मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ५८

3
योगवासिष्ठम् · उपशमप्रकरणम् · 58

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।

किरातेशस्य सुरघोर्वृत्तान्तं विस्मयास्पदम्

॥१॥

उत्तरस्या दिशो मेदः कर्पूरपटल भुवः ।

संभूतं हसनं शार्वं शुक्लो वा चान्द्र आतपः

॥२॥

हिमाद्रेः श्रृङ्गमस्तीह कैलासो नाम पर्वतः ।

शैलकुञ्जरनिर्मुक्तकलापस्येव नायकः

॥३॥

विष्णोः क्षीरोद इव स्वर्गः सुरपतेरिव ।

अब्जजस्येव नाभ्यब्जं गृहं यः शशिमौलिनः

॥४॥

रुद्राक्षवृक्षदोलाभिः साप्सरोभिर्विभाति यः ।

लोलरत्नशलाकाभिर्लहरीभिरिवार्णवः

॥५॥

गणाङ्गनानामनिशं मत्तानां चरणैर्हताः ।

अशोका इव राजन्ते यत्राशोका विलासिनः

॥६॥

संचरन्शंकरो दिक्षु भृगुष्विन्दुमणिद्रवैः ।

निवर्तन्ते प्रवर्तन्ते यत्राजस्रं च निर्झराः

॥७॥

यो लतावृक्षगुल्मौघवापीहृदनदीनदैः ।

मृगैर्मृगगणैर्भूतैर्ब्रह्माण्डवदिवावृतः

॥८॥

तस्य हेमजटा नाम किराताः संस्थिताः स्थले ।

पिपीलिका वटतरोर्मूलकोशगता इव

॥९॥

कैलासपादारण्यानां रुद्राक्षैस्तरुगुल्मकैः ।

वसन्ति घूकवत्क्षुद्रास्ते वै निकटजीविनः

॥१०॥

आसीत्तेषामुदारात्मा राजा परपुरंजयः ।

जयलक्ष्म्या भुज इव यः प्रजायाश्च दक्षिणः

॥११॥

सुरघुर्नाम बलवान्सुरघोरारिदर्पहा ।

अर्कः पराक्रम इव मूर्तिमानिव मारुतः

॥१२॥

जितो वै राज्यविभवैर्धनैर्गुह्यकनायकः ।

शतक्रतुगुरुर्बोधैः काव्यैरसुरदेशिकः

॥१३॥

स चक्रे राजकार्याणि निग्रहानुग्रहक्रमैः ।

यथाप्राप्तान्यखिन्नाङ्गो दिनानीव दिवाकरः

॥१४॥

तज्जाभ्यां सुखदुःखाभ्यामथ तस्याभ्यभूयत ।

स्वगतिर्वागुराबन्धैः श्लिष्टाङ्गस्येव पक्षिणः

॥१५॥

किमार्तं पीडयाम्येनं तिलान्यन्त्रमिवौजसा ।

सर्वेषामेव भूतानां ममेवार्तिः प्रजायते

॥१६॥

धनमस्मै प्रयच्छामि धनेनानन्दवाञ्जनः ।

भवत्यहमिवाशेषस्तदलं मेऽतिनिग्रहैः

॥१७॥

अथवा निग्रहं प्राप्तं करोम्येतेन वै विना ।

वर्तते न प्रजैवेयं विना वारि सरिद्यथा

॥१८॥

हा कष्टमेव निग्राह्यो नित्यानुग्राह्य एष मे ।

दिष्ट्याद्य सुखवानस्मि कष्टमद्यास्मि दुःखवान्

॥१९॥

इति दोलायितं चेतो न विशश्राम भूपतेः ।

एकत्राम्बुमहावर्ते चिरतृष्णमिव भ्रमत्

॥२०॥

अथैकदा गृहं तस्य माण्डव्यो मुनिराययौ ।

भ्रान्ताशेषककुप्कुञ्जो वासवस्यव नारदः

॥२१॥

तमसौ पूजयामास पप्रच्छ च महामुनिम् ।

संदेहदुर्द्रुमस्तम्भपरशुं सर्वकोविदम्

॥२२॥

सुरघुरुवाच ।

भवदागमनेनास्मि मुने निर्वृतिमागतः ।

परमां वसुधापीठं संप्राप्त इव माधवे

॥२३॥

अद्य तिष्ठाम्यहं नाथ धन्यानां धुरि धर्मतः ।

विकासि रविणेवाब्जं यत्त्वयास्म्यवलोकितः

॥२४॥

भगवन्सर्वधर्मज्ञ चिरं विश्रान्तवानसि ।

तदमुं संशयं छिन्धि ममार्कस्तिमिरं यथा

॥२५॥

महतां संगमेनार्तिः कस्य नाम न नश्यति ।

संदेहं तु परामार्तिमाहुरार्तिविदो जनाः

॥२६॥

मन्निग्रहानुग्रहजा मद्भृत्यवपुषि स्थिताः ।

कषन्ति मामलं चिन्ता गजं हरिनखा इव

॥२७॥

तद्यथा समतोदेति सूर्यांशुरिव सर्वदा ।

मतौ मम मुने नान्या तथा करुणया कुरु

॥२८॥

माण्डव्य उवाच ।

स्वयत्नेन स्वसंस्थेन स्वेनोपायेन भूपते ।

एषा मनःपेलवता हिमवत्प्रविलीयते

॥२६॥

स्वविचारणयैवाशु शाम्यत्यन्तर्मनोज्वरः ।

शरदागममात्रेण मिहिका महती यथा

॥३०॥

स्वेनैव मनसा स्वानि स्वशरीरगतानि च ।

विचारयेन्द्रियाण्यन्तः कीदृशान्यथ कानि च

॥३१॥

कोऽहं कथमिदं किंवा कथं मरणजन्मनी ।

विचारयान्तरेवं त्वं महत्तामलमेष्यसि

॥३२॥

विचारणा परिज्ञातस्वभावस्य सतस्तव ।

हर्षामर्षदशाश्चेतस्तोलयिष्यन्ति नाचलम्

॥३३॥

मनः कृष्णमृत्सृज्य शममेष्यति विज्वरम् ।

भूतपूर्ववपुर्भूत्वा तरङ्गः पयसीव ते

॥३४॥

तिष्ठदेव मनोरूपं परित्यक्ष्यति तेऽनघ ।

कलङ्कविकलं कालं मन्वन्तरगताविव

॥३५॥

अनुकम्प्या भविष्यन्ति श्रीमन्तः सर्व एव ते ।

दृष्टतत्त्वस्य तुष्टस्य जनाः पितुरिवावनौ

॥३६॥

विवेकदीपदृष्टात्मा मेर्वब्धिनभसामपि ।

अधो करिष्यसि नृप महत्तामुत्तमार्थदाम्

॥३७॥

महत्तामागते चेतस्तव संसारवृत्तिषु ।

न निमज्जति हे साधो गोष्पदेष्विव वारणः

॥३८॥

कृपणं तु मनो राजन्पेलवेऽपि निमज्जति ।

कार्ये गोष्पदतोयेऽपि जीर्णाङ्गो मशको यथा

॥३९॥

चेतोवासनया पङ्के कीटवत्परिमज्जसि ।

दृश्यमात्रावलम्बिन्या स्वया दीनतया तया

॥४०॥

तावत्तावन्महाबाहो स्वयं संत्यज्यतेऽखिलम् ।

यावद्यावत्परालोकः परमात्मैव शिष्यते

॥४१॥

तावत्प्रक्षाल्यते धातुर्यावद्धेमैव शिष्यते ।

तावदालोक्यते सर्वं यावदात्मैव लभ्यते

॥४२॥

सर्वः सार्विकया बुद्ध्या सर्वं सर्वत्र सर्वदा ।

सर्वथा संपरित्यज्य स्वात्मनात्मोपलभ्यते

॥४३॥

यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते ।

सर्वावस्थापरित्यागे शेष आत्मेति कथ्यते

॥४४॥

यावदन्यन्न संत्यक्तं तावत्सामान्यमेव हि ।

वस्तु नासाद्यते साधो स्वात्मलाभे तु का कथा

॥४५॥

यत्र सर्वात्मनैवात्मा लाभाय यतति स्वयम् ।

त्यक्तान्यकार्यं प्राप्नोति तन्नाम नृप नेतरत्

॥४६॥

स्वात्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् ।

सर्वं किंचित्परित्यज्य यद्दृष्टं तत्परं पदम्

॥४७॥

सकलकारणकार्यपरम्परा-

मयजगद्गतवस्तुविजृम्भितम् ।

अलमपास्य मनः स्ववपुस्ततः

परिविलाप्य यदेति तदेव तत्

॥४८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सुरघुवृत्तान्ते माण्डव्योपदेशो नामाष्टपञ्चाशः सर्गः ।।५८ ।।