मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १४९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 149

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

व्याध उवाच ।

अनन्तरं मुने ब्रूहि तत्तत्त्वं जागतस्य ते ।

किं वृत्तमुरुवृत्तान्तशतनिर्वाणसंसृतेः

॥१॥

मुनिरुवाच ।

ततः श्रृणु तदा साधो तस्मिंस्तद्धृदयौजसि ।

अपूर्वं एव वृत्तान्तः को वृत्तो वृत्तसस्पृह

॥२॥

तथा मम च तत्रस्थविस्मृतात्मचमत्कृतेः ।

अभ्यवर्तत वै कालो ऋतुसंवत्सरात्मकः

॥३॥

कलत्ररञ्जितमतेर्मम वर्षाणि षोडश ।

तत्र तानि व्यतीतानि गृहस्थाश्रमतोऽमतेः

॥४॥

कदाचिच्चाजगामाथ गृहमुग्रतपा मम ।

मुनिर्मान्यो महाबोधो बुधोऽतिथितया तथा

॥५॥

सोऽत्र संपूजितस्तुष्टः सुप्तवान्भुक्तवांस्ततः ।

इदमङ्ग मया पृष्टो विमृश्य जनताक्रमम्

॥६॥

भगवन्भूरिबोधोऽसि जानासि जगतो गतीः ।

यस्माददृष्टक्रोधोऽसि सुखे गृह्णासि नो रतिम्

॥७॥

सुखदुःखान्युपायान्ति कर्मभिः कर्मशालिनाम् ।

शुभाशुभैः शरत्काले सस्यानीव फलार्थिनाम्

॥८॥

सममेवाशुभं कर्म किमिमाः सकलाः प्रजाः ।

कुर्वन्त्यासां यदा यान्ति दोषाः सर्वादयः समम्

॥९॥

दुर्भिक्षावग्रहोत्पातं सर्वादि सममेव किम् ।

जनजालस्य फलति समाना कस्य दुष्क्रिया

॥१०॥

इत्याकर्ण्य समालोक्य स्मयमान इवोन्मनाः ।

स उवाच वचो वन्द्यममृतस्यन्दसुन्दरम्

॥११॥

अन्यमुनिरुवाच ।

साधो साधु विविक्तान्तःकरणे यत्तु कारणम् ।

सद्वासद्वास्य दृश्यस्य कस्माज्जानासि कथ्यताम्

॥१२॥

संस्मरात्मानमखिलं कस्त्वं क्वेह स्थितोऽसि च ।

क्वाहं वा किमिदं दृश्यं किं सारं किंचिदेव च

॥१३॥

स्वप्नमात्रमिदं भाति किल कस्मान्न वेत्सि भो ।

अहं स्वप्ननरो यत्ते त्वं स्वप्नपुरुषोपमः

॥१४॥

अनाकारमनाख्येयमनाद्यमपकल्पनम् ।

इदं चिन्मात्रकाचस्य काचकच्यं जगत्स्थितम्

॥१५॥

रूपमीदृशमेवास्य चिन्मात्रस्यास्त्यकृत्रिमम् ।

सर्वगस्य यदेतद्यद्यत्र वेत्यस्ति तत्र तत्

॥१६॥

सकारणत्वकलनात्सर्वमस्य सकारणम् ।

अकारणत्वकलनादस्य सर्वमकारणम्

॥१७॥

आसां प्रजानां त्वस्माकं विराडात्मा स आततः ।

वयं हृदि स्थिता यस्य स चास्मच्चिद्वशादितः

॥१८॥

भविष्यत्यपरोऽन्यासां विराडात्मा स एव च ।

कारणं सुखदुःखानां भावाभावात्मकर्मणाम्

॥१९॥

विराड्धातुविकारेण विषमस्पन्दनादिना ।

तदङ्गावयवस्यास्य जनजालस्य वै समम्

॥२०॥

दुर्भिक्षावग्रहातीतमायाति शममेति वा ।

यस्माद्विराजो या सत्ता सा सर्गस्यास्य सर्गता

॥२१॥

काकतालीयवत्साधो केषुचिद्दुष्टकर्मसु ।

समं पतति दुःखादि पादपेष्वशनिर्यथा

॥२२॥

कर्मकल्पनया संवित् स्वकर्मफलभागिनी ।

कर्मकल्पनयोन्मुक्ता न कर्मफलभागिनी

॥२३॥

या या यत्र यथोदेति कल्पनाल्पाथवाधिका ।

सा सा तत्र तथैवास्ते सहेतुकमहेतुकम्

॥२४॥

नास्त्येव स्वप्नमये

कारणसहकारि कारणादिपुरे ।

तस्मात्तदनादि शिवं

चेतनमजरं परं ब्रह्म

॥२५॥

एष स्वप्नभ्रमो नाम भाति कश्चिदकारणम् ।

कश्चित्सकारणो भाति शून्यः सदसदात्मकः

॥२६॥

काकतालीयवद्भान्ति स्वप्नाः सकलसंविदः ।

ताभ्यस्तुल्योपलम्भत्वान्नान्यज्जगदिदं ततम्

॥२७॥

सकारणतया रूढमिह यत्तत्सकारणम् ।

अकारणतया रूढमिह यत्तदकारणम्

॥२८॥

कार्यकारणमयक्रमोदितं

स्वप्न एष चितिभानमात्रकं ।

जाग्रदाख्यमहतः स्वभावकं

तेन शान्तमखिलं परं विदुः

॥२९॥

सत्यकारणका भावाः के ते श्रृणु महामते ।

कारणं किं स्वभावानां किमिहाकाशकारणम्

॥३०॥

पृथ्व्यादेर्घनपिण्डत्वसर्गादेः किं च कारणम् ।

किं कारणमविद्यायाः कारणं किं स्वयंभुवः

॥३१॥

सर्गादौ कारणं किं स्याद्वायूनां तेजसां च किम् ।

किमपां वेदनामात्ररूपाणां गगनात्मकम्

॥३२॥

पिण्डग्रहे देहलाभे मृतानां किं च कारणम् ।

एवमेव प्रवर्तन्ते सर्गाः प्रथमतोऽखिलाः

॥३३॥

एवमेव प्रवर्तन्ते जगत्यावलयन्ति च ।

चक्रकाणीव नभसि चिरसंप्रेक्षणादृशा

॥३४॥

एवमेव प्रवृत्तेन सर्गेण ब्रह्मरूपिणा ।

पश्चात्स्वस्यैव रूपस्य संज्ञाः पृथ्व्यादिकाः कृताः

॥३५॥

वातस्पन्दवदाभान्ति सर्गाः पूर्वं चिदम्बरे ।

स्वयमेव च कुर्वन्ति देहकारणकल्पनाः

॥३६॥

यद्यथा कल्प्यते धत्ते तत्तथा नियतिर्वपुः ।

कल्पितायाश्चितेर्यस्मादेवमेतन्निजं वपुः

॥३७॥

यद्यद्भानात्मकं रूपं प्रथमं चेतितं चिता ।

स्वतोऽहमेव चित्येव तदद्यापि तथा स्थितम्

॥३८॥

पुनरन्येन यत्नेन तदुत्कृष्टेन सैव चित् ।

शक्ता तदन्यथाकर्तुं यत्नेन महता पुनः

॥३९॥

कल्प्यते कारणं यत्र तत्र कारणसारता ।

न कल्प्यते विदा यत्र कारणं तदकारणम्

॥४०॥

वात्यावर्तवदाभातमिदं प्रथममाततम् ।

असदेव यथा भातं तथैवाद्यापि संस्थितम्

॥४१॥

संभूय केचन शुभाशुभमात्मकर्म

कुर्वन्ति तस्य सदृशं फलमाप्नुवन्ति ।

संप्राप्नुवन्ति च शिलाशनिवच्च केचि-

द्दुःखं त्वकारणकमेव सहस्रसंख्याः

॥४२॥

इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० अवि० वि० श० कारणविचारो नामैकोनपञ्चाशदधिकशततमः सर्गः ।। १४९ ।।