मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ३४

3
योगवासिष्ठम् · उपशमप्रकरणम् · 34

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीभगवानुवाच ।

वरं गुणनिधे दैत्यकुलचूडामहामणे ।

गृहाणाभिमतं भूयो जन्म दुःखोपशान्तये

॥१॥

प्रह्लाद उवाच ।

सर्वसंकल्पफलद सर्वलोकान्तरस्थित ।

यदुदारतमं वेत्सि तदेवादिश मे विभो

॥२॥

श्रीभगवानुवाच ।

सर्वसंभ्रमसंशान्त्यै परमाय फलाय च ।

ब्रह्मविश्रान्तिपर्यन्तो विचारोऽस्तु तवानघ

॥३॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा दितिपुत्रेन्द्रं विष्णुरन्तरधीयत ।

कृतघर्घरनिर्ह्रादस्तरङ्गस्तोयधेरिव

॥४॥

विष्णावन्तर्हिते देवे पूजायां कुसुमाञ्जलिम् ।

पाश्चात्यं दानवस्त्वक्त्वा मणिरत्नपरिष्कृतम्

॥५॥

पद्मासनस्थोऽतिमुदा ह्युपविश्य वरासने ।

स्तोत्रपाठविधावन्तश्चिन्तयामास चेतसा

॥६॥

विचारवानेव भवान्भवत्विति भवारिणा ।

देवेनोक्तोऽस्मि तेनान्तः करोम्यात्मविचारणम्

॥७॥

किमहं नाम तावत्स्यां योऽस्मिन्भुवनडम्बरे ।

वच्मि गच्छामि तिष्ठामि प्रयत्नेनाहरामि च

॥८॥

जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् ।

यद्बाह्यमलमत्यन्तं तत्स्यां कथमहं किल

॥९॥

असन्नभ्युदितो मूकः पवनैः स्फुरितः क्षणम् ।

कालेनाल्पेन विलयी देहो नाहमचेतनः

॥१०॥

जडया कर्णशष्कुल्या कल्प्यमानः क्षणक्षयी ।

शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः

॥११॥

त्वचा क्षणविनाशिन्या प्राप्यमप्राप्यमप्यथ ।

चित्प्रसादोपलब्धात्मस्पर्शनं नास्म्यचेतनम्

॥१२॥

बद्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया ।

स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहमचेतनः

॥१३॥

दृश्यदर्शनयोर्लीनं क्षयिक्षणविनाशिनोः ।

केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम्

॥१४॥

नासयाप्यन्धजडया क्षयिण्या परिकल्पितः ।

पेलवोऽनियताकारो गन्धो नाहमचेतनः

॥१५॥

निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः ।

शुद्धचेतन एवाहं कलाकलनवर्जितः

॥१६॥

चेत्यवर्जितचिन्मात्रमहमेषोऽवभासकः ।

सबाह्याभ्यन्तरव्यापी निष्कलामलसन्मयः

॥१७॥

अनेन चेतनेनेमे सर्वे घटपटादयः ।

सूर्यान्ता अवभास्यन्ते दीपेनोत्तमतेजसा

॥१८॥

आ इदानीं स्मृतं सत्यमेतत्तदखिलं मया ।

निर्विकल्पचिदाभास एष आत्मास्मि सर्वगः

॥१९॥

अनेनैताः स्फुरन्तीह विचित्रेन्द्रियवृत्तयः ।

तेजसान्तःप्रकाशेन यथाग्निकणपङ्क्तयः

॥२०॥

अनेनैताः स्फुरन्तीह विचित्रेन्द्रियपङ्क्तयः ।

सर्वगेन निदाघेन यथा मरुमरीचिकाः

॥२१॥

अनेनैतत्पदार्थानां वस्तुत्वं प्रतिपाद्यते ।

शुक्लादिगुणवत्त्वं स्वं प्रदीपेनेव वाससाम्

॥२२॥

असावेव हि भूतानां सर्वेषामेव जाग्रताम् ।

सर्वानुभविताभूमिरात्मा मुकुरवत्स्थितः

॥२३॥

तस्यैकस्याविकल्पस्य चिद्दीपस्य प्रसादतः ।

उष्णोऽर्कः शिशिरश्चन्द्रो घनोऽद्रिर्विद्रुतं पयः

॥२४॥

सातत्येनानुभूतानां सर्वेषां च जगत्स्थितौ ।

एतत्कारणमाद्यं तत्कारणं नास्य विद्यते।

॥२५॥

सातत्येनानुभूतानां पदार्थानामनेन तत् ।

पदार्थत्वमुदेत्युच्चैः प्रतापेनेव तप्तता

॥२६॥

अनाकारात्कारणाच्च सर्वकारणकारणात् ।

एतस्मादिदमुत्पन्नं जगच्छैत्यं हिमादिव

॥२७॥

ब्रह्मविष्ण्विन्द्ररुद्राणां कारणानां जगत्स्थितौ ।

एतत्कारणमाद्यं तत्कारणं नास्य विद्यते

॥२८॥

चिच्चेत्यद्रष्टदृश्यादिनामभिर्वर्जितात्मने ।

स्वयं सकृद्विभाताय मह्यमस्मै नमो नमः

॥२९॥

एतस्मिन्सर्वभूतानि निर्विकल्पचिदात्मनि ।

गुणभूतानि भूतेशे तिष्ठन्ति विविशन्ति च

॥३०॥

यत्किलानेन कलितं चेतनेनान्तरात्मना ।

तत्तद्भवति सर्वत्र नेतरत्सदपि स्थितम्

॥३१॥

यच्चिता कलितं किंचित्तदाप्नोति निजं पदम् ।

यच्चिताकलितं नेह तत्सदप्यन्तमागतम्

॥३२॥

इमे घटपटाकाराः पदार्थशतपङ्क्तयः ।

जागत्यो विपुलादर्शे ह्यस्मिन्व्योमनि बिम्बिताः

॥३३॥

एतद्वृद्धं वृद्धतरे क्षयि क्षयिणि जायते ।

पदार्थे सदसच्चापि प्रतिबिम्बार्कवत्स्थितम्

॥३४॥

अदृश्यं सर्वभूतानां प्राप्यं गलितचेतसाम् ।

एतत्तद्दृश्यते सद्भिः परं व्योमातिनिर्मलम्

॥३५॥

इयमभ्युदयं याति नानादृश्यसुमञ्जरी ।

आचारचञ्चरीकाढ्या एतस्मात्कारणद्रुमात्

॥३६॥

अस्मादियमुदेत्युच्चैः संसाररचनाचला ।

विचित्रतरुगुल्माढ्या शैलादिव वनावली

॥३७॥

सर्वेषामविभिन्नोऽसौ त्रैलोक्योदरवर्तिनाम् ।

ब्रह्मादीनां तृणान्तानां चिदात्मा संप्रकाशकः

॥३८॥

एकोऽसावहमाद्यन्तरहितः सर्वगाकृतिः ।

चराचराणां भूतानामन्तः स्वानुभवः स्थितः

॥३९॥

अस्य तस्य ममेमानि स्थावराणि चराणि च ।

परिसंख्यादिहीनानि शरीराणि बहूनि च

॥४०॥

एकोऽसावनुभूत्यात्मा स्वानुभूतिवशात्स्वयम् ।

सर्वदृग्द्रष्टृदृश्यत्वात्सहस्रकरलोचनः

॥४१॥

एषोऽसावहमाकाशे सूर्यदेहेन चारुणा ।

विहरामीतरेणापि वायुदेहेन वायुना

॥४२॥

ममैतद्वपुरानीलं शङ्खचक्रगदाधरम् ।

सर्वसौभाग्यसीमान्तं ह्यस्मिञ्जगति वल्गति

॥४३॥

अहमस्मिन्समुद्भूतः पद्मासनगतः सदा ।

निर्विकल्पसमाधिस्थः परां निर्वृतिमागतः

॥४४॥

अहं त्रिनेत्रयाऽऽकृत्या गौरीवक्त्राब्जषट्पदः ।

सर्गान्ते संहरामीदं कूर्मोऽङ्गपटलं यथा

॥४५॥

अहमिन्द्रेण रूपेण त्रिलोकीमखिलामिमाम् ।

पालयामि क्रमप्राप्तां मठिकामिव तापसः

॥४६॥

स्त्रीपुमानहमेवैतत्कुमारो ह्यहमित्यपि ।

जीर्णोऽहं देहधारित्वाज्जातोऽहं विश्वतोमुखः

॥४७॥

अहं तृणलतागुल्मजालं रसतया स्थितः ।

उत्थापयामि चिद्भूमेः कूपोऽन्तरलतामिव

॥४८॥

स्वलीलार्थमिदं चारु जगदाडम्बरं ततम् ।

मयाभिजातबालेन पङ्कक्रीडनकं यथा

॥४९॥

मयेदमाप्यते सर्वं सत्ता मां प्राप्य गच्छति ।

मत्परित्यक्तमेतच्च सदप्येव न किंचन

॥५०॥

मयि स्फारे चिदादर्शे प्रतिबिम्बं यदागतम् ।

तदस्ति नेतरद्यस्मान्मत्तोऽन्यन्नेह विद्यते

॥५१॥

कुसुमेष्वहमामोदः पुष्पपत्रेष्वहं छविः ।

छविष्वहं रूपकला रूपेष्वनुभवोऽप्यहम्

॥५२॥

यद्यत्किंचिदिदं दृश्यं जगत्स्थावरजङ्गमम् ।

सर्वसंकल्परहितं तच्चित्तत्त्वमहं परम्

॥५३॥

आद्या रसमयी शक्ती रसौघो विस्तृतो यया ।

सा यथा दारुकुड्येषु तथाहं सर्ववस्तुषु

॥५४॥

परमां तामहं सर्वपदार्थान्तरवर्तिताम् ।

उपेत्य संविद्वैचित्र्यं प्रतनोमि स्वयेच्छया

॥५५॥

घृतं यथान्तः पयसो रसशक्तिर्यथा जले ।

चिच्छक्तिः सर्वभावेषु तथान्तरहमास्थितः

॥५६॥

इदं जगत्त्रिकालस्थं चिति मध्ये च संस्थितम् ।

चेत्योपचाररहितं वस्तुजातमिवावनौ

॥५७॥

भरिताशेषदिक्कुक्षिस्त्यक्तसंकोचविभ्रमः ।

सर्वस्थः सर्वकर्ता च विराट् सम्राडहं स्थितः

॥५८॥

अपूर्वमनिबद्धेन्द्रमशस्त्रदलितामरम् ।

अप्रार्थितं मे संप्राप्तं जगद्राज्यमिदं ततम्

॥५९॥

अहो नु विततात्मास्मि न माम्यप्यात्मनात्मनि ।

कल्पान्तपवनाधूत एकार्णव इवार्णवे

॥६०॥

नात्मन्यन्तमवाप्नोमि स्वस्थेऽन्तः स्वदिते स्वयम् ।

क्षीरवारिनिधौ पङ्गुः सरीसृप इव स्फुरन्

॥६१॥

स्वल्पेयं मठिका ब्राह्मी जगन्नाम्नी सुसंकटा ।

गजो बिल्व इव स्वाङ्गे न माति विपुलं वपुः

॥६२॥

विरिञ्चिभवनात्पारे तत्त्वान्तेऽप्याहरत्पदम् ।

प्रसरत्येव मे रूपमद्यापि न निवर्तते

॥६३॥

अयं नामाहमित्यन्तः कुतो निरवलम्बना ।

अपर्यन्ताकृतेरेषा किलासीत्स्वल्पता मम

॥६४॥

भवानयमयं चाहमिति मिथ्यैव विभ्रमः ।

कोदेहः कोऽप्यदेहो वा को मृतः कश्च जीवति

॥६५॥

वराकाः पेलवधियो बभूवुर्मे पितामहाः ।

ये साम्राज्यमिदं त्यक्त्वा रेमिरे भवभूमिषु

॥६६॥

क्वेयं किल महादृष्टिर्भरिता ब्रह्मबृंहिता ।

क्व सरीसृपभीमाशा भीमा राज्यविभूतिभिः

॥६७॥

अनन्तानन्दसंभोगा परोपशमशालिनी ।

शुद्धेयं चिन्मयी दृष्टिजयत्यखिलदृष्टिषु

॥६८॥

सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने ।

प्रत्यक्चेतनरूपाय मह्यमेव नमो नमः

॥६९॥

जयाम्यहमजो जातो जीर्णसंसारसंसृतिः ।

प्राप्तप्राप्यो महात्मायं जीवामि च जयामि च

॥७०॥

इदमुत्तमसाम्राज्यं बोधं संत्यज्य शाश्वतम् ।

न रमेऽहमरम्यासु राज्यदुःखविभूतिषु

॥७१॥

दारुवारिदृषन्मात्रे लुलितो यो धरातले ।

धिग्वराकमनात्मज्ञं तं कुदानवकीटकम्

॥७२॥

अविद्यैकात्मभिर्द्रव्यैरविद्यामयमङ्गकम् ।

अज्ञेन संतर्पयता किं नाम गुरुणा कृतम्

॥७३॥

वर्षाणि कतिचित्प्राप्य जगच्छ्रीमठिकामिमाम् ।

किं नाम प्रापदुचितं हिरण्यकशिपुः किल

॥७४॥

अनास्वाद्येदमानन्दं जगद्राज्यशतान्यपि ।

समास्वादयता नेह किंचिदास्वादितं भवेत्

॥७५॥

न किंचिद्येन संप्राप्तं तेनेदं परमामृतम् ।

संप्राप्यान्तः प्रपूर्णेन सर्वं प्राप्तमखण्डितम्

॥७६॥

त्यक्त्वा पदमिदं मूर्खो मितमेति न पण्डितः ।

उष्ट्रो हि त्यक्तसुलतः कण्टकं याति नेतरः

॥७७॥

परां दृष्टिमिमां त्यक्त्वा दग्धराज्ये रमेत कः ।

कस्त्यक्त्वेक्षुरसं प्राज्ञः कटु निम्बपयः पिबेत्

॥७८॥

मूर्खा एव हि ते सर्वे बभुवुर्मे पितामहाः ।

इमां दृष्टिं परित्यज्य रेमिरे राज्यसंकटे

॥७९॥

क्व फुल्लानन्दनस्थल्यः क्व दग्धमरुभूमयः ।

क्वेमा बोधदृशः शान्ताः क्व भोगेष्वात्मबुद्धयः

॥८०॥

न किंचिदपि त्रैलोक्ये यद्राज्यमपि वाञ्छते ।

सर्वमस्त्येव चित्तत्त्वे तत्कस्मान्नानुभूयते

॥८१॥

चिता सर्वस्थया स्वस्थसमया निर्विकारया ।

सर्वया सर्वदा सर्वं सर्वतः साधु लभ्यते

॥८२॥

भासिनी तैजसी शक्तिरमृतप्राप्तिरैन्दवी ।

ब्राह्मी महत्ता महती शाक्री त्रैलोक्यराजता

॥८३॥

परमा पूर्णता शार्वी जयलक्ष्मीश्च वैष्णवी ।

मानसी शीघ्रगतिता बलवत्ता च वायवी

॥८४॥

आग्नेयी दाहकलना पायसी रसनिर्वृतिः ।

मौनी महातपःसिद्धिर्विद्या बार्हस्पती तथा

॥८५॥

वैमानिकी व्योमगतिः स्थिरता चापि पार्वती ।

गम्भीरताथ सामुद्री मैरवी च महोन्नतिः

॥८६॥

शमश्रीः सौगती सौम्या मादिरी मदलोलता ।

माधवी पुष्पमयता वार्षिकी घनशब्दिता

॥८७॥

याक्षी च मायामयता नाभसी निष्कलङ्कता ।

शीततापि च तौषारी नैदाघी तापतप्तता

॥८८॥

एताश्चान्यास्तथा बह्वयो देशकालक्रियात्मिकाः ।

नानाकारविकारोत्थास्त्रिकालोदरसंस्थिताः

॥८९॥

विचित्राः शक्तयः स्वस्थसमया निर्विकारया ।

चिता क्रियन्ते परया कलाकलनयुक्तया

॥९०॥

विकल्पहीना चित्सर्वा पदार्थशतदृष्टिषु ।

सममेवाभिपतति प्रभा प्राभाकरी यथा

॥९१॥

सर्वाशाकोशविश्रान्तां पदार्थपटलीं महीम् ।

कालत्रयेहाकलितां यथानुभवति क्षणात्

॥९५॥

तथा समस्तसंसारबृहद्दृश्यदशाश्रियम् ।

कालत्रयस्थाममला चिच्चेतति तदात्मिका

॥९३॥

तुल्यकालपरामृष्टा त्रिकालकलनाशता ।

अनन्तभुवनाभोगा परिपूर्णैव शुद्धचित्

॥९४॥

परामृष्टत्रिकालाया दृष्टानन्तदृशश्चितः ।

समतापरपर्याया पूर्णतैवावशिष्यते

॥९५॥

तुल्यकालावबुद्धेन स्वादुना कटुनापि चित् ।

समेन समतामेति मधुनिम्बानुभूतिवत्

॥९६॥

त्यक्तसंकल्पकलया सूक्ष्मया चिद्व्यवस्थया ।

सर्वभावानुगतया सत्ताद्वैतैकरूपया

॥९७॥

विचित्रापि पदार्थश्रीरन्योन्यवलितान्तरा ।

तुल्यकालानुभवना साम्येनैवानुभूयते

॥९८॥

भावेनाभावमाश्रित्य भावस्त्यजति दुःखताम् ।

प्रेक्ष्य भावमभावेन भावस्त्यजति दुष्टताम्

॥९९॥

कालत्रयमपश्यन्त्या हीनायाश्चेत्यबन्धनैः ।

चितश्चेत्यमुपेक्षिण्याः समतैवावशिष्यते

॥१००॥

याति वाचामगम्यत्वादसत्तामिव शाश्वतीम् ।

नैरात्म्यसिद्धान्तदशामुपयातेव तिष्ठति

॥१०१॥

भवत्यात्मा तथा ब्रह्म न किंचिच्चाखिलं च वा ।

परमोपशमेऽलीना मोक्षनाम्ना परोच्यते

॥१०२॥

संकल्पकलिता त्वेषा मन्दाभासतया जगत् ।

न सम्यक्पश्यतीदं चिदृष्टिः पटलिनी यथा

॥१०३॥

ईहानीहामयैरन्तर्या चिदावलिता मलैः ।

सा हि नोड्डयितुं शक्ता पाशबद्धेव पक्षिणी

॥१०४॥

संकल्पकलनेनैव ये केचन जना इमे ।

पतिता मोहजालेषु विनेत्रा इव पक्षिणः

॥१०५॥

संकल्पजालवलितैर्विषयावटपातिभिः ।

पदवी गतबाधेयं न दृष्टा मत्पितामहैः

॥१०६॥

दिनैः कतिपयैरेव स्फुरिता धरणीतले ।

वराकास्तेन ते नष्टा मशकाः कुहरेष्विव

॥१०७॥

यद्यज्ञास्यन्निमे तत्त्वं भोगदुःखार्थिनस्तदा ।

भावाभावान्धकूपेषु नापतिष्यन्हताशयाः

॥१०८॥

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः ।

धराविवरमग्नानां कीटानां समतां गताः

॥१०९॥

ईहितानीहिताकाराः कलनामृगतृष्णिकाः ।

सत्यावबोधमेधेन यस्य शान्ताः स जीवति

॥११०॥

कुतः किलास्याः शुद्धाया अविच्छिन्नामलाकृतेः ।

चन्द्रिकाया रुचः कोष्णाः कलङ्काः कलनाश्चितः

॥१११॥

आत्मनेऽस्तु नमो मह्यमविच्छिन्नचिदात्मने ।

लोकालोकमणे देव चिरेणाधिगतोऽस्यहो

॥११२॥

परामृष्टोऽसि लब्धोऽसि प्रोदितोऽसि चिराय च ।

उद्धृतोसिविकल्पेभ्यो योसि सोसि नमोस्तु ते

॥११३॥

मह्यं तुभ्यमनन्ताय मह्यं तुभ्यं शिवात्मने ।

नमो देवाधिदेवाय पराय परमात्मने

॥११४॥

गतघनपरिपूर्णमिन्दुबिम्बं

गतकलनावरणं स्वमेव रूपम् ।

स्ववषुषि मुदिते स्वयं स्वसंस्थं

स्वयमुदितं स्ववशं स्वयं नमामि

॥११५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे प्रह्लादात्मोपदेशयोगो नाम चतुस्त्रिंशः सर्गः ।। ३४ ।।