मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ६१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 61

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

यथास्माकं मुने स्वप्नपुरपत्तनमण्डलम् ।

तथैव पद्मजादीनां यदि देहपरिग्रहः

॥१॥

तथैवेदं च संजातं यदि सर्वमसन्मयम् ।

तदस्माकं दृढतरः प्रत्ययः कथमुत्थितः

॥२॥

श्रीवसिष्ठ उवाच ।

अस्मत्सर्गवदाभाति पूर्वसर्गः प्रजापतेः ।

आजीवप्रतिभासात्मा विद्यते न तु वास्तवः

॥३॥

सर्वगत्वाच्चितेः सर्वं जीवः सर्वत्र संसृतिः ।

सा चासम्यग्दर्शनोत्था सम्यग्दर्शननाशिनी

॥४॥

स्वप्नाभः प्रतिभासोऽस्य य एष समुपस्थितः ।

अहंताप्रत्ययैकात्मा स एवातिदृढं स्थितः

॥५॥

स्वप्ने क्षिप्रविनाशित्वं यथा पुंसा न दृश्यते ।

सर्वस्वप्ने तथैवैतद्ब्रह्मणामिह लक्ष्यते

॥६॥

स्वप्नोऽयं पुरुषस्यास्य प्रतिभासस्य यो भवेत् ।

रामाऽस्मदादिसर्वात्मा भवेत्तादृश एव च

॥७॥

यत्स्वप्नपुरुषाज्जातं तत्स्वप्नपुरुषात्मकम् ।

भवतीत्यनुभूतं हि यद्बीजं तत्फलं यथा

॥८॥

असत्यमेव तद्विद्धि यदसत्येन साध्यते ।

असत्येऽर्थे समर्थेऽपि न युक्तं भावनं घनम्

॥९॥

येन तेन परित्याज्यमसद्भावनभावनम् ।

दृढप्रत्ययितं स्वप्नपुरुषाद्यत्समुत्थितम्

॥१०॥

भवत्यात्मनि सर्गादि दृढप्रत्ययमेव तत् ।

निमेषमात्रः पौरोऽयं सर्गस्वप्नः पुरः स्थितः

॥११॥

तस्मिन्निमेष एवास्मिन्कल्पता परिकल्प्यते ।

सुदीर्घस्वप्नखण्डोऽयं यथोदेति प्रजापतेः

॥१२॥

सर्गाख्यः सर्वभूतानां प्रत्येकमुदितस्तथा ।

चित्तत्त्वस्यैव भावेन सर्गवर्गपरम्परा

॥१३॥

स्फुरत्यम्भो द्रवत्वेन यथावर्तविवर्तनैः ।

यथा स्वप्नात्मिकैवेयं सर्गलक्ष्मीर्न वास्तवी

॥१४॥

तदा संभवतीदं वै तत्पदं प्रलयं गतम् ।

यद्यथा यादृशं दृष्टं तत्तादृग्विद्यते तथा

॥१५॥

न हि पर्यनुयोक्तव्याः स्वप्नविभ्रमरीतयः ।

न तदस्ति जगत्यस्मिन्यन्न संभवति भ्रमे

॥१६॥

विचित्रास्त्रिषु लोकेषु दृश्यन्ते वस्तुदृष्टयः ।

जलमध्ये ज्वलत्यग्निर्यथाब्धौ वडवानलः

॥१७॥

नगराण्यम्बरे सन्ति यथा वैमानिकाश्रयाः ।

शिलास्वब्जानि जायन्ते हेमाद्राविव पादपाः

॥१८॥

एकान्ते सर्वपुण्यानि सन्ति कल्पतरौ यथा ।

शिलाः फलन्ति फलिवद्यथा रत्नगुलुच्छकाः

॥१९॥

शिलान्तः प्राणिनः सन्ति भेका इव शिलान्तरे ।

दृषदो वारि निर्याति चन्द्रकान्तोपलादिव

॥२०॥

निमेषेण घटो याति पटतां स्वापसंविदि ।

असत्यमपि बुध्येत स्वप्ने स्वमरणं यथा

॥२१॥

आकस्मिकं जलं व्योम्नि ध्रियते भूतगं यथा ।

वितानमिव खे वारि तिष्ठति स्वर्णदी यथा

॥२२॥

उड्डीयन्ते शिलाः स्थूलाः पक्षवन्तो यथाद्रयः ।

शिलान्तः प्राप्यते सर्वं ननु चिन्तामणेरिव

॥२३॥

चिन्तितानि फलन्त्याशु देवोद्यानान्तरेष्विव ।

तान्येव न फलन्त्याशु मोक्षादीनां च राघव

॥२४॥

अचेतनोऽपि कुरुते कर्म यन्त्रपुमानिव ।

एवमाद्यास्तथान्ये च विचित्रारम्भविभ्रमाः

॥२५॥

दृष्टाः शम्बरगन्धर्वविलासैरप्यसंभवाः ।

देशकालक्रियाद्रव्यरत्नसंचरणीयजाः

॥२६॥

अर्था गन्धर्वजनिता अनन्ताः सत्यसंभवाः ।

असंभवः संभवोऽयमपि भाव्युपपद्यते

॥२७॥

संभवोऽसंभवः सम्यक् सिद्धये स्वप्नविभ्रमः ।

न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा

॥२८॥

सर्वं सर्वेण सर्वत्र स्वप्ने सर्गाभिधानके ।

स्वप्ने निमग्नधीर्जन्तुः पश्यति स्थिरतां यथा

॥२९॥

सर्गस्वप्ने मग्नबुद्धिः पश्यति स्थिरतां तथा ।

भ्रमाद्भ्रमान्तरं गच्छन्स्वप्नात्स्वप्नान्तरं व्रजन् ।

अतिस्थिरप्रत्ययभागिह जीवो विमुह्यति

॥३०॥

श्वभ्रान्तरं श्वभ्रनिपातदोषात्

संप्राप्नुवन्मुग्धमृगः प्रयाति ।

मोहं यथा पातमयैकरूपं

जीवस्तथा संसृतिपात्रमूढः

॥३१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे देव० मोक्षो० निर्वाणप्रकरणे पूर्वार्धे जगत्स्वप्नकथनं नामैकषष्टितमः सर्गः ।। ६१ ।।