मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 6

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

विद्याधर उवाच ।

यदुदारमनायासं क्षयातिशयवर्जितम् ।

पदं पावनमाद्यन्तरहितं तद्वदाशु मे

॥१॥

एतावन्तमहं कालं सुप्त आसं जडात्मकः ।

इदानीं संप्रबुद्धोऽस्मि प्रसादादात्मनो मुने

॥२॥

मनो महामयोत्तप्तं क्षुब्धमज्ञानवृत्तिषु ।

मामुद्धर दुरन्तेहं मोहादहमिति स्थितात्

॥३॥

श्रीमत्यपि पतन्त्याशु शातनाः कातरादयः ।

गुणवत्युग्रपत्रेऽपि तुहिनानीव पङ्कजे

॥४॥

जायन्ते च म्रियन्ते च केवलं जीर्णजन्तवः ।

न धर्माय न मोक्षाय मशका इव पङ्कजे

॥५॥

भावैस्तैरेव तैरेव तुच्छालम्भविडम्बनैः ।

चिरेण परिखिन्नाः स्मो विप्रलम्भाः पुनः पुनः

॥६॥

नान्तोऽस्त्यस्य न च स्थैर्यावस्थाऽविश्रान्तमानसम् ।

भ्रमतो भोगभङ्गेषु मरुभूमिष्विवाध्वनः

॥७॥

आपातमधुरारम्भा भङ्गुरा भवहेतवः ।

अचिरेण विकारिण्यो भीषणा भोगभूमयः

॥८॥

मानावमानपरया दुरहंकारकान्तया ।

न रमे वामया तात हतविद्याधरश्रिया

॥९॥

दृष्टाश्चैत्ररथोद्यानभुवः कुसुमकोमलाः ।

कल्पवृक्षलतादत्तसमस्तविभवश्रियः

॥१०॥

विहृतं मेरुकुञ्जेषु विद्याधरपुरेषु च ।

विमानवरमालासु वातस्कन्धस्थलीषु च

॥११॥

विश्रान्तं सुरसेनासु कान्ताभुजलतासु च ।

हारिहारविलासासु लोकपालपुरीषु च

॥१२॥

न किंचिदुचितं साधु सर्वमाधिविषोष्मणा ।

दग्धं भस्मायते तात विज्ञातमधुना मया

॥१३॥

रूपालोकनलोलेन वनिताननगृध्नुना ।

सावभासेन दोषाय दुःखं नीतोस्मि चक्षुषा

॥१४॥

इदं गुणावहं नेदमिति मुक्त्वा विकल्पनम् ।

रूपमात्रानुसारित्वादवस्तुन्यपि धावति

॥१५॥

तावदायाति विरतिं न वशं यावदापदाम् ।

नानाबन्धपरं चेतः परानर्थेहितोन्मुखम्

॥१६॥

घ्राणमेतदनर्थाय धावच्चैवामितः स्फुटम् ।

न निवारयितुं तात शक्नोमीह हयं यथा

॥१७॥

गन्धोदकप्रणालेन मुखश्वासानुपातिना ।

वैरिणेवातिदोषेण घ्राणेनास्मि नियोजितः

॥१८॥

चिरं रसनया चाहमनया नयहीनया ।

गजगोमायुगुप्तेषु दुःखाद्रिष्वलमाहतः

॥१९॥

निरोद्धुं न च शक्नोमि स्पर्शलम्पटतां त्वचः ।

ग्रीष्मकालसमिद्धस्य तापमंशुमतो यथा

॥२०॥

शुभशव्दरसार्थिन्यो मुनेः श्रवणशक्तयः ।

मां योजयन्ति विषमे तृणेच्छा हरिणं यथा

॥२१॥

प्रणताः प्रियकारिण्यः प्रह्वभृत्यसमीरिताः ।

वाद्यगेयरवोन्मिश्राः शुभशब्दश्रियः श्रुताः

॥२२॥

श्रियः स्त्रियो दिशश्चैव तटाश्चाम्भोधिभूभृताम् ।

दृष्टा विभवहारिण्यः प्रक्वणन्मणिभूषणाः

॥२३॥

चिरमास्वादिताः स्वादु चमत्कारमनोरमाः ।

प्रह्वकान्ताजनानीताः षड्रसा गुणशालिनः

॥२४॥

कौशेयकामिनीहारकुसुमास्तरणानिलाः ।

निर्विघ्नमभितः स्पृष्टा भृशमाभोगभूमिषु

॥२५॥

वधूमुखौषधीपुष्पसमालम्भनभूमयः ।

अनुभूता मुने गन्धा मन्दानिलसमीरिताः

॥२६॥

श्रुतं स्पृष्टं तथा दृष्टं भुक्तं घ्रातं पुनः पुनः ।

संशुष्कविरसं भूयः किं भजामि वदाशु मे

॥२७॥

भुक्त्वा वर्षसहस्राणि दुर्भोगपटलीमिमाम् ।

आब्रह्मस्तम्बपर्यन्तं न तृप्तिरुपजायते

॥२८॥

साम्राज्यं सुचिरं कृत्वा तथा भुक्त्वा वधूगणम् ।

भंक्त्वा परबलान्युच्चैः किमपूर्वमवाप्यते

॥२९॥

येषां विनाशनं नासीद्यैर्भुक्तं भुवनत्रयम् ।

तेऽपि तेऽप्यचिरेणैव समं भस्मपदं गताः

॥३०॥

प्राप्तेन येन नो भूयः प्राप्तव्यमवशिष्यते ।

तत्प्राप्तौ यत्नमातिष्ठेत्कष्टयापि हि चेष्टया

॥३१॥

येन कान्ताश्चिरं भुक्ता भोगास्तस्येह जन्तुभिः ।

दृष्टो न कस्यचिन्मूर्ध्नि तरुर्व्योमप्लवश्च वा

॥३२॥

चिरमासु दुरन्तासु विषयारण्यराजिषु ।

इन्द्रियैर्विप्रलब्धोऽस्मि धूर्तबालैरिवार्भकः

॥३३॥

अद्य त्वेते परिज्ञाता मया स्वविषयारयः ।

कष्टा इन्द्रियनामानो वञ्चयित्वा तु मां पुनः

॥३४॥

संसारजङ्गले शून्ये दग्धं नरमृगं शठाः ।

आश्वास्याश्वास्य निघ्नन्ति विषयेन्द्रियलुब्धकाः

॥३५॥

विषमाशीविषैरेभिर्विषयेन्द्रियपन्नगैः ।

येन दग्धा न दृष्टास्ते द्वित्रा एव जगत्यपि

॥३६॥

भोगभीमेभवलितां तृष्णातरलवागुराम् ।

लोभोग्रकरवालाढ्यां कोपकुन्तकुलाङ्किताम्

॥३७॥

द्वन्द्वजालरथव्याप्तामहंकारानुपालिताम् ।

चेष्टातुरंगमाकीर्णां कामकोलाहलाकुलाम्

॥३८॥

शरीरसीमान्तगतां दुरिन्द्रियपताकिनीम् ।

ये जेतुमुत्थितास्तात त एवेह हि सद्भटाः

॥३९॥

सुसाध्यः करटोद्भेदो मत्तैरावणदन्तिनः ।

नोत्पथप्रतिपन्नानां स्वेन्द्रियाणां विनिग्रहः

॥४०॥

पौरुषस्य महत्त्वस्य सत्त्वस्य महतः श्रियः ।

इन्द्रियाक्रमणं साधो सीमान्तो महतामपि

॥४१॥

तावदुत्तमतामेति पुमानपि दिवौकसाम् ।

कृपणैरिन्द्रियैर्यावत्तृणवन्नापकृष्यते

॥४२॥

जितेन्द्रिया महासत्त्वा ये त एव नरा भुवि ।

शेषानहमिमान्मन्ये मांसयन्त्रगणांश्चलान्

॥४३॥

मनःसेनापतेः सेनामिमामिन्द्रियपञ्चकम् ।

जेतुं चेदस्ति मे यत्नो जयामि तदलं मुने

॥४४॥

इन्द्रियोत्तमरोगाणां भोगाशावर्जनादृते ।

नौषधानि न तीर्थानि न च मन्त्राश्च शान्तये

॥४५॥

नीतोऽस्मि परमं खेदमभिधावद्भिरिन्द्रियैः ।

एक एव महारण्ये तस्करैः पथिको यथा

॥४६॥

पङ्कवन्त्यप्रसन्नानि महादौर्भाग्यवन्ति च ।

गन्धिशैवलतुच्छानि पल्वलानीन्द्रियाणि च

॥४७॥

दुरतिक्रमणीयानि नीहारगहनानि च ।

जनितातङ्कजालानि जङ्गलानीन्द्रियाणि च

॥४८॥

पङ्कजानि सरन्ध्राणि सुदुर्लक्ष्यगुणानि च ।

ग्रन्थिमन्ति जडाङ्गानि मृणालानीन्द्रियाणि च

॥४९॥

रूक्षाणि रत्नलुब्धानि कल्लोलवलितानि च ।

दुर्ग्रहग्राहघोराणि क्षाराम्बूनीन्द्रियाणि च

॥५०॥

बान्धवोद्वेगदायीनि देहान्तरकराणि च ।

करुणाक्रन्दकारीणि मरणानीन्द्रियाणि च

॥५१॥

अविवेकिष्वमित्राणि मित्राणि च विवेकिषु ।

गहनानन्तशून्यानि काननानीन्द्रियाणि च

॥५२॥

घनास्फोटान्यसाराणि मलिनानि जडानि च ।

विद्युत्प्रकाशान्येतानि भीमाभ्राणीन्द्रियाणि च

॥५३॥

क्षुद्रप्राणिगृहीतानि वर्जितानि कृतात्मभिः ।

रजस्तमोभिभूतानि स्वेन्द्रियाण्यवटानि च

॥५४॥

पातनैकान्तदक्षाणि दोषाशीविषवन्ति च ।

रूक्षकण्टकलक्षाणि श्वभ्राग्राणीन्द्रियाणि च

॥५५॥

आत्मंभरीण्यनार्याणि साहसैकरतानि च ।

अन्धकारविहारीणि रक्षांसि स्वेन्द्रियाणि च

॥५६॥

अन्तःशून्यान्यसाराणि वक्राणि ग्रन्थिमन्ति च ।

दहनैकार्थयोग्यानि दुर्दारूणीन्द्रियाणि च

॥५७॥

घनमोहप्रबन्धीनि दुष्कूपगहनानि च ।

महावकरतुच्छानि कुपुराणीन्द्रियाणि च

॥५८॥

अनन्तेषु पदार्थेषु कारणानि घटादिषु ।

संभ्रमाणि सपङ्कानि चक्रकाणीन्द्रियाणि च

॥५९॥

आपन्निमग्नमिममेवमकिंचनं त्वं

मामुद्धरोद्धरणशील दयोदयेन ।

ये नाम केचन जगत्सु जयन्ति सन्त-

स्तत्संगमं परमशोकहरं वदन्ति

॥६०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० विद्याधरोपाख्याने वैराग्यवर्णनं नाम षष्ठः सर्गः ।। ६ ।।