मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ४७

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 47

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एतस्मिन्वर्तमाने तु घोरे समरसंगमे ।

लीलाद्वयमुवाचेदं ज्ञप्तिं भगवतीं पुनः

॥१॥

लीलाद्वयमुवाच ।

देवि कस्मादकस्मान्नौ भर्ता जयति नौ रणे ।

वद त्वय्यपि तुष्टायामस्मिन्विद्रुतवारणे

॥२॥

श्रीसरस्वत्युवाच ।

चिरमाराधितानेन विदूरथनृपारिणा ।

अहं पुत्रि जयार्थेन न विदूरथभूभृता

॥३॥

तेनासावेव जयति जीयते च विदूरथः ।

ज्ञप्तिरन्तर्गता संविदेतां मां यो यदा यथा

॥४॥

प्रेरयत्याशु तत्तस्य तदा संपादयाम्यहम् ।

यो यथा प्रेरयति मां तस्य तिष्ठामि तत्फला

॥५॥

न स्वभावोऽन्यतां धत्ते वह्नेरौष्ण्यमिवैष मे ।

अनेन मुक्त एव स्यामहमित्यस्मि भाविता

॥६॥

प्रतिभारूपिणी तेन बाले मुक्तो भविष्यति ।

एतदीयः स्वयं शत्रुः सिन्धुर्नाम महीपतिः

॥७॥

जयाम्यहं स्यां संग्राम इत्यनेनास्मि पूजिता ।

तस्माद्विदूरथो देहं तत्प्राप्य सह भार्यया

॥८॥

त्वयानया च कालेन बाले मुक्तो भविष्यति ।

एतदीयः स्वयं शत्रुः सिन्धुर्नाम महीपतिः

॥९॥

हत्वैनं वसुधापीठे जयी राज्यं करिष्यति ।

श्रीवसिष्ठ उवाच ।

एवं देव्यां वदन्त्या तु बलयोर्युध्यमानयोः

॥१०॥

रविर्द्रष्टुमिवाश्चर्यमाजगामोदयाचलम् ।

चेलुस्तिमिरसंघाता बलानीवारिरूपिणः

॥११॥

असृजन्जीवसङ्घान्ये संध्यायां तारका इव ।

शनैः प्रकटतां जग्मुर्नीलाकाशाद्रिभूमयः

॥१२॥

भुवनं कज्जलाम्भोधेरिवोत्क्षिप्तमराजत ।

पेतुः कनकनिःस्यन्दसुन्दरा रविरश्मयः

॥१३॥

शैलेषु वरवीरेषु रणे रक्तच्छटा इव ।

अदृश्यत ततो व्योम तथा रणमहीतलम्

॥१४॥

बाहुभिर्भ्रान्तभुजगं प्रभाभिः कीर्णकाञ्चनम् ।

कुण्डलैः कीर्णरत्नौघं शिरोभिर्दृष्टपङ्कजम्

॥१५॥

आयुधैः खड्गनीरन्ध्रं शरैः शलभनिर्भरम् ।

रक्ताभास्थिरसंध्याढ्यं ससिद्धपुरुषं शवैः

॥१६॥

हारैः ससर्पनिर्मोकं कटैरिद्धं सुसंकुलम् ।

लसल्लतं पताकाभिरुरुभिः कृततोरणम्

॥१७॥

हस्तैः पादैः पल्लवितं शरैः शरवणोपमम् ।

शस्त्रांशुशाद्वलश्यामं शस्त्रपूरैः सकैतकम्

॥१८॥

कीर्णमायुधमालाभिरुन्मत्तमिव भैरवम् ।

फुल्लाशोकवनाकारं शस्त्रसंघट्टवह्निभिः

॥१९॥

उदघुंघुमहाशब्दैर्विद्रवत्सिद्धनायकैः ।

सौवर्णनगराकारं बालार्ककचितायुधैः

॥२०॥

प्रासासिशक्तिचक्रर्ष्टिमुद्गरारणिताम्बरम् ।

वहद्रक्तनदीरंहः प्रोह्यमानशवोत्करम्

॥२१॥

भुशुण्डीशक्तिकुन्तासिशूलपाषाणसंकुलम् ।

शूलशस्त्राहतिच्छन्नकबन्धपतनान्वितम्

॥२२॥

कालताण्डववेतालकुलारब्धहलारवम् ।

शून्ये रणाङ्गणे दीप्तौ पद्मसिन्ध्वो रथौ चलौ

॥२३॥

अदृश्येतां नभश्चिह्नौ चन्द्रसूर्यौ दिवीव तौ ।

चक्रशूलभुशुण्ड्यृष्टिप्रासायुधसमाकुला

॥२४॥

सहस्रेण सहस्रेण वीराणां परिवारितौ ।

विचरन्तौ यथाकामं मण्डलैर्विततारवैः

॥२५॥

सचीत्कारमहाचक्रपिष्टानेकमृतामृतौ ।

तरन्तौ रक्तसरितौ मत्तवारणलीलया

॥२६॥

केशशैवलसंपन्ने चक्रचक्रजलेन्दुके ।

वहच्चक्राहतिक्षोभपातिताकुलवारणौ

॥२७॥

मणिमुक्ताझणत्काररणत्कूबरकारवौ ।

वाताहतपताकाग्रपटत्पटपटारवौ

॥२८॥

अनुयातौ महावीरैर्भूरिमिर्भीरुसैनिकैः ।

धारा वमद्भिः कुन्तानां शराणां धनुषामपि

॥२९॥

शक्तीनां प्रासशङ्कूनां चक्राणां कचतां रणे ।

तत्र तौ क्षणमावृत्ये मण्डले भूमिकुण्डले

॥३०॥

उभौ व्यतिबभूवाते संमुखावायुधावुभौ ।

नाराचधारानिकरविक्षेपकरकध्वनौ

॥३१॥

अन्योन्यमपि गर्जन्तौ मत्ताब्धिजलदाविव ।

तयोः प्रहरतोर्बाणा वसुधानरसिंहयोः

॥३२॥

पाषाणमुसलाकारा व्योमविस्तारिणोऽभवन् ।

करवालमुखाः केचिन्मुद्गराननकाः परे

॥३३॥

शितचक्रमुखाः केचित्केचित्परशुवक्त्रकाः ।

केचिच्छक्तिमुखाः केचित्केचिच्छूलशिलामुखाः ।

त्रिशूलवदनाः केचित्स्थूला इव महाशिलाः

॥३४॥

प्रलयपवनपातिताः शिलौघा

इव निपतन्ति शिलीमुखास्तदा स्म ।

प्रमिलितमभवत्तयोस्तदानीं

प्रलयविजृम्भितसिन्धुसंभ्रमेण

॥३५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ली० विदूरथसिन्धुसमागमो नाम सप्तचत्वारिंशः सर्गः ।। ४७ ।।