मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ८०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 80

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवमात्मनि विश्रान्तां वदन्तीं तां वराननाम् ।

अबुद्ध्वा तद्गिरामर्थं विहस्योवाच भूपतिः

॥१॥

शिखिध्वज उवाच ।

असंबद्धप्रलापासि बालासि वरवर्णिनि ।

रमसे राजलीलाभी रमस्वावनिपात्मजे

॥२॥

किंचित्त्यक्त्वा नकिंचिद्यो गतो प्रत्यक्षसंस्थितम् ।

त्यक्तप्रत्यक्षसद्रूपः स कथं किल शोभते

॥३॥

भोगैरभुक्तैस्तुष्टोऽहमिति भोगान्जहाति यः ।

रुषेवासनशय्यादीन्स कथं किल शोभते

॥४॥

भोगाभोगे परित्यज्य खे शून्ये रमते तु यः ।

एक एवाखिलं त्यक्त्वा स कथं किल शोभते

॥५॥

वसनाशनशय्यादीन्सर्वान्संत्यज्य धीरधीः ।

यस्तिष्ठत्यात्मनैवैकः स कथं किल शोभते

॥६॥

नाहं देहोऽन्यथा चाहं नकिंचित्सर्वमेव च ।

एवं प्रलापो यस्यास्ति स कथं किल शोभते

॥७॥

यत्पश्यामि न पश्यामि तत्पश्याम्यन्यदेव यत् ।

प्रलाप इत्यसंन्यस्य स कथं किल शोभते

॥८॥

तस्माद्बालासि मुग्धासि चपलासि विलासिनि ।

नानालापविलासेन क्रीडामि क्रीड सुन्दरि

॥९॥

प्रविहस्याट्टहासेन शिखिध्वज इति प्रियाम् ।

मध्याह्ने स्नातुमुत्थाय निर्जगामाङ्गनागृहात्

॥१०॥

कष्टं नात्मनि विश्रान्तो मद्वचांसि न बुद्धवान् ।

राजेति खिन्ना चूडाला स्वव्यापारपराभवत्

॥११॥

तदा तथाङ्ग तत्राथ तादृगाशययोस्तयोः ।

ताभिः पार्थिवलीलाभिः कालो बहुतिथो ययौ

॥१२॥

एकदा नित्यतृप्ताया निरिच्छाया अपि स्वयम् ।

चूडालाया बभूवेच्छा लीलया खगमागमे

॥१३॥

खगमागमसिद्ध्यर्थमथ सा नृपकन्यका ।

सर्वभोगाननादृत्य समागम्य च निर्जनम्

॥१४॥

एकैवैकान्तनिरता स्वासनावस्थिताङ्गिका ।

ऊर्ध्वगप्राणपवनचिराभ्यासं चकार ह

॥१५॥

श्रीराम उवाच ।

यदिदं दृश्यते किंचिज्जगत्स्थावरजंगमम् ।

स्पन्दच्युतं क्रियानाम्नः कथमित्यनुभूयते

॥१६॥

कस्य स्पन्दविलासस्य घनाभ्यासस्य मे वद ।

ब्रह्मन्खगमनाद्येतत्फलं यत्नैकशालिनः

॥१७॥

आत्मज्ञो वाप्यनात्मज्ञः सिद्ध्यर्थे लीलयाथवा ।

कथं संसाधयत्येतद्यथा तद्वद मे प्रभो

॥१८॥

श्रीवसिष्ठ उवाच ।

त्रिविधं संभवत्यङ्ग साध्यं वस्त्विह सर्वतः ।

उपादेयं च हेयं च तथोपेक्ष्यं च राघव

॥१९॥

आत्मभूतं प्रयत्नेन उपादेयं च साध्यते ।

हेयं संत्यज्यते ज्ञात्वा उपेक्ष्यं मध्यमेतयोः

॥२०॥

यद्यदाह्लादनकरमादेयं तच्च सन्मते ।

तद्विरुद्धमनादेयमुपेक्ष्यं मध्यमं विदुः

॥२१॥

सन्मतेर्विदुषो ज्ञस्य सर्वमात्ममयं यदा ।

त्रय एते तदा पक्षाः संभवन्ति न केचन

॥२२॥

केवलं सर्वमेवेदं कदाचिल्लीलया तया ।

उपेक्षापक्षनिक्षिप्तमालोकयति वा न वा

॥२३॥

ज्ञस्योपेक्षात्मकं नाम मूढस्यादेयतां गतम् ।

हेयं स्फारविरागस्य श्रृणु सिद्धिक्रमः कथम्

॥२४॥

देशकालक्रियाद्रव्यसाधनाः सर्वसिद्धयः ।

जीवमाह्लादयन्तीह वसन्त इव भूतलम्

॥२५॥

मध्ये चतुर्णामेवैषां क्रियाप्राधान्यकल्पना ।

सिद्ध्यादिसाधने साधो तन्मयास्ते यतः क्रमाः

॥२६॥

गुटिकाञ्जनखङ्गादिक्रियाक्रमनिरूपणम् ।

तत्रासतां च दोषोऽत्र विस्तारः प्रकृतार्थहा

॥२७॥

रत्नौषधितपोमन्त्रक्रियाक्रमनिरूपणम् ।

आस्तामेव किलैषोऽपि विस्तारः प्रकृतार्थहा

॥२८॥

श्रीशैले सिद्धदेशे च मेर्वादौ वा निवासतः ।

सिद्धिरित्यपि विस्तारः कृतार्थ प्रकृतार्थहा

॥२९॥

तस्माच्छिखिध्वजकथाप्रसङ्गपतितामिमाम् ।

प्राणादिपवनाभ्यासक्रियां सिद्धिफलां श्रृणु

॥३०॥

अन्तस्था ह्यखिलास्त्यक्त्वा साध्यार्थेतरवासनाः ।

गुदादिद्वारसंकोचान्स्थानकादिक्रियाक्रमैः

॥३१॥

भोजनासनशुद्ध्या च साधुशास्त्रार्थभावनात् ।

स्वाचारात्सुजनासङ्गात्सर्वत्यागात्सुखासनात्

॥३२॥

प्राणायामघनाभ्यासाद्राम कालेन केनचित् ।

कोपलोभादिसंत्यागाद्भोगत्यागाच्च सुव्रत

॥३३॥

त्यागादाननिरोधेषु भृशं यान्ति विधेयताम् ।

प्राणाः प्रभुत्वात्तज्ज्ञस्य पुंसो भृत्या इवाखिलाः

॥३४॥

राज्यादिमोक्षपर्यन्ताः समस्ता एव संपदः ।

देहानिलविधेयत्वात्साध्याः सर्वस्य राघव

॥३५॥

परिमण्डलिताकारा मर्मस्थानं समाश्रिता ।

आन्त्रवेष्टनिका नाम नाडी नाडीशताश्रिता

॥३६॥

वीणाग्रावर्तसदृशी सलिलावर्तसंनिभा ।

लिप्यार्धौकारसंस्थाना कुण्डलावर्तसंस्थिता

॥३७॥

देवासुरमनुष्येषु मृगनक्रखगादिषु ।

कीटादिष्वब्जजान्तेषु सर्वेषु प्राणिषूदिता

॥३८॥

शीतार्तसुप्तभोगीन्द्रभोगवद्बद्धमण्डला ।

सिता कल्पाग्निविगलदिन्दुवद्बद्धकुण्डली

॥३९॥

ऊरोर्भ्रूमध्यरन्ध्राणि स्पृशन्ती वृत्तिचञ्चला ।

अनारतं च सस्पन्दा पवमानेन तिष्ठति

॥४०॥

तस्यास्त्वभ्यन्तरे तस्मिन्कदलीकोशकोमले ।

या परा शक्तिः स्फुरति वीणावेगलसद्गतिः

॥४१॥

सा चोक्ता कुण्डलीनाम्ना कुण्डलाकारवाहिनी ।

प्राणिनां परमा शक्तिः सर्वशक्तिजवप्रदा

॥४२॥

अनिशं निःश्वसद्रूपा रुषितेव भुजंगमी ।

संस्थितोर्ध्वीकृतमुखी स्पन्दनाहेतुतां गता

॥४३॥

यदा प्राणानिलो याति हृदि कुण्डलिनीपदम् ।

तदा संविदुदेत्यन्तर्भूततन्मात्रबीजभूः

॥४४॥

यथा कुण्डलिनी देहे स्फुरत्यब्ज इवालिनी ।

तथा संविदुदेत्यन्तर्मृदुस्पर्शवशोदया

॥४५॥

स्पर्शनं मृदुनान्योन्यालिङ्गिका तत्र यन्त्रयोः ।

यथा संविदुदेत्युच्चैस्तथा कुण्डलिनी जवात्

॥४६॥

तस्यां समस्ताः संबद्धा नाड्यो हृदयकोशगाः ।

उत्पद्यन्ते विलीयन्ते महार्णव इवापगाः

॥४७॥

नित्यं पातोत्सुकतया प्रवेशोन्मुखया तया ।

सा सर्वसंविदां बीजं ह्येका सामान्युदाहृता

॥४८॥

श्रीराम उवाच ।

आकल्पादनवच्छिन्ना चित्संवित्सर्वमस्ति हि ।

तस्मात्कुण्डलिनीकोशात्केनार्थेनोदयः स्फुटः

॥४९॥

श्रीवसिष्ठ उवाच ।

सर्वत्र सर्वदा सर्वं चित्संविद्विद्यतेऽनघ ।

किंत्वस्या भूततन्मात्रवशादभ्युदयः क्वचित्

॥५०॥

सर्वत्र विद्यमानापि देहेषु तरलायते ।

सर्वगोऽप्यातपः सौरो भित्यादौ वै विजृम्भते

॥५१॥

क्वचिन्नष्टं क्वचित्स्पष्टं क्वचिदुच्छन्नतां गतम् ।

वस्तु वस्तुनि दृष्टं तत्तत्सद्भावैर्विजृम्भितम्

॥५२॥

एतद्भूयः क्रमेणाहं शृणु वक्ष्यामि तेऽनघ ।

देहे स्वे च यथोदेति भृशं संविन्मयक्रमः

॥५३॥

चेतनाचेतनं भूतजातं व्योम तथाखिलम् ।

सर्वं चिन्मात्रसन्मात्रं शून्यमात्रं यथा नभः

॥५४॥

तद्धि चिन्मात्रसन्मात्रमविकारं स्वनामयम् ।

क्वचित्स्थितं संविदेव भूततन्मात्रपञ्चकम्

॥५५॥

तत्पञ्चधा गतं द्वित्वं लक्षसे त्वं स्वसंविदम् ।

अन्तर्भूतविकारादि दीपाद्दीपशतं यथा

॥५६॥

स्वसत्तामात्रकेणैव संकल्पलवरूपिणा ।

पञ्चकानि व्रजन्तीह देहत्वं तानि कानिचित्

॥५७॥

कानिचित्तिर्यगादित्वं हेमादित्वं च कानिचित् ।

कानिचिद्देशतादित्वं द्रव्यादित्वं च कानिचित्

॥५८॥

एवं हि पञ्चकस्पन्दमात्रं जगदिति स्थितम् ।

चित्संविदत्र सर्वत्र विद्यते रघुनन्दन

॥५९॥

केवलं पञ्चकवशाद्देहादौ चेतनाभिधा ।

जडस्पन्दाभिधा क्वापि स्थावरादौ जडाभिधा

॥६०॥

यथा स्तब्धः स्थितो वीचिरिव स्थलमिवास्थितः ।

पञ्चकेषु तथैतच्चिल्लोलरूपा जडान्विता

॥६१॥

इतः सौम्य इतो लोलः किमब्धिरिति नो यथा ।

विकल्पादौ तथैवैतत्पञ्चकं हि जडाजडम्

॥६२॥

देहादिपञ्चकं जीवः स्पन्दः शैलादिकं जडम् ।

स्थावराद्यनिलस्पन्दि स्वभाववशतोऽनघ

॥६३॥

वाचः पर्यनुयोक्तव्याः स्वभावाद्रघुनन्दन ।

शीतोष्णादि हिमाग्न्यादि वाक्चेति परिदृश्यते

॥६४॥

गृहीतवासनांशानां पुष्टाभावविकारिणाम् ।

स्थितयः पञ्चकानां हि योज्याः पर्यनुयोजने

॥६५॥

वासनास्तु विपर्यस्ता इतो नेतुमितश्च ताः ।

पुंसा प्राज्ञेन शक्यन्ते सुखं पर्यनुयोजितुम्

॥६६॥

अशुभे वा शुभे वापि तेन पर्यनुयोज्यते ।

प्रबुद्धवासनं चान्यत्पञ्चकं सुप्तवासनम्

॥६७॥

यत्र पर्यनुयोगस्य फलं समनुभूयते ।

तत्र तं संप्रयुञ्जीत नाकाशं मुष्टिभिः क्षिपेत्

॥६८॥

तृणाग्रनिष्ठा मेर्वाद्याः पञ्चकानां हि राशयः ।

विवेकनिष्ठाः कीटाद्या एते स्थावरजंगमाः

॥६९॥

प्रसुप्तवासनाः केचिद्यथा स्थावरजातयः ।

प्रबुद्धवासनाः केचिद्यथा नरसुरादयः

॥७०॥

सवासनाविलाः केचिद्यथैते तिर्यगादयः ।

प्रक्षिप्तवासनाः केचिद्यथैते मोक्षगामिनः

॥७१॥

अथ स्वास्वेव संवित्सु मनोबुद्ध्यादिकाः कृताः ।

हस्तपादादिसंयुक्तैः संज्ञाः पञ्चकराशिभिः

॥७२॥

तिर्यगादिभिरप्यन्यैरन्याः संज्ञाः प्रकल्पिताः ।

स्थावरादिभिरप्यन्यैरन्यान्याः संविदः कृताः

॥७३॥

इति साधो स्फुरन्तीमे चित्राः पञ्चकराशयः ।

रूपैराद्यन्तमध्येषु चलाचलजडाजडैः

॥७४॥

एषामेकोऽभिसंकल्पः परमाणुर्महीपते ।

बीजमाकाशवृक्षाणां सर्गाणां तेष्विमानि तु

॥७५॥

इन्द्रियाणि च पुष्पादि विषयामोदवर्ति हि ।

इच्छाभ्रमर्यो राजन्त्यो मञ्जर्यश्चञ्चलक्रियाः

॥७६॥

लोकान्तराणि स्वच्छानि गुल्मा मूलं समेरवः ।

पल्लवा नीलजलदा लता लोला दिशो दश

॥७७॥

वर्तमानानि भूतानि भविष्यन्ति च यानि तत् ।

जयन्ति तान्यसंख्यानि फलानि रघुनन्दन

॥७८॥

पञ्चबीजास्त एते हि राम पञ्चकपादपाः ।

स्वयं स्वभावाज्जायन्ते स्वयं नश्यन्ति कालतः

॥७९॥

स्वयं नानात्वमायान्ति चिरं जाड्यात्स्फुरन्ति च ।

स्वविविक्ताः शमं यान्ति तरङ्गा इव वारिधौ

॥८०॥

इतो यान्ति समुत्सेधमितो यान्ति शमं स्वयम् ।

एते जाड्यविवेकाभ्यां तरङ्गा इव तोयधौ

॥८१॥

ये विवेकवशमालयं गता

राम पञ्चकविलासराशयः ।

तेन भूय इह यान्ति संस्थितिं

प्रभ्रमन्ति जगतीतरे मुहुः

॥८२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० पञ्चकविलासो नामाशीतितमः सर्गः ।। ८०।।