मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १४४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 144

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

मुनिरुवाच ।

सर्वथाभावभावेषु स्वप्नसंवेदनात्मसु ।

नित्याप्रतिघरूपेषु किं बद्धं किं विमुच्यते

॥१॥

खे दृष्टिभासां स्फुरणं यादृशं तादृशं जगत् ।

विपर्यस्यत्यविरतमबोधाल्लक्ष्यते स्थिरम्

॥२॥

यद्यथा पुरसंस्थानं चिरैरेति तदन्यताम् ।

जगदप्येवमनिशं वार्यावर्तविवर्तवत्

॥३॥

भूम्यम्ब्वम्बरशैलादि भवत्यसदिदं क्षणात् ।

तस्मिन्नेव क्षणोदन्तैर्युगकल्पाभिधाः कृताः

॥४॥

जगत्स्वप्न इवाशेषमसदप्यनुभूयते ।

यन्नास्ति चेत्तन्निःशेषं चिदेवेत्थं कचत्यलम्

॥५॥

यथेदं नो जगत्तद्वच्छतानां खे शतानि हि ।

नृणां पश्यन्तु तेषां तु नान्योन्यमनुभूतयः

॥६॥

सरोब्धिकूपमेकानां दृष्टाः प्रत्येकमास्पदे ।

न तेऽन्योन्यं विदन्त्यन्यां दृश्यादिनियतिं क्वचित्

॥७॥

यथा जनशतस्वप्ननगराण्येकमन्दिरे ।

तथा जगन्ति खे भान्तिखानि नो सन्त्यसन्ति नो

॥८॥

कचन्ति नृशतस्वाप्नपुराण्येकगृहे यथा ।

न च नाम कचन्त्येवं सन्त्यसन्ति जगन्ति खे

॥९॥

चिच्चमत्कारमात्रं स्वं स्वात्माङ्गं दृश्यमद्वयम् ।

सरूपमेव नीरूपं सकारणमकारणम्

॥१०॥

दधत्याश्चित्स्वभावायाः संस्काराद्यभिधाः कृताः ।

प्रतिमायाः प्रभाविन्या न संस्कारादयः पृथक्

॥११॥

अपूर्वत्वात्स्मृतिः स्वप्नः संकल्पार्थानुभूतिषु ।

स्वमृत्यनुभवाद्यास्तु दृष्टार्थसदृशीषु च

॥१२॥

इदं सर्गात्म सर्गादौ प्रतिमेव विजृम्भते ।

चिद्भामात्रात्मिका स्वच्छा नान्यन्नामोपपद्यते

॥१३॥

ब्रह्मैव भाति जगदित्युक्तमुक्त्यानया भवेत् ।

न च भातं नवं तच्च ब्रह्मैवेदमतः स्थितम्

॥१४॥

कारणं कार्यमित्युक्तः स पूर्वः स विशिष्यते ।

संस्कार इति तेनैष संस्कारः कृतिरुच्यते

॥१५॥

तत्स्वप्नादावपूर्वोऽर्थो दृष्टान्त इति भाति यः ।

ससंस्कारादिनामोक्तो न बाह्योऽर्थोस्ति चेतसि

॥१६॥

वस्तु दृष्टं न दृष्टं च सच्चास्ते चेतनेव खे ।

स्वभावाद्भाति स्वात्मापि दृष्टवच्चातिजृम्भते

॥१७॥

वेदान्तार्थात्मकं पूर्वसर्गाभावं प्रवर्तते ।

ततो वेद्यव्यवस्था ज्ञैः क्रियते स्वार्थसिद्धये

॥१८॥

स्वप्ने तु जाग्रत्संस्कारो यस्तज्जाग्रत्कृतं नवम् ।

अजाग्रज्जाग्रदाभासं कृतमित्येव तद्विदः

॥१९॥

ततो वायाविवास्पन्दाश्चित्ते भावाः स्थिताः स्वतः ।

ते स्वतः संप्रवर्तन्ते कात्र संस्कारकर्तृता

॥२०॥

एकं तथा च चिन्मात्रं स्वप्ने लक्षात्म तिष्ठति ।

पुनर्लक्षाद्यतः स्वप्न एकमास्ते सुषुप्तकम्

॥२१॥

चिद्व्योम्नि स्वप्नसंवित्तिर्या सैव जगदुच्यते ।

सुषुप्तं प्रलयः प्रोक्तस्तस्मान्न्यायोऽयमेव सन्

॥२२॥

एकमेव चिदाकाशं साकारत्वमनेककम् ।

स्वरूपमजहद्धत्ते यत्स्वप्न इव तज्जगत्

॥२३॥

एवं चित्परमाण्वन्तर्जगद्भावमिदं स्थितम् ।

तदनन्यात्म चाभोगि स्वप्नादर्शतलेष्विव

॥२४॥

चिद्व्योम संविन्मात्रं यत्परमाणुवदाततम् ।

अनादिमध्यपर्यन्तं तदेव जगदुच्यते

॥२५॥

तस्माद्यत्र चिदाकाशमनन्तं सततं स्थितम् ।

तत्रास्तीति जगद्भानं तदङ्गानन्यरूपि यत्

॥२६॥

चिन्मात्र एव भुवनं त्वमहं चिन्मयं जगत् ।

इति न्यायाज्जगद्याति परमाणूदरेऽप्यजम्

॥२७॥

तस्मादहं पराण्वात्मा समस्तजगदाकृतिः ।

सर्वत्रैव च तिष्ठामि परमाणूदरेऽपि च

॥२८॥

चिन्मात्रपरमाणुः सञ्जगदात्माप्ययं नभः ।

यत्र तिष्ठाम्यहं तत्र पश्यामि भुवनत्रयम्

॥२९॥

अहं चित्परमाण्वात्मा तेन चित्परमाणुना ।

एकतामागतो वारि वारिणेव तदीक्षणात्

॥३०॥

तदोजः संप्रविश्याहं स्थितस्तदनुभूतिवत् ।

अन्तस्थत्रिजगद्रूपो यथाब्जे बीजमङ्कुरे

॥३१॥

तत्र मे त्रिजगद्रूपमन्तः कचितमात्मनि ।

तथा तन्न तु तद्वाह्ये विद्यते केनचित्क्वचित्

॥३२॥

यत्र यत्र यदा भाति स्वप्ने जाग्रदितीह वा ।

सबाह्याभ्यन्तरं दृश्यं निजं चिद्भानमेव तत्

॥३३॥

भाति स्वप्ने यदा जन्तोर्जगदानन्दमाततम् ।

चिदणोरेव तद्भानमात्मनस्तत्पदात्मना

॥३४॥

व्याध उवाच ।

अकारणं चेद्दृश्यं तत्कथमेतत्प्रसिध्यति ।

सकारणं चेद्दृश्यं तत्स्वप्ने सर्गादिधीः कुतः

॥३५॥

मुनिरुवाच ।

अकारणक एवायं सर्ग आदौ प्रवर्तते ।

समस्तकारणाभावाद्यतः सर्गात्मचिन्नभः

॥३३॥

अकारणानां भावानामत्यन्तासंभवादिह ।

क्वचित्सप्रतिघः सर्गो न संभवति कश्चन

॥३७॥

ब्रह्मेदमित्थमाभाति भास्वरं चित्स्वभावतः ।

सर्गादिशब्दपर्यायमाद्यन्तपरिवर्जितम्

॥३८॥

इत्यकारणके सर्गे कचति ब्रह्मरूपिणि ।

परस्यावथवाभासे नित्यात्मावयवात्मना

॥३९॥

अनानात्वेऽपि नानात्वे ब्रह्मण्यब्रह्मरूपिणि ।

अनाकारेऽपि साकारे कचत्यप्रतिघं प्रति

॥४०॥

तद्ब्रह्मैव निराकारं चिद्रूपत्वात्स्फुरद्वपुः ।

साकारमिव भातात्म भूत्वा स्थावरजंगमम्

॥४१॥

देवर्षिमुनिभारूपं करोति नियतिं क्रमात् ।

विधींश्च प्रतिषेधांश्च देशकालक्रियादिकान्

॥४२॥

भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ।

अर्था व्यभिचरन्त्येते नियतिर्नाखिलास्ततः

॥४३॥

ततः प्रभृति भावानां सकारणकतां विना ।

सैकतादिव तैलानां न संभवति संभवः

॥४४॥

नियतिर्नायकश्चैव ब्रह्मतश्चाङ्गमात्मना ।

स्वाङ्गेन संयमयति करेणेव निजं करम्

॥४५॥

अबुद्धिपूर्वं चानिच्छमेवमेव प्रवर्तते ।

काकतालीयवत्स्पन्दादावर्ता इव वारिणि

॥४६॥

संनिवेशो हि नियतिस्तां विना प्रतिघोदयम् ।

ब्रह्म स्थातुं न शक्नोति तच्च सर्वात्मताक्षयम्

॥४७॥

एवं सकारणं सर्वं सर्वदा दृश्यमण्डलम् ।

यस्य सर्गे यतः कालात्ततः प्रभृति तं प्रति

॥४८॥

भात्यकारणकं ब्रह्म सर्गात्माप्यबुधं प्रति ।

तं प्रत्येव च भात्येष कार्येकारणदृग्भ्रमः

॥४९॥

काकतालीयवत्सर्गे स्थिते त्वावृत्तिवृत्तिवत् ।

इदमित्थमिदं नेत्थमितीयं नियतिः स्थिता

॥५०॥

सकारणत्वं भावानामवश्यंभाविनि क्रमे ।

जाग्रत्स्वप्नदृशो नेह संभवन्त्यपकारणाः

॥५१॥

यथा स्वप्नेऽखिलामम्बुसंक्षोभात्प्रलयभ्रमाः ।

दृश्यते कारणं तत्र श्रूयतामनुभूयताम्

॥५॥

सर्ववस्तुषु कचन्ति सर्वदा

युक्तयः स्फटिकशुक्तयो यथा ।

भावनानुभव एव स स्वयं

शक्तिमाञ्जयति जीवितात्मकः

॥५३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० श० पदार्थविचारो नाम चतुश्चत्वारिंशदधिकशततमः सर्गः ।। १४४।।