मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ५७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 57

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीभगवानुवाच ।

इदं विद्धि महाश्चर्यमर्जुनेह हि यत्किल ।

पूर्वं संजायते चित्रं पश्चाद्भित्तिरुदेति हि

॥१॥

अभित्तावुत्थिते चित्रे दृश्यते भित्तिरातता ।

अहो विचित्रा मायेयं मग्नं तुम्बं शिला प्लुता

॥२॥

चित्तस्थचित्रसदृशे व्योमात्मनि जगत्त्रये ।

व्योमात्मनस्ते किमियमहन्ताव्योमतोदिता

॥३॥

सर्वं व्योमकृतं व्योम्ना व्योम्नि व्योम विलीयते ।

भुज्यते व्योमनि व्योम व्योम व्योमनि चाततम्

॥४॥

वेष्टितं वासनारज्ज्वा दीर्घसंसृति दामवत् ।

वासनोद्वेष्टनेनैव तदिहोद्वेष्ट्यतेऽर्जुन

॥५॥

प्रतिबिम्बं यथादर्शे तथेदं ब्रह्मणि स्वयम् ।

अगम्यं छेदभेदादेराधारानन्यतावशात्

॥६॥

अनन्यच्छेदभेदादि ब्रह्मणि ब्रह्मणाम्बरम् ।

किं कथं कस्य केनैव च्छिद्यते वा क्व भिद्यते

॥७॥

तेनेह वासनाभावो बोधात्संपन्न एव ते ।

यो न निर्वासनो नूनं सर्वधर्मपरोऽपि सन्

॥८॥

सर्वज्ञोऽप्यतिबद्धात्मा पञ्जरस्थो यथा हरिः ।

यस्यास्ति वासनाबीजमत्यल्पं चितिभूमिगम्

॥९॥

बृहत्संजायते तस्य पुनः संसृतिकाननम् ।

अभ्यासाद्धृदि रूढेन सत्यसंबोधवह्निना ।

निर्दग्धं वासनाबीजं न भूयः परिरोहति

॥१०॥

दग्धं तु वासनाबीजं न निमज्जति वस्तुषु ।

सुखदुःखादिषु स्वच्छं पद्मपत्रमिवाम्भसि

॥११॥

शान्तात्मा विगतभयोज्झितामिताशो

निर्वाणो गलितमहामनोविमोहः ।

सम्यक्त्वं श्रुतमवगम्य पावनं त-

त्तिष्ठात्मन्यपहतिरेकशान्तिरूपः

॥१२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने अर्जुनविश्रान्तिवर्णनं नाम सप्तपञ्चाशः सर्गः ।।५७।।