मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः १७

3
योगवासिष्ठम् · उपशमप्रकरणम् · 17

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

विदेहमुक्ता ये राम ते गिरामिह गोचरे ।

नैव तिष्ठन्ति तस्मात्त्वं जीवन्मुक्तिमिमां श्रृणु

॥१॥

प्राकृतान्येव कर्माणि यया वर्जितवाञ्छया ।

क्रियन्ते तृष्णयेमानि तां जीवन्मुक्ततां विदुः

॥२॥

या स्थितिस्तृष्णया जन्तोर्बाह्यार्थे बद्धभावया ।

तं बन्धमाहुराचार्याः संसारनिगडं दृढम्

॥३॥

नूनमुज्झितसंकल्पा हृदि बाह्ये विहारिणी ।

वासना योदिता सेह जीवन्मुक्तशरीरिणी

॥४॥

बाह्यार्थव्यसनोच्छूना तृष्णा बद्धेति राघव ।

सर्वार्थव्यसनोन्मुक्ता तृष्णा मुक्तेति कथ्यते

॥५॥

पूर्वं यस्यास्तु तृष्णाया वर्तमानेऽपि शाश्वती ।

निर्दुःखता निष्कलता सा मुक्तेति बुधैः स्मृता

॥६॥

इदमस्तु ममेत्यन्तर्यैषा राघव भावना ।

तां तृष्णां शृङ्खलां विद्धि कलनां च महामते

॥७॥

तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा ।

संत्यज्य परमोदारः परमेति महामनाः

॥८॥

बन्धाशामथ मोक्षाशां सुखदुःखदशामपि ।

त्यक्त्वा सदसदाशां च तिष्ठाक्षुब्धमहाब्धिवत्

॥९॥

अजरामरमात्मानं दृष्ट्वा बुद्धिमतां वर ।

जरामरणशङ्काभिर्मा मनः कलुषं कृथाः

॥१०॥

पदार्थतत्त्वं नेदं ते नायं त्वमसि राघव ।

किंचित्तदन्यदेवेदमन्य एवासि राघव

॥११॥

असदभ्युदिते विश्वे सतीवासति संस्थिते ।

त्वयि तत्तामतिगते तृष्णायाः संभवः कुतः

॥१२॥

अन्यच्च राम मनसि पुरुषस्य विचारिणः ।

जायते निश्चयः साधो स्फाराकारश्चतुर्विधः

॥१३॥

आपादमस्तकमहं मातापितृविनिर्मितः ।

इत्येको निश्चयो राम बन्धायासद्विलोकनात्

॥१४॥

अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः ।

इति द्वितीयो मोक्षाय निश्चयो जायते सताम्

॥१५॥

जगज्जालपदार्थात्मा सर्वमेवाहमक्षयः ।

तृतीयो निश्चयश्चेत्थं मोक्षायैव रघूद्वह

॥१६॥

अहं जगद्वा सकलं शून्यं व्योमसमं सदा ।

एवमेष चतुर्थोऽन्यो निश्चयो मोक्षसिद्धये

॥१७॥

निश्चयेषु चतुर्ष्वेषु बन्धाय प्रथमः स्मृतः ।

त्रयो मोक्षाय कथिताः शुद्धभावनयोत्थिताः

॥१८॥

एतेषां प्रथमः प्रोक्तस्तृष्णाया बन्धयोग्यता ।

शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्तविलासिनः

॥१९॥

सर्वमात्माहमेवेति निश्चयो यो महामते ।

तमादाय विषादाय न भूयो याति मे मतिः

॥२०॥

तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमात्मनः ।

सर्वमात्मेति तेनान्तर्निश्चयेन न बध्यते

॥२१॥

शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि ।

शिवः पुरुष ईशानो नित्य आत्मैव कथ्यते

॥२२॥

सदा सर्वं सदेवेदं नेह द्वित्वान्यते क्वचित् ।

विद्येते विद्यया व्याप्तं जगन्नेतरया धिया

॥२३॥

आपातालमनन्तात्मा पूरितोऽम्भोधिरम्बुभिः ।

आब्रह्मस्तम्बपर्यन्तं जगदापूर्णमात्मना

॥२४॥

अतः सत्यमृतं नित्यं नानृतं विद्यते क्वचित् ।

वार्येव सकलाम्भोधिर्न तरङ्गादयः क्वचित्

॥२५॥

पृथक्कटककेयूरनूपुरादि नकाञ्चनात् ।

भिन्नास्तरुतृणाकारकोटयश्चैव नात्मनः

॥२६॥

द्वैताद्वैतसमुद्भेदैर्जगन्निर्माणलीलया ।

परमात्ममयी शक्तिरद्वैतैव विजृम्भते

॥२७॥

आत्मीये परकीये च सर्वस्मिन्नेव सर्वदा ।

नष्टे वोपचिते कार्ये सुखदुःखे गृहाण मा

॥२८॥

भावाद्वैतमुपाश्रित्य सत्ताद्वैतमयात्मकः ।

कर्माद्वैतमनादृत्य द्वैताद्वैतमयो भव

॥२९॥

भवभूमिषु भीमासु भावभावनवात्यया ।

मा पतोत्पातपूर्णासु दरीष्वन्तः करी यथा

॥३०॥

द्वैतं न संभवति चित्तमयं महात्म-

न्नात्मन्यथैक्यमपि न द्वितयोदितात्म ।

अद्वैतमैक्यरहितं सततोदितं स-

त्सर्वं न किंचिदपि चाहुरतः स्वरूपम्

॥३१॥

नैवाहमस्ति नच नाम जगन्ति सन्ति

सर्वं च विद्यत इदं ननु निर्विकारम् ।

विज्ञानमात्रमवभासत एव शान्तं

नासन्न सज्जगदिदं च सदेति विद्धि

॥३२॥

परममृतमनाद्यं भासनं सर्वभासा-

मजरमजमचिन्त्यं निष्कलं निर्विकारम् ।

विगतकरणजालं जीवनं जीवशक्तेः

सकलकलनहीनं कारणं कारणानाम्

॥३३॥

सततमुदितमीशं व्यातते चित्प्रकाशे

स्थितमनुभवबीजं स्वात्मभावोपदेश्यम् ।

स्वदनमनुचितोऽन्तर्ब्रह्म सर्वं सदैव

त्वमहमपि जगच्चेत्यस्तुते निश्चयोन्तः

॥३४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये उपशमप्रकरणे तृष्णाविच्छेदोपदेशो नाम सप्तदशः सर्गः ।। १७ ।।