मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ४७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 47

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

संसारभारसुश्रान्तः संकटेषु लुठत्तनुः ।

योऽभिवाञ्छति विश्रान्तिं तस्य क्रममिमं श्रृणु

॥१॥

पूर्वं विवेककणिका यदा स्वहृदि जायते ।

संसारनिर्वेदमयी कारणाद्वाप्यकारणात्

॥२॥

तदा श्रयन्ति सच्छायान्साधुत्वसुविशालिनः ।

अध्वश्रमहरांस्तापतप्ता मार्गतरूनिव

॥३॥

दूरे परिहरत्यज्ञान्यज्ञयूपानिवाध्वगः ।

स्नानदानतपोयज्ञान्करोति विबुधानुगः

॥४॥

पेशलं चानुरूपं च व्यवहारमकृत्रिमम् ।

लोक्यमाह्लादनं धत्ते चन्द्रविम्बमिवामृतम् ।।

परप्रज्ञानुगो भव्यः परार्थपरिपूरकः ।

पवित्रकर्मरसिकः कोऽपि सौम्यः प्रवर्तते

॥६॥

नवनीतस्थलीवाऽच्छा स्निग्धा मृद्वी मनोहरा ।

जनं सुखयति स्वाद्वी तदीया नवसंगतिः

॥७॥

शीतलानि पवित्राणि चरितानि विवेकिनः ।

इन्दोरिवांशुजालानि जनं शीतलयन्त्यलम्

॥८॥

न तथोद्यानखण्डेषु पुष्पप्रकरहारिषु ।

विश्राम्यते वीतभयं यथा साधुसमागमे

॥९॥

मन्दाकिनीपयांसीव संगतानि विवेकिनाम् ।

प्रक्षालयन्ति पापानि प्रयच्छन्ति विशुद्धताम्

॥१०॥

विवेकिषु विरक्तेषु संसारोत्तरणार्थिषु ।

जनः शीतलतामेति हिमहारगृहेष्विव

॥११॥

ननु नामरतोदारा या विवेकिनि विद्यते ।

सुरगन्धर्वकन्यासु मानवीषु न विद्यते

॥१२॥

प्रज्ञा प्रसादमायाति क्रमादुचितकर्मणः ।

अन्तःकरोति शास्त्रार्थमर्थं मुकुरभूरिव

॥१३॥

सत्प्रज्ञोन्नतिमायाति शास्त्रार्थरसशालिनी ।

विवेकिनि विलासेन कदलीव महावने

॥१४॥

अन्तरेवानुभवति सर्वार्थान्प्रतिबिम्बितान् ।

आदर्शवदशेषेण प्रज्ञा नैर्मल्यशालिनी

॥१५॥

साधुसंगमशुद्धात्मा शास्त्रार्थपरिमार्जितः ।

प्राज्ञो भात्युद्धृतं वह्नेरग्निशौचमिवांशुकम्

॥१६॥

कचत्काञ्चनकान्तेन विमलालोककारिणा ।

भुवनं भास्करेणेव भाति साधुः स्वतेजसा

॥१७॥

तथानुगच्छति प्राज्ञः शास्त्रसाधुसमागमौ ।

यथात्यन्तानुषङ्गेण तावेवानुभवत्यसौ

॥१८॥

क्रमात्सज्जनतामेत्य शास्त्रार्थभरभावितः ।

भाति भोगानधःकुर्वन्पञ्जरादिव निर्गतः

॥१९॥

भोगाभिगमदौर्भाग्यं दिनानुदिनमुज्झता ।

तेन तत्कुलमाभाति ताराचक्रमिवेन्दुना

॥२०॥

अभोगकृपणा कापि न चैवास्य प्रवर्तते ।

मुखे कान्तिरपूर्वैव चन्द्रे राहुमृते यथा

॥२१॥

तृणीकृतत्रिजगतां महतामभिधेयताम् ।

स याति कल्पविटपी नभसीव दिवौकसाम्

॥२२॥

भोगानां द्वेषणेनान्तर्लज्जमानो मनस्यपि ।

भोगानामप्यसंपत्त्या परमं परितुष्यति

॥२३॥

स्वा एवोपहसत्यन्तस्तरुणीस्तरलक्रियाः ।

खेदस्मेरमुखो जातीर्जातिस्मर इवाधमः

॥२४॥

अथ तं द्रष्टुमायान्ति सौहार्देनैव साधवः ।

भूमाविवोदितं चन्द्रं विस्मयोत्फुल्ललोचनाः

॥२५॥

नित्यानादृतभोगोऽसौ ततोऽप्युचितया धिया ।

प्राप्तमप्युचितारम्भं भोगं न बहुमन्यते

॥२६॥

पूर्वं संसृतिवैरस्यमन्तरेवोदितात्मनः ।

जायते जीर्णजाड्यस्य पाकादिव शरत्तरोः

॥२७॥

ततः सज्जनसंपर्कमुदर्कश्रेयसे स्वयम् ।

करोति स्वस्थतागृध्रुर्भिषगाश्रयणं यथा

॥२८॥

तेनोदारमतिर्भूत्वा शास्त्रार्थेषु निमज्जति ।

महान्महाप्रसन्नेषु सरःस्विव महागजः

॥२९॥

सज्जनो हि समुत्तार्य विपद्भ्यो निकटस्थितम् ।

नियोजयति संपत्सु स्वालोकेष्विव भास्करः

॥३०॥

परस्वादानविरतिः पूर्वमेव प्रवर्तते ।

विवेकिनो निजार्थेषु संतोषश्चोपजायते

॥३१॥

परस्वादानविरतः संतोषामृतनिर्भरः ।

विवेकी क्रमशः स्वार्थानप्युपेक्षितुमिच्छति

॥३२॥

ददाति कणपिण्याकशाकाद्यपि हि याचते ।

तेनैवाभ्यासयोगेन स्वमांसानि ददात्यसौ

॥३३॥

नूनं विलयचित्तानां विवेकमनुधावताम् ।

मौर्ख्यं लघुत्वमायाति धावतामिव गोष्पदम्

॥३४॥

परार्थादानविरतिं पूर्वमभ्यस्य यत्नतः ।

आहर्तव्या विवेकेन ततः स्वार्थेष्वरक्तता

॥३५॥

ततो भोगनिरासेन सह स्वार्थनिराकृतिः ।

परमायै सुविश्रान्त्यै क्रियते कृतिभिः क्रमात्

॥३६॥

न तादृशं जगत्यस्मिन्दुःखं नरककोटिषु ।

यादृशं यावदायुष्कमर्थोपार्जनशासनम्

॥३७॥

आसने शयने याने गमने रमणे जने ।

आधिचिन्तापरा एव ननु मूढा विदन्तु ताम्

॥३८॥

नन्वर्था विततानर्थाः संपदः संततापदः ।

भोगा भवमहारोगा विपरीतेन भाविताः

॥३९॥

तावन्नायाति वैरस्यं चिन्ताविषयजृम्भणैः ।

यावदर्थमहानर्थो न कदर्थार्थमर्थ्यते

॥४०॥

अनुत्तमसुखं यस्मै चिराय परिरोचते ।

जगत्तृणशिखादृष्ट्या सोऽर्थं पश्यतु शाम्यतु

॥४१॥

भूरिभावविकाराणां जरामरणकर्मणाम् ।

दैन्यदौरात्म्यदाहानामर्थः सार्थ इति स्मृतः

॥४२॥

अस्मिञ्जगति जन्तूनां जरामरणशालिनाम् ।

अजरामरणं कर्तुं संतोषोऽस्ति रसायनम्

॥४३॥

वसन्तो नन्दनोद्यानमिन्दुरप्सरसः स्मृताः ।

इत्येकतः समुदितं संतोषामृतमेकतः

॥४४॥

सरसः प्रावृषेवान्तः संतोषेणैव पूर्णता ।

गम्भीरां शीतलां हृद्यां प्रसन्नां रसशालिनीम्

॥४५॥

साधुरोजस्वितामेत्य संतोषेणैव राजते ।

सुपुष्पितवनाकारो वसन्तेनेव पादपः

॥४६॥

पादपीठपरामर्शपिष्टकीटवदीहते ।

दीनप्रकृतिरर्थार्थी दुःखाद्दुःखान्तरं व्रजेत्

॥४७॥

कल्लोलविकलाः क्षुब्धसमुद्रपतिता इव ।

नाप्नुवन्ति स्थितिं स्वस्थां विकृताकृतयोऽर्थिनः

॥४८॥

संपद प्रमदाश्चैव तरङ्गोत्तुङ्गभङ्गुराः ।

कस्तास्वहिफणच्छत्रच्छायासु रमते बुधः

॥४९॥

अर्थोपार्जनरक्षाणां जानन्नपि कदर्थनाम् ।

यः करोति स्पृहां मूढो नृपशुं तं न संस्पृशेत्

॥५०॥

मनसो बाह्यमारम्भमान्तरं च लुनाति यः ।

समं वैतृष्ण्यदात्रेण तस्य क्षेत्रं प्रकाशते

॥५१॥

जगत्त्वमज्ञसंबुद्धं ज्ञो विदन्नसदेव यत् ।

सतीव तत्र स्फुरति तदनभ्यासजृम्भितम्

॥५२॥

संसारनिर्वेददशामुपेत्य

सत्संगमं शास्त्रमुपेत्य तेन ।

शास्त्रार्थभावेन निरस्य भोगा-

न्वैतृष्ण्यदार्ढ्यात्परमार्थमेति

॥५३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाण० उ० मुमुक्षुप्रथमोपक्रमो नाम सप्तचत्वारिंशः सर्गः ।। ४७ ।।