मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ३७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 37

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

ईश्वर उवाच ।

इत्यादिकानां शब्दानामर्थश्रीः सत्यरूपिणि ।

तस्मिन्सर्वेश्वरे सर्वसत्तामणिसमुद्गके

॥१॥

का नाम विमलाभासास्तस्मिन्परमचिन्मणौ ।

न कचन्ति विचिन्वन्ति विचित्राणि जगन्ति याः

॥२॥

एषा बीजकणान्तस्था चित्सत्ता स्ववपुर्मयम् ।

लब्ध्वा मृत्कालवार्यादि करोत्यङ्कुरमोदनम्

॥३॥

फेनावर्तविवर्तान्तर्वर्तिनी रसरूपिणी ।

कठिनेन्द्रियसंबन्धे करोति स्पन्दमम्भसाम्

॥४॥

एषा कुसुमगुच्छेषु रसरूपेण संस्थिता ।

कचति घ्राणरन्ध्रेषु करोति परिफुल्लताम्

॥५॥

शिलाङ्गस्था शिलाङ्गाभामसतीं सत्यतापदम् ।

सर्गाधारदशां धत्ते गिरीन्द्रः स्थितिलीलया

॥६॥

पवनस्पन्दकोशात्मरूपिणीव त्वगिन्द्रियम् ।

संसाधयत्यात्मसुतं पितेवात्मतयानया

॥७॥

अशेषसारसंपिण्डमध्यात्मानं स्वसिद्धये ।

भावयित्वा नकिंचित्त्वमिव खत्वं करोत्यलम्

॥८॥

स्वसत्ताप्रतिबिम्बाभमाकाशमुकुरोदरे ।

धत्ते कल्पनिमेषाङ्कं कालाख्यममलं वपुः

॥९॥

आमहापञ्चमेशानं परिणाममया इमे ।

इदमित्थमिदं नेति नियतिर्भवति स्वयम्

॥१०॥

साक्षिणि स्फार आभासे गृहे दीप इव क्रियाः ।

सत्ये तस्मिन्प्रकाशन्ते जगच्चित्रपरम्पराः

॥११॥

परमाकाशनगरनाट्यमण्डपभूमिषु ।

स्वशक्तिवृत्तं संसारं पश्यन्ती साक्षिवत्स्थिता

॥१२॥

श्रीवसिष्ठ उवाच ।

शिवस्यास्य जगन्नाथ शक्तयः काः कथं स्थिताः ।

साक्षिता का च किं तासां वृत्तं स्यात्कियदेव तते

॥१३॥

ईश्वर उवाच ।

अप्रमेयस्य शान्तस्य शिवस्य परमात्मनः ।

सौम्य चिन्मात्ररूपस्य सर्वस्यानाकृतेरपि

॥१४॥

इच्छासत्ता व्योमसत्ता कालसत्ता तथैव च ।

तथा नियतिसत्ता च महासत्ता च सुव्रत

॥१५॥

ज्ञानशक्तिः क्रियाशक्तिः कर्तृताऽकर्तृतापि च ।

इत्यादिकानां शक्तीनामन्तो नास्ति शिवात्मनः

॥१६॥

श्रीवसिष्ठ उवाच ।

शक्तयः कुत एवैता बहुत्वं कथमासु च ।

उदयश्च कथं देव भेदाभेदश्च कीदृशः

॥१७॥

ईश्वर उवाच ।

शिवस्यानन्तरूपस्य सैषा चिन्मात्रतात्मनः ।

एषा हि शक्तिरित्युक्ता तस्माद्भिन्ना मनागपि

॥१८॥

ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वादिविभावनात् ।

शक्तयो विविधं रूपं धारयन्ति बहूदकम्

॥१९॥

एवं जगति नृत्यन्ति ब्रह्माण्डे नृत्यमण्डपे ।

कालेन नर्तकेनेव क्रमेण परिशिक्षिताः

॥२०॥

यैषा परपराभासा सैषा नियतिरुच्यते ।

क्रियाथ कृतिरिच्छा वा कालेत्यादिकृताभिधा

॥२१॥

आमहारुद्रपर्यन्तमिदमित्थमिति स्थितेः ।

आतृणापद्मजस्पन्दं नियमान्नियतिः स्मृता

॥२२॥

नियतिर्नित्यमुद्वेगवर्जिताऽपरिमार्जिता ।

एषा नृत्यति वै नृत्यं जगज्जालकनाटकम्

॥२३॥

नानारसविलासाढ्यं विवर्ताभिनयान्वितम् ।

कल्पक्षणहतानेकपुष्करावर्तघर्घरम्

॥२४॥

सर्वर्तुकुसुमाकीर्णं धारागोलकमन्दिरम् ।

भूयोभूयः पतद्वर्षभूरिस्वेदजलोत्करम्

॥२५॥

पयोदपल्लवालोलनीलाम्बरकृतभ्रमम् ।

पूर्णं संशुद्धसप्ताब्धिरत्नौघवलयाकुलम्

॥२६॥

यामपक्षदिनप्रेक्षाकटाक्षोद्भासिताम्बरम् ।

मज्जनोन्मज्जनव्यग्रकुलाद्रिकुलशेखरम्

॥२७॥

भ्रमच्छशिमणिप्रोतगङ्गामुक्ताफलत्रयम् ।

संदृष्टादृष्टसंध्याभ्रविलोलकरपल्लवम्

॥२८॥

अनारतरणल्लोललोकालंकारकोमलम् ।

भूरिभूतलपातालनभस्तलपदक्रमम्

॥२९॥

मग्नोन्मग्नमहानेकताराघर्मकणोत्करम् ।

चन्द्रार्ककुण्डलस्पन्दस्मितस्फुटनभोमुखम्

॥३०॥

कल्पितानेकब्रह्माण्डकपाटकवितानकम् ।

लुठल्लोकान्तरव्यूहध्वनन्मुक्ताङ्कपल्लवम् ।

सुखदुःखदशादोषभावाभावरसान्तरम्

॥३१॥

अस्मिन्विकारवलिते नियतेर्विलासे

संसारनाम्नि चिरनाटकनाट्यसारे ।

साक्षी सदोदितवपुः परमेश्वरोऽय-

मेकः स्थितो न च तया न च तेन भिन्नः

॥३२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० नियतिनृत्यं नाम सप्तत्रिंशः सर्गः ।। ३७ ।।