मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १७४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 174

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

सर्गादौ स्वप्नसंवित्त्या चिदेवाभाति केवला ।

जगदित्यवभासेव ब्रह्मैवातो जगत्त्रयम्

॥१॥

सर्गास्तरङ्गा ब्रह्माब्धेस्तेषु संवेदनं द्रवः ।

सर्गान्तरं सुखाद्यात्म द्वैतैक्यादीतरत्कुतः

॥२॥

यथा स्वप्नसुषुप्तात्म निद्रारूपकमेव खम् ।

दृश्यादृश्यांशमेकात्मरूपं चिन्नभसस्तथा

॥३॥

जाग्रति स्वप्ननगरं यादृक्तादृगिदं जगत् ।

परिज्ञातं भवेदत्र कथमास्था विवेकिनः

॥४॥

सर्गादौ सर्गसंवित्तेर्यथाभूतार्थवेदनात् ।

जाग्रति स्वाप्ननगरं यादृशं तादृशं जगत्

॥५॥

जाग्रति स्वप्ननगरवासना विविधा यथा ।

सत्या अपि न सत्यास्ता जाग्रत्यो वासनास्तथा

॥६॥

अन्यथोपप्रपद्येह कल्प्यते यदि कारणम् ।

तत्किं नेदीयसी नात्र भ्रान्तता कल्प्यते तथा

॥७॥

स्वानुभूयत एवेयं भ्रान्तिः स्वप्नजगत्स्विव ।

कारणं त्वनुमासाध्यं क्वानुमाऽनुभवाधिका

॥८॥

दृष्टमप्यस्ति यन्नेशे न चात्मनि विचारितम् ।

अन्यथानुपपत्त्यान्तर्भ्रान्त्यात्म स्वप्नशैलवत्

॥९॥

निर्विकल्पं परं जाड्यं सविकल्पं तु संसृतिः ।

ध्यानं तेन समाधानं न संभवंति किंचन

॥१०॥

सचेत्यं संसृतिर्ध्यानमचेत्यं तूपलस्थिति ।

मोक्षो नोपलवद्भानं न विकल्पात्मकं ततः

॥११॥

न च नामोपलाभेन निर्विकल्पसमाधिना ।

अन्यदासाद्यते किंचिल्लभ्यते किं स्वनिद्रया

॥१२॥

तस्मात्सम्यक्परिज्ञानाद्भ्रान्तिमात्रं विवेकिनः ।

सर्गात्यन्तासंभवतो यो जीवन्मुक्ततोदयः

॥१३॥

निर्विकल्पं समाधानं तदनन्तमिहोच्यते ।

यथास्थितमविक्षुब्धमासनं सर्वभासनम्

॥१४॥

तदनन्तसुषुप्ताख्यं तत्तुरीयमिति स्मृतम् ।

तन्निर्वाणमिति प्रोक्तं तन्मोक्ष इति शब्दितम्

॥१५॥

सम्यग्बोधैकघनता यासौ ध्यानमिति स्मृतम् ।

दृश्यात्यन्तासंभवात्म बोधमाहुः परं पदम्

॥१६॥

तच्च नोपलवज्जाड्यं न सुषुप्तोपमं भवेत् ।

न निर्विकल्पं न च वा सविकल्पं न वाऽप्यसत्

॥१७॥

दृश्यात्यन्तासंभवात्म तदेवाद्यं हि वेदनम् ।

तत्सर्वं तन्न किंचिच्च तद्वदेवाङ्ग वेत्ति तत्

॥१८॥

सम्यक्प्रबोधान्निर्वाणं परं तत्समुदाहृतम् ।

यथास्थितमिदं विश्वं तत्रालं प्रलयं गतम्

॥१९॥

न तत्र नानाऽनाना न न च किंचिन्न किंचन ।

समस्तसदसद्भावसीमान्तः स उदाहृतः

॥२०॥

अत्यन्तासंभवं दृश्यं यद्वै निर्वाणमासितम् ।

शुद्धबोधोदयं शान्तं तद्विद्धि परमं पदम्

॥२१॥

स च संप्राप्यते शुद्धो बोधो ध्यानमनुत्तमम् ।

शास्त्रात्पदपदार्थज्ञबोधिनोत्पन्नबुद्धिना

॥२२॥

मोक्षोपायाभिधं शास्त्रमिदं वाचयतानिशम् ।

बुद्ध्युपायेन शुद्धेन पुंसा नान्येन केनचित्

॥२३॥

न तीर्थेन न दानेन न स्नानेन न विद्यया ।

न ध्यानेन न योगेन न तपोभिर्न चाध्वरैः

॥२४॥

भ्रान्तिमात्रं किलेदं सदसत्सदिव लक्ष्यते ।

व्योमैव जगदाकारं स्वप्नोऽनिद्रे चिदम्बरे

॥२५॥

न शाम्यति तपस्तीर्थैर्भ्रान्तिर्नाम कदाचन ।

तपस्तीर्थादिना स्वर्गाः प्राप्यन्ते न तु मुक्तता

॥२६॥

भ्रांतिः शाम्यति शास्त्रार्थात्सम्यग्बुद्ध्यावलोकितात् ।

आत्मज्ञानमयान्मोक्षोपायादेवेह नान्यतः

॥२७॥

आलोककारिणात्यर्थं शास्त्रार्थेनैव शाम्यति ।

अमलेनाखिला भ्रान्तिः प्रकाशेनैव तामसी

॥२८॥

सर्गसंहारसंस्थानां भासो भान्ति चिदम्बरे ।

स्पन्दनानीव मरुति द्रवत्वानीव वारिणि

॥२९॥

द्रव्यस्य हृद्येव चमत्कृतिर्निजा

नभस्वतः स्पन्द इवानिशं यथा ।

यथा स्थिता सृष्टिरियं तथास्तिता

लयं नभस्यन्तरनन्यरूपिणी

॥३०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतासु निर्वाणोपदेशो नाम चतुःसप्तत्यधिकशततमः सर्गः ।। १७४ ।।