्वं क्वचित्सर्गस्तम्बः क्वचिल्लोकान्तरविटपाः क्वचिद्व्यवस्थाः शाखाः क्वचित्पदार्थपल्लवाः क्वचित्प्र- काशकुसुमम् क्वचिदन्धकारकार्ष्ण्यं क्वचिन्नभः को-टरं क्वचित्प्रलयगुल्माः क्वचिन्महाप्रलयगुल्माः क्वचि- द्धरिहरादिगुलुच्छकाः क्वचिज्जाड्यत्वक् एवमना-कारं व्योमरूपमेव संविदात्मनि ब्रह्मणि ब्रह्मसदृश भावादव्यतिरिक्तमेवैतत्स्थितम्

॥१८॥

इतो भाव्य इतो भाव इतः सर्ग इतः क्षयः ।

स्वभाव एवानुभव इति ब्रह्माचलं स्थितम्

॥१९॥

एवंमयेऽपि परमे ब्रह्माकाशे न रञ्जनाः ।

काश्चिदेवाङ्ग सन्तीन्दुबिम्बे विमलता यथा

॥२०॥

निर्मले परमाकाशे क्व भावाभावरञ्जनाः ।

क्वादिमध्यान्तकलनाः क्व लोकान्तरविभ्रमाः ]

॥२१॥

अपरिज्ञानमेवैकं तत्र दोषवदुत्थितम् ।

केवलं तत्परावृत्य प्रेक्षणात्परिशाम्यति

॥२२॥

अज्ञानं ज्ञप्तिबोधेन परामृष्टं प्रणश्यति ।

येनैवाभ्युदितस्तेन पवनेनेव दीपकः

॥२३॥

अज्ञानं संपरिज्ञातं नासीदेवेति बुध्यते ।

अबन्धमोक्षं ब्रह्मैव सर्वमित्यवगम्यते

॥२४॥

एवं बोधादयो राम मोक्ष उक्ताः स्वसंविदा ।

विचारयत्नो लभते नात्र कश्चन संशयः

॥२५॥

इदं जगज्जालमनाद्यजातं

ब्रह्मार्थमाभातमितीह दृष्ट्वा ।

विचारदृष्ट्याऽष्टगुणेश्वरत्वं

पश्यंस्तृणं स्वात्मनि जीव आस्ते

॥२६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० पाषाणो० जगदाकाशैकबोधो नामैकषष्टितमः सर्गः ।।६ १।।