मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ९१

3
योगवासिष्ठम् · उपशमप्रकरणम् · 91

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

परमाकाशकोशाद्रिरूढलोकान्तरद्रुमम् ।

तारकापुष्पशबलं देवासुरविहंगमम्

॥१॥

विद्युन्मञ्जरितोपान्तनीलनीरदपल्लवम् ।

सर्वर्तुरम्यचन्द्रार्कगणरम्यकदन्तुरम्

॥२॥

सप्ताब्धिवापीवलितं सरिच्छतमनोहरम् ।

चतुर्दशविधानन्तभूतजातोपजीवितम्

॥३॥

जगत्काननमाक्रम्य स्थितायाः कृतजालकम् ।

ब्रह्मन्संसृतिमृद्वीकालताया वितताकृतेः

॥४॥

जरामरणपर्वायाः सुखदुःखफलावलेः ।

आरूढमूलमालाया मोहसेकजलाञ्जलेः

॥५॥

किं बीजमथ बीजस्य तस्य किं बीजमुच्यते ।

अथ तस्यापि किं बीजं बीजं तस्यापि किं भवेत्

॥६॥

सर्वमेतत्समासेन पुनर्बोधविवृद्धये ।

सिद्धये ज्ञानसारस्य वद मे वदतांवर

॥७॥

श्रीवसिष्ठ उवाच ।

अन्तर्लीनघनारम्भशुभाशुभमहाङ्कुरम् ।

संसृतिव्रततेर्बीजं शरीरं विद्धि राघव

॥८॥

शाखाप्रतानगहना फलपल्लवशालिनी ।

तेनेयं भवति स्फीता शरदीव वसुन्धरा

॥९॥

भावाभावदशाकोशं दुःखरत्नसमुद्गकम् ।

बीजमस्य शरीरस्य चित्तमाशावशानुगम्

॥१०॥

चित्तादिदमुदेत्युच्चैः सदसच्चाङ्गजालकम् ।

तथा चैतत्स्वयं स्वप्नसंभ्रमेष्वनुभूयते

॥११॥

यथा गन्धर्वसंकल्पात्पुरमेवं हि चेतसः ।

सवातायनमाकारभासुरं जायते वपुः

॥१२॥

यदिदं किंचिदाभोगि जागतं दृश्यतां गतम् ।

रूपं तच्चेतसः स्फारं घटादित्वं मृदो यथा

॥१३॥

द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः ।

एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना

॥१४॥

यदा प्रस्पन्दते प्राणो नाडीसंस्पर्शनोद्यतः ।

तदा संवेदनमयं चित्तमाशु प्रजायते

॥१५॥

यदा न स्पन्दते प्राणः शिरासरणिकोटरे ।

असंवित्तिवशात्तेन चित्तमन्तर्न जायते

॥१६॥

प्राणस्पन्दनमेवेदं चित्तद्वारेण दृश्यते ।

जगन्नामागतं व्योम्नि नीलत्वादिवदीदृशम्

॥१७॥

प्राणस्पन्दनसुप्ता च तच्छान्तिं शान्तिरुच्यते ।

प्राणसंस्पन्दनात्संविद्याति वीटेव चोदिता

॥१८॥

संवित्स्फुरति देहेषु प्राणस्पन्दप्रबोधिता ।

चक्रावर्तैरङ्गणेषु वीटेव करताडिता

॥१९॥

सती सर्वगता संवित्प्राणस्पन्देन बोध्यते ।

सूक्ष्मात्सूक्ष्मतराकारा गन्धलेखेव वायुना

॥२०॥

संवित्संरोधने श्रेयः परमं विद्धि राघव ।

कारणाक्रमणं यत्र क्षोभस्तत्र न विद्यते

॥२१॥

संवित्समुदितैवाशु याति संवेद्यमादरात् ।

संवेदनादनन्तानि ततो दुःखानि चेतसः

॥२२॥

संसुप्तान्तरबोधाय संवित्संतिष्ठते यदा ।

लब्धं भवति लब्धव्यं तदा तदमलं पदम्

॥२३॥

तस्मात्प्राणपरिस्पन्दैर्वासनाचोदनैस्तथा ।

नो चेत्संविदमुच्छूनां करोषि तदजो भवान्

॥२४॥

संविदुच्छूनतां चित्तं विद्धि तेनेदमाततम् ।

अनर्थजालमालूनविशीर्णजनजीवकम्

॥२५॥

योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् ।

प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः

॥२६॥

चित्तोपशान्तिफलदं परमं साम्यकारणम् ।

सुभगं संविदः स्वास्थ्यं प्राणसरोधनं विदुः

॥२७॥

ज्ञानवद्भिः प्रकटितामनुभूतां च राघव ।

चित्तस्योत्पत्तिमपरां वासनाजीवितां श्रृणु

॥२८॥

दृढभावनया त्यक्तपूर्वापरविचारणम् ।

यदादानं पदार्थस्य वासना सा प्रकीर्तिता

॥२९॥

भावितस्तीव्रसंवेगादात्मना यत्तदेव सः ।

भवत्याशु महाबाहो विगतेतरसंस्मृतिः

॥३०॥

तादृग्रूपः स पुरुषो वासनाविवशीकृतः ।

यत्पश्यति तदेतत्तत्सद्वस्त्विति विमुह्यति

॥३३॥

वासनावेगवैवश्यात्स्वरूपं प्रजहाति तत् ।

भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव

॥३२॥

असम्यग्ज्ञानवानेव भवत्याधिपरिप्लुतः ।

अन्तस्थया वासनया विषेणेव वशीकृतः

॥३३॥

असम्यग्दर्शनं यस्मादनात्मन्यात्मभावनम् ।

यदवस्तुनि वस्तुत्वं तच्चित्तं विद्धि राघव

॥३४॥

दृढाभ्यासपदार्थैकवासनादतिचञ्चलम् ।

चित्तं संजायते जन्मजरामरणकारणम्

॥३५॥

यदा न वास्यते किंचिद्धेयोपादेयरूपि यत् ।

स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते

॥३६॥

अवासनत्वात्सततं यदा न मनुते मनः ।

अमनस्ता तदोदेति परमोपशमप्रदा

॥३७॥

यदा किंचिन्न संवित्तौ स्फुरत्यभ्रमिवाम्बरे ।

तदा पद्म इवाकाशे चित्तमन्तर्न जायते

॥३८॥

यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि ।

तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते

॥३९॥

एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव ।

यद्भावनं वस्तुनोऽन्तर्वस्तुत्वेन रसेन च

॥४०॥

न किंचित्कल्पनायोग्यं दृश्यं भावयतस्ततः ।

आकाशकोशस्वच्छस्य कुतश्चित्तोदयो भवेत्

॥४१॥

यदभावनमास्थाय यदभावस्य भावनम् ।

यद्यथावस्तुदर्शित्वं तदचित्तत्वमुच्यते

॥४२॥

सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् ।

वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम्

॥४३॥

वासनाया रसाध्यानाद्रागो यस्य न विद्यते ।

तस्य चित्तमचित्तत्वं गतं सत्त्वं तदुच्यते

॥४४॥

घना न वासना यस्य पुनर्जननकारिणी ।

जीवन्मुक्तः स सत्त्वस्थश्चक्रभ्रमवदास्थितः

॥४५॥

भृष्टबीजोपमा येषां पुनर्जननवर्जिता ।

वासनारसनिर्हीना जीवन्मुक्ता हि ते स्थिताः

॥४६॥

सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः ।

अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः

॥४७॥

द्वे बीजे राम चित्तस्य प्राणस्पन्दनवासने ।

एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः

॥४८॥

मिथः कारणमेते हि बीजे जन्मनि चेतसः ।

जलाङ्गीकरणे राम जलाशयघटाविव

॥४९॥

घना न वासना यस्य पुनर्जननकारिणी ।

बीजाङ्कुरवदेते हि संस्थिते तिलतैलवत्

॥५०॥

अविनाभाविनी नित्यं कालाकाङ्क्षिक्रमे तथा ।

सर्वमुत्पादयत्येतच्चित्तकः संविदात्मकः

॥५१॥

यथाप्राणेन्द्रियानन्दमानन्दपवनावुभौ ।

चित्तस्योत्पादिके सार्धं यदैते वासने तदा

॥५२॥

आमोदपुष्पवत्तैलतिलवच्च व्यवस्थिते ।

वासनावशतः प्राणस्पन्दस्तेन च वासना

॥५३॥

जायते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ।

वासनोत्प्लवमानत्वात्संवित्प्रक्षोभकर्मणा

॥५४॥

प्राणस्पन्दं बोधयति तेन चित्तं प्रजायते ।

प्राणः स्पन्दनधर्मित्वात्स्पन्दते स्पृष्टहृद्गुणः

॥५९॥

संविदं बोधयंस्तेन चित्तबालः प्रजायते ।

एवं हि वासनाप्राणस्पन्दौ द्वौ तस्य कारणम्

॥५६॥

तयोरेकक्षये नाशो द्वयोश्चित्तस्य राघव ।

सुखदुःखमनःस्पन्द शारीरकवृहत्फलम्

॥५७॥

कार्यपल्लविताकारं कृतिव्रततिवेष्टितम् ।

तृष्णाकृष्णाहिवलितं रागरोगबकालयम्

॥५८॥

अज्ञानमूलं सुदृढं लीनेन्द्रियविहंगमम् ।

वासना क्षयमानीता चित्तवृक्षं क्षणेन हि

॥५९॥

प्रपातयति वातौघः कालपक्वफलं यथा ।

पाण्डुरीकृतसर्वाशं स्थगिताखिलदर्शनम्

॥६०॥

विलोलजलदाकारमज्ञानावकरोत्थितम् ।

तृष्णातृणलवव्याप्तं स्तम्भाकृति शरीरकम्

॥६१॥

स्फुरत्तनु तनुक्षुब्धं सुखमुत्प्लवनं प्रति ।

अन्तःस्थितमहालोकमपश्यत्प्रविलीयते

॥६२॥

पवनस्पन्दरोधाच्च राम चित्तरजः क्षणात् ।

वासनाप्राणपवनस्पन्दयोरनयोर्द्वयोः

॥६३॥

संवेद्यं बीजमित्युक्तं स्फुरतस्तौ यतस्ततः ।

हृदि संवेद्यमाप्यैव प्राणस्पन्दोऽथ वासना

॥६४॥

उदेति तस्मात्संवेद्यं कथितं बीजमेतयोः ।

संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने

॥६५॥

समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः ।

संविदं विद्धि संवेद्यं बीजं धीरतया विना

॥६६॥

न संभवति संवेद्यं तैलहीनस्तिलो यथा ।

न बहिर्नान्तरे किंचित्संवेद्यं विद्यते पृथक्

॥६७॥

संवित्स्फुरन्ती संकल्पात्संवेद्यं पश्यति स्वतः ।

स्वप्ने यथात्ममरणं तथा देशान्तरस्थितिः

॥६८॥

स्वचमत्कारयोगेन संवेद्यं संविदस्तथा ।

स्ववेदनं स्वसंकल्पात्संविदो यत्र वर्तते

॥६९॥

जगज्जालमतो भाति तदिदं रघुनन्दन ।

यथा बालस्य वेतालः स्वसंकल्पोद्भवाद्भवेत्

॥७०॥

पुरुषत्वं यथा स्थाणोः संवेद्यं संविदस्तथा ।

यथा चन्द्रार्करश्मीनां दण्डता रेणुता तथा

॥७१॥

यथा नौस्थाचलस्पन्दः संवेद्यं संविदस्तथा ।

एतन्मिथ्या हि दुर्ज्ञानं सम्यग्ज्ञानाद्विलीयते

॥७२॥

रज्ज्वामिव भुजङ्गत्वं द्वीन्दुत्वं स्वीक्षितादिव ।

शुद्धैव संवित्त्रिजगत्सवेद्यं नान्यदस्त्यलम्

॥७३॥

इत्यन्तर्निश्चयो रूढः सम्यग्ज्ञानं विदुर्बुधाः ।

पूर्वं दृष्टमदृष्टं वा यदस्याः प्रतिभासते

॥७४॥

संविदस्तत्प्रयत्नेन मार्जनीयं विजानता ।

तदमार्जनमात्रं हि महासंसारसंगतम्

॥७५॥

तत्प्रमार्जनमात्रं तु मोक्ष इत्यनुभूयते ।

संवेदनमनन्ताय दुःखाय जननात्मने

॥७६॥

असंवित्तिरजाड्यस्था सुखायाजननात्मने ।

अजडो गलितानन्दस्त्यक्तसंवेदनो भव ।

असंवेद्यप्रबुद्धात्मा यस्तु स त्वं रघूद्वह

॥७७॥

श्रीराम उवाच ।

अजडश्चाप्यसंवित्तिः कीदृशो भवति प्रभो ।

असंवित्तौ च जाड्यं तत्कथं वा विनिवर्तते

॥७८॥

श्रीवसिष्ठ उवाच ।

यः सर्वत्रानवस्थास्थो विश्रान्तास्थो न कुत्रचित् ।

जीवो न विन्दते किंचिदसंविदजडो हि सः

॥७९॥

संविद्वस्तुदृशालम्बः स यस्येह न विद्यते ।

सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि

॥८०॥

संवेद्येन हृदाकाशो मनागपि न लिप्यते ।

यस्यासावजडा संविज्जीवन्मुक्तश्च कथ्यते

॥८१॥

यदा न भाव्यते किंचिन्निर्वासनतयात्मनि ।

बालमूकादिविज्ञानमिव च स्थीयते स्थिरम्

॥८२॥

तदा जाड्यविनिर्मुक्तमच्छवेदनमाततम् ।

आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते

॥८३॥

समस्तवासनात्यागी निर्विकल्पसमाधितः ।

नीलत्वमिव खात्स्फार आनन्दः संप्रवर्तते

॥८४॥

योगिनस्तत्र तिष्ठन्ति संवेदनमसंविदः ।

तन्मयत्वादनाद्यन्तं तदप्यन्तर्विलीयते

॥८५॥

गच्छंस्तिष्ठन्स्पृशञ्जिघ्रन्नपि तेन स उच्यते ।

अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी

॥८६॥

एतां दृष्टिमवष्टभ्य कष्टया यत्नचेष्टया ।

तर दुःखाम्बुधेः पारमपारगुणसागर

॥८७॥

यथा बीजाद्बृहद्वृक्षो व्योम व्याप्नोति कालतः ।

तथैवेदं स्वसंकल्पात्संवेद्यमसदुत्थितम्

॥८८॥

यदा संकल्प्य संकल्प्य संवित्स्वं विन्दते वपुः ।

तदास्य जन्मजालस्य सैव गच्छति बीजताम्

॥८९॥

जनयित्वात्मनात्मानं मोहयित्वा पुनःपुनः ।

स्वयं मोक्षं नयत्यन्तः संवित्स्वं विद्धि राघव

॥९०॥

यदेव भावयत्येषा तदेव भवति क्षणात् ।

न भवद्भूमिकामुक्ता समायाति चिराद्वपुः

॥९१॥

देवो नासौ सुरो रक्षो यक्षः किं किन्नरो जनः ।

आत्मैवाद्यविलासिन्या जगन्नाट्यं प्रनृत्यति

॥९२॥

बद्ध्वात्मानं रुदित्वा च कोशकारकृमिर्यथा ।

चिरात्केवलतामेति स्वयं संवित्स्वभावतः

॥९३॥

जगज्जलधिजालानां संविज्जलमलं गता ।

एषैवापूर्वदिक्चक्रं स्फुरत्यद्व्यादितां गता

॥९४॥

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।

इत्यस्या वीचयः प्रोक्ताः संवित्सलिलसंततेः

॥९५॥

संविन्मात्रं जगत्सर्वं द्वितीया नास्ति कल्पना ।

इत्येव सम्यग्ज्ञानेन संविद्गच्छति नान्यताम्

॥९६॥

यदा न विन्दते किंचित्स्पन्दते न न वेपते ।

स्वात्मन्येव स्थितिं याति संविन्नो लिप्यते तदा

॥९७॥

अथास्याः संविदो राम सन्मात्रं बीजमुच्यते ।

संविन्मात्रादुदेत्येषा प्राकाश्यमिव तेजसः

॥९८॥

द्वे रूपे तत्र सत्ताया एकं नानाकृति स्थितम् ।

द्वितीयमेकरूपं तु विभागोऽयं तयोः श्रृणु

॥९९॥

घटता पटता चैव त्वत्ता मत्तेति कथ्यते ।

सत्तारूपविभागेन यत्तन्नानाकृति स्थितम्

॥१००॥

विभागं तु परित्यज्य सत्तैकात्मतया ततम् ।

सामान्येनैव सत्ताया रूपमेकमुदाहृतम्

॥१०१॥

विशेषं संपरित्यज्य सन्मात्रं यदलेपकम् ।

एकरूपं महारूपं सत्तायास्तत्पदं विदुः

॥१०२॥

रूपं नानाकृतित्वेन सत्ताया न कदाचन ।

असंवेद्यं संभवति तस्मादेतदवस्तुकम्

॥१०३॥

एकरूपं तु यद्रूपं सत्ताया विमलात्मकम् ।

न कदाचन तद्याति नाशं नापि च विस्मृतिम्

॥१०४॥

कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि ।

विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव

॥१०५॥

कालसत्ता स्वसत्ता च प्रोन्मुक्तकलना सती ।

यद्यप्युत्तमसद्रूपा तथाप्येषा न वास्तवी

॥१०६॥

विभागकलना यत्र विभिन्नपददायिनी ।

नानाताकारणं दृष्टा तत्कथं पावनं भवेत्

॥१०७॥

सत्तासामान्यमेवैकं भावयत्सकलं वपुः ।

परिपूर्णपरानन्दी तिष्ठाभरितदिग्भरः

॥१०८॥

सत्ता सामान्यमात्रस्य या कोटिः कोविदेश्वर ।

सैवास्य बीजतां याता तत एव प्रवर्तते

॥१०९॥

सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् ।

पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते

॥११०॥

सत्ता लयं याति यत्र निर्विकारं च तिष्ठति ।

भूयो नावर्तते दुःखे तत्र लब्धपदः पुमान्

॥१११॥

तद्धेतुः सर्वहेतूनां तस्य हेतुर्न विद्यते ।

संसारः सर्वसाराणां तस्मात्सारं न विद्यते

॥११२॥

तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः ।

इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः

॥११३॥

सर्वे भावा इमे तत्र स्वदन्ते साधुवारिधेः ।

षड्रसा इव जिह्वायाः प्रकटत्वं प्रयान्ति च

॥११४॥

तस्मादच्छतरस्यापि चिदाकाशस्य वै पदम् ।

सर्वेषां स्वादुजातीनामलमास्वादनं च तत्

॥११५॥

जायते वर्तते चैव वर्धते स्पृश्यतेऽथ वा ।

तिष्ठन्ति च गलन्तीह तत्राङ्ग जगतां गणाः

॥११६॥

तत्तद्गुरु गरिष्ठानां तत्तल्लघु लघीयसाम् ।

तत्तत्स्थूलं स्थविष्ठानामणीयस्तदणीयसाम्

॥११७॥

दवीयसां दविष्ठं तदन्तिकानां तदन्तिकम् ।

कनीयसां कनीयस्तत्तज्ज्येष्ठं ज्यायसामपि

॥११८॥

तेजसामपि तत्तेजस्तमसामपि तत्तमः ।

वस्तूनामपि तद्वस्तु दिशामप्यङ्ग दिक्परा

॥११९॥

तन्न किंचिच्च किंचिच्च तत्तदस्तीव नास्ति च ।

तत्तद्दृश्यमदृश्यं च तत्तदस्मि न चास्मि च

॥१२०॥

राम सर्वप्रयत्नेन तस्मिन्परमपावने ।

पदे स्थितिमुपायासि यथा कुरु तथानघ

॥१२१॥

तदमलमजरं तदात्मतत्त्वं

तदवगतावुपशान्तिमेति चेतः ।

अवगतविततैकतत्स्वरूपो

भवभयमुक्तपदोऽसि तच्चिराय

॥१२२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे संसृतिबीजविचारयोगोपदेशो नामैकनवतितमः सर्गः ९१