मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — मुमुक्षुव्यवहारप्रकरणम् — सर्गः ११

3
योगवासिष्ठम् · मुमुक्षुव्यवहारप्रकरणम् · 11

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एतत्ते कथितं सर्व ज्ञानावतरणं भुवि ।

मया स्वमीहितं चेव कमलोद्भवचेष्टितम्

॥१॥

तदिदं परमं ज्ञानं श्रोतुमद्य तवानघ ।

भृशमुत्कण्ठितं चेतो महतः सुकृतोदयात्

॥२॥

श्रीराम उवाच ।

कथं ब्रह्मन्मगवतो लोके ज्ञानावतारणे ।

सर्गादनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः

॥३॥

श्रीवसिष्ठ उवाच ।

परमे ब्रह्मणि ब्रह्मा स्वभाववशतः स्वयम् ।

जातः स्पन्दमयो नित्यमूर्मिरम्बुनिधाविव

॥४॥

दृष्ट्वैवमातुरं सर्ग सर्गस्य सकलां गतिम् ।

भूतभव्यभविष्यस्थां दश परमेश्वरः

॥५॥

सक्रियाक्रमकालस्य कृतादेः क्षय आगते ।

मोहमालोच्य लोकानां कारुण्यमगमत्प्रभुः

॥६॥

ततो मामीश्वरः सृष्ट्वा ज्ञानेनायोज्य चासकृत् ।

विससर्ज महीपीठं लोकस्याज्ञानशान्तये

॥७॥

यथाहं प्रहितस्तेन तथान्ये च महर्षयः ।

सनत्कुमारप्रमुखा नारदाद्याश्च भूरिशः

॥८॥

क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च ।

मनोमोहामयोन्नद्धमुद्धर्तुं लोकमीरिताः

॥९॥

महर्षिभिस्ततस्तैस्तैः क्षीणे कृतयुगे पुरा ।

क्रमात्क्रियाक्रमे शुद्धे पृथिव्या तनुतां गते

॥१०॥

क्रियाक्रमविधानार्थं मर्यादानियमाय च ।

पृथग्देशविभागेन भूपालाः परिकल्पिताः

॥११॥

बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ ।

धर्मकामार्थसिद्ध्यर्थं कल्पितान्युचितान्यथ

॥१२॥

कालचक्रे वहत्यस्मिंस्ततो विगलिते क्रमे ।

प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे

॥१३॥

द्वन्द्वानि संप्रवृत्तानि विषयार्थे महीभुजाम् ।

दण्ड्यतां संप्रयातानि भूतानि भूवि भूरिशः

॥१४॥

ततो युद्ध विना भूपा मही पालयितुं क्षमाः ।

न समथोस्तदा याताः प्रजाभिः सह दैन्यताम्

॥१५॥

तेषां दैन्यापनोदार्थं सम्यग्दृष्टिक्रमाय च ।

ततोऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः

॥१६॥

अध्यात्मविद्या तेनेयं पूर्व राजसु वर्णिता ।

तदनु प्रसृता लोके राजविद्येत्युदाहृता

॥१७॥

राजविद्या राजगुह्यमध्यात्मज्ञानमुत्तमम् ।

ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः

॥१८॥

अथ राजस्वतीतेषु बहुष्वमलकीर्तिषु ।

अस्माद्दशरथाद्राम जातोऽद्य त्वमिहावनौ

॥१९॥

तव चातिप्रसन्नेऽस्मिञ्जातं मनसि पावनम् ।

निर्निमित्तमिदं चारु वैराग्यमरिमर्दन

॥२०॥

सर्वस्यैव हिं सर्वस्य साधोर्रांपे विवेकिनः ।

निमित्तपूर्वं वैराग्यं जायते राम राजसम्

॥२१॥

इदं त्वपूर्वमुत्पन्न चमत्कारकरं १------ ।

तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम्

॥२२॥

बीभत्सं विषयं दृष्ट्वा कौ नाम न विरज्यते ।

सतामुत्तमवैराग्य विवेकादेव जायते

॥२३॥

ते महान्तौ महाप्राज्ञा निमित्तेन विनैव हि ।

वैराग्यं जायते येषां तेषां ह्यमलमानसम्

॥२४॥

स्वविवेकचमत्कारपरामर्शविरक्तया ।

राजते हि धिया जन्तुर्युवेव वरमालया

॥२५॥

परामृश्य विवेकेनसंसाररचनामिमाम् ।

वैराग्यं येऽधिगच्छन्ति त एव पुरुषोत्तमाः

॥२६॥

स्वविवेकवशादेव विचार्येदं पुनःपुनः ।

इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात्

॥२७॥

श्मशानमापद दैन्यं दृष्ट्वा को न विरज्यते ।

तद्वैराग्यं परं श्रेयः स्वतो यदभिजायते

॥२८॥

अकृत्रिमविरागत्वं महत्त्वमलमागतः ।

योग्योऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम्

॥२९॥

प्रसादात्परमेशस्य नाथस्य परमात्मनः ।

त्वादृशस्य शुभा बुद्धिर्विवेकमनुधावति

॥३०॥

क्रियाक्रमेण महता तपसा नियमेन च ।

दानेन तीर्थयात्राभिश्चिरकालं विवेकतः

॥३१॥

दुष्कृते क्षयमापन्ने परमार्थविचारणे ।

काकतालीययोगेन बुद्धिर्जन्तोः प्रवर्तते

॥३२॥

क्रियापरास्तावदलं चक्रावर्तिभिरावृताः ।

भ्रमन्तीह जना यावन्न पश्यन्ति परं पदम्

॥३३॥

यथाभूतमिदं दृष्ट्वा संसारं तन्मयीं धियम् ।

परित्यज्य परं यान्ति निरालाना गजा इव

॥३४॥

विषमेयमनन्तेह राम संसारसंसृतिः ।

देहयुक्तो महाजन्तुर्विना ज्ञानं न पश्यति

॥३५॥

ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् ।

महाधियः समुत्तीर्णा निमेषेण रघूद्वह

॥३६॥

तामिमां ज्ञानयुक्तिं त्वं संसाराम्भोधितारिणीम् ।

शृणुष्वावहितो बुद्ध्या नित्यावहितया तया

॥३७॥

यस्मादनन्तसंरम्भा जागत्यो दुःखभीतयः ।

चिरायान्तर्दहन्त्येता विना युक्तिमनिन्दिताम्

॥३८॥

शीतवातातपादीनि द्वन्द्वदुःखानि राघव ।

ज्ञानशक्तिं विना केन सह्यतां यान्ति साधुषु

॥३९॥

आपतन्ति प्रतिपदं यथाकालं दहन्ति च ।

दुःखचिन्ता नरं मूढं तृणमग्निशिखा इव

॥४०॥

प्राज्ञं विज्ञातविज्ञेयं सम्यग्दर्शनमाधयः ।

न दहन्ति वनं वर्षासिक्तमग्निशिखा इव

॥४१॥

आधिव्याधिपरावर्ते संसारमरुमारुते ।

क्षुभितेऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत्

॥४२॥

तत्त्वं ज्ञातुमतो यत्नाद्धीमानेव हि धीमता ।

प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितम्

॥४३॥

प्रामाणिकस्य पृष्टस्य वक्तुरुत्तमचेतसः ।

यत्नेन वचनं ग्राह्यमंशुकेनेव कुङ्कुमम्

॥४४॥

अतत्त्वज्ञमनादेयवचनं वाग्विदां वर ।

यः पृच्छति नरं तस्मान्नास्ति मूढतरोऽपरः

॥४५॥

प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः ।

नानुतिष्ठति यो वाक्य नान्यस्तस्मान्नराधमः

॥४६॥

अज्ञतातज्ज्ञते पूर्व वक्तुर्निर्णीय कार्यतः ।

यः करति नरः प्रश्नं प्रच्छकः स महामतिः

॥४७॥

अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः ।

अधम प्रच्छकः स स्यान्न महार्थस्य भाजनम्

॥४८॥

पूर्वापरसमाधानक्षमबुद्धावनिन्दिते ।

पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि

॥४९॥

प्रामाणिकार्थयोग्यत्वं प्रच्छकस्याविचार्य च ।

यो वक्ति तमिह प्राज्ञाः प्राहुर्मूढतरं नरम्

॥५०॥

त्वमतीव गुणश्लाघी प्रच्छको रघुनन्दन ।

अहं च वक्तुं जानामि समो योगोऽयमावयों'

॥५१॥

यदहं वच्मि तद्यत्नात्त्वया शब्दार्थकोविद ।

एतद्वस्त्विति निर्णीय हृदि कार्यमखण्डितम्

॥५२॥

महानसि विरक्तोऽसि तत्त्वज्ञोऽसि जनस्थितौ ।

त्वयि चोक्तं लगत्यन्तः कुङ्कुमाम्बु यथांशुके

॥५३॥

उक्तावधानपरमा परमार्थविवेचिनी ।

विशत्यर्थं तव प्रज्ञा जलमध्यमिवार्कभाः

॥५४॥

यद्यद्वच्मि तदादेयं हृदि कार्य प्रयत्नतः ।

नोचेत्प्रष्टव्य एवाहं न त्वयेह निरर्थकम्

॥५५॥

मनो हि चपलं राम संसारवनमर्कटम् ।

संशोध्य हृदि यत्नेन श्रोतव्या परमार्थगीः

॥५६॥

अविवेकिनमज्ञानमसज्जनरतिं जनम् ।

चिरं दूरतरे कृत्वा पूजनीया हि साधवः

॥५७॥

नित्यं सज्जनसंपर्काद्विवेक उपजायते ।

विवेकपादपस्यैव भोगमोक्षौ फले स्मृतौ

॥५८॥

मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः ।

शमो विचारः संतोषश्चतुर्थः साधुसंगमः

॥५९॥

एते सेव्याः प्रयत्नेन चत्वारौ द्वौ त्रयोऽथवा ।

द्वारमुद्धाटयन्त्येते मोक्षराजगृहे तथा

॥६०॥

एकं वा सर्वयत्नेन प्राणांस्त्यक्त्वा समाश्रयेत् ।

एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं यतः

॥६१॥

सविवेको हि शास्त्रस्य ज्ञानस्य तपसः श्रुतेः ।

भाजनं भूषणाकारो भास्करस्तेजसामिव

॥६२॥

घनतषपयातं हि प्रज्ञामान्द्यमचेतसाम् ।

याति स्थावरतामम्बु जाड्यात्पाषाणतामिव

॥६३॥

त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः ।

विकासितान्तःकरणः स्थितः पद्म इवोदये

॥६४॥

इमां ज्ञानगिरं श्रोतुमवबोद्धं च सन्मते ।

अर्हस्युद्धतकर्णस्त्वं जन्तुर्वीणास्वनं यथा

॥६५॥

वैराग्याभ्यासयोगेन समसौजन्यसंपदाम् ।

अर्जनां कुरुतां राम यत्र नाशो न विद्यते

॥६६॥

शास्त्रसज्जनसंसर्गपूर्वकैः सतपोदमैः ।

आदौ संसारमुऽक्त्यर्थ प्रज्ञामेवाभिवर्धयेत्

॥६७॥

एतदेवास्य मौर्यस्य परमं विद्धि नाशनम् ।

यदिदं प्रेक्ष्यते शास्त्रं किंचित्संस्कृतया धिया

॥६८॥

संसारविषवृक्षोऽयमेकमास्पदमापदाम् ।

अज्ञं संमोहयेन्नित्यं मौर्ख्य यत्नेन नाशयेत्

॥६९॥

दुराशासर्पगत्येन मौर्ख्येण हृदि वल्गता ।

चेतः संकोचमायाति चर्माग्नाविव योजितम्

॥७०॥

प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति ।

दृगिवेन्दौ निरम्भोदे सकलामलमण्डले

॥७१॥

पूर्यापविचारार्थश्चास्त्वातुर्यशालिनी ।

सविकासा मतिर्यस्य स पुमानिह कथ्यते

॥७२॥

विकसितेन सितेन तमोमुचा

वरविचारणशीतलरोचिषा ।

गुणवता हृदयेन विराजसे

त्वममलेन नभः शशिना यथा

॥७३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे वकृप्रच्छकलक्षणं नामैकादशः सर्गः ।। ११ ।।