मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १०५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 105

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

स्वभावं जगदाकारं चिद्भावोऽनुभवन्स्थितः ।

स्वतः स्वप्नमिवानन्यमात्मनः कल्पनाभिधम्

॥१॥

जाग्रत्सुषुप्तमेवेदं शिलाजठरमेव वा ।

आकाशमेव वा शून्यं जगत्त्वेन च नोज्झितम्

॥२॥

स्वप्न एवात्र दृष्टान्तः पुरमण्डलमण्डितः ।

स्वप्ने जगन्न किंचित्सदित्थमाभाति भासुरम्

॥३॥

त्रैलोक्यमसदेवेदं यथा स्वप्नेऽवभासते ।

जाग्रत्यस्मिंस्तथैवेदं मनागप्यत्र नान्यथा

॥४॥

न जाग्रति न च स्वप्ने जगच्छब्दार्थसंभवः ।

स्वं वस्तुतस्तु चिद्व्योम्नो भानं बुद्धं जगत्तया

॥५॥

चिद्व्योम्ना स्वचमत्कारो व्योमन्यश्चादिरूपभृत् ।

जगदित्येव बुद्धोऽन्तर्जाग्रत्स्वप्ने स्वयंभुवा

॥६॥

जगन्न किंचिदेवेदं चिद्रूपं च न किंचन ।

एते किंचिदिवाभातो नभश्चिज्जगती मुधा

॥७॥

आभातमेव त्रैलोक्यं यथा स्वप्ने न किंचन ।

शून्यमेव भवेदेवमेवं जाग्रति निर्वपुः

॥८॥

स्वप्ने किल महाबुद्धे नानानिर्माणशालिनि ।

आरम्भा एव नारम्भा असत्सदिव चाततम्

॥९॥

अव्योमैवातिविततं व्योमान्तपरिवर्जितम् ।

व्योमैवाचलसंघातो नानापुरगणोत्करः

॥१०॥

अप्यब्दाब्ध्यद्रिनिर्घोषो मौनमेव यथा तथा ।

न श्रृणोत्येव पार्श्वस्थः संप्रबुध्यापि किंचन

॥११॥

प्रजायते वाऽजातोऽपि वन्ध्यायास्तनयो यथा ।

जातोऽप्यजात एवास्ते यथात्ममृतिविस्मृतौ

॥१२॥

सदसद्भवति क्षिप्रं भुवोऽननुभवो यथा ।

विपर्यस्यति सर्वं च रात्रिरेव यथा दिनम्

॥१३॥

असद्यत्संभवत्याशु दिनमेव यथा निशा ।

असंभवः संभवति यथा स्वमृतिदर्शनम्

॥१४॥

असंभवः संभवति जगद्भानमिवाम्बरे ।

तम एव महालोको यः सनिद्रः सवासरः

॥१५॥

आलोक एवैति तमो यन्निद्रा स्वप्नवासरा ।

वसुधैव भवेद्व्योम श्वभ्रादिपतने यथा

॥१६॥

असत्यरूपमेवेति भाति स्वप्ने जगद्यथा ।

तथैव जाग्रदाभाति मनागप्यत्र नान्यता

॥१७॥

यथा द्वौ सदृशौ सूर्यौ यथा द्वौ सदृशौ नरौ ।

जाग्रत्स्वप्नौ तथैवैतौ मनागप्यत्र नान्यता

॥१८॥

श्रीराम उवाच ।

नैतदेवमपि क्षिप्रात्प्रत्ययो यत्र बाधकः ।

स्वप्ने तद्दर्शनेनान्तः कथं जाग्रन्समं भवेत्

॥१९॥

श्रीवसिष्ठ उवाच ।

विहृत्य स्वप्नजगति स्वप्नबन्धुजनैः समम् ।

मृतिमाप्नोति तत्रासौ द्रष्टा स्वप्नस्य राघव

॥२०॥

मृतः सन्स्वप्नजगति स्वप्नजन्तुवियोगवान् ।

इह प्रबुध्यते जन्तुर्निद्रामुक्तश्च कथ्यते

॥२१॥

सुखदुःखदशामोहान्दिनरात्रिविपर्ययान् ।

अनुभूय बहून्द्रष्टा म्रियते स्वप्नसंसृतौ

॥२२॥

गतनिद्रतया पश्चान्निद्रान्त इह जायते ।

न सत्यमेतदित्येवं ततः प्रत्ययवान्भवेत्

॥२३॥

स्वप्नद्रष्टा यथा स्वप्नसंसारे मृतिमाप्तवान् ।

अन्यं जाग्रन्मयं स्वप्नं द्रष्टुं भूयः प्रजायते

॥२४॥

जाग्रद्द्रष्टा तथा जाग्रत्संसारे मृतिमाप्तवान् ।

अन्यं जाग्रन्मयं स्वप्नं द्रष्टुं भूयः स जायते

॥२५॥

न स्वप्नमसदित्येवं पूर्वस्मिञ्जाग्रदात्मनि ।

पुनः प्रत्ययमादत्ते स्वप्नात्स्वप्नान्तरं गतः

॥२६॥

स जाग्रत्प्रत्ययं तत्र पुनर्गृह्णाति मुग्धधीः ।

स्वप्नसंदर्शनं त्वन्यत्तत्राप्यनुभवत्यथ

॥२७॥

स्वप्नं जाग्रत्तया जाग्रत्स्वप्नत्वं चेति नामनि ।

न जायते न म्रियते जायते म्रियतेऽपि च

॥२८॥

स्वप्नद्रष्टा स्वप्नमृतः प्रबुद्ध इह कथ्यते ।

इह जाग्रन्मृतो जन्तुः प्रबुद्धोऽन्यत्र कथ्यते

॥२९॥

स्वप्नात्स्वप्नस्थितौ जाग्रज्जाग्रत्स्वप्नप्रदर्शनम् ।

मृत्वान्यत्र प्रबुद्धस्य जाग्रत्स्वप्नो भवत्यलम्

॥३०॥

इतिहासमयावेव जाग्रत्स्वप्नावुभावपि ।

परस्परं गतावेतावुपमानोपमेयताम्

॥३१॥

स्वप्नो जाग्रदिवाभाति जाग्रत्स्वप्नमिवोदितम् ।

वस्तुतस्तु द्वयमसच्चित्खं कचति केवलम्

॥३२॥

स्थावरं जंगमं चैव भूतजातमशेषतः ।

चिन्मात्रव्यतिरेकेण किमन्यदुपपद्यते

॥३३॥

मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते ।

चिच्चमत्कारमात्रात्म तथा काष्ठोपलाद्यपि

॥३४॥

वस्तुजातमिदं स्वप्ने जाग्रत्यपि तथैव नः ।

दृष्टो य उपलः स्वप्ने चिच्चमत्करणादृते

॥३५॥

किमन्यत्संवद प्राज्ञ किलावश्यं चिदेव सा ।

ननु यादृग्वपुः स्वप्ने जाग्रत्तादृगखण्डितम्

॥३६॥

जगज्जातमतः सर्वं चिन्मात्रं ब्रह्मखण्डितम् ।

जगज्जातमतः सर्वं चिन्मात्रं ब्रह्मकुट्टिमम्

॥३७॥

मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते ।

चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते

॥३८॥

शैलात्मकं यथा भाण्डं शैलशून्यं न लभ्यते ।

चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते

॥३९॥

द्रवरूपं यथा वारि द्रवरिक्तं न लभ्यते ।

चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते

॥४०॥

ऊष्मरूपो यथा वह्निर्निरूष्मा नोपलभ्यते ।

चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते

॥४१॥

यथा स्पन्दमयो वायुरस्पन्दो नोपलभ्यते ।

चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते

॥४२॥

यद्यन्मयं तद्विना तु तत्कथं किल लभ्यते ।

क्वाशून्यं लभ्यते व्योम क्वाघना लभ्यते मही

॥४३॥

चिद्व्योममयमेवेदं यथा घटपटादिकम् ।

स्वप्ने तथेदं शैलादि चिद्व्योमाभासमात्रकम्

॥४४॥

स्वप्ने यथा गगनमेव पुराचलादि

संविन्मयं सुभग जाग्रति तद्वदेव ।

स्वप्नोऽथ जाग्रदिति शान्तमनन्तमेकं

चिन्मात्रमत्र ननु नाम विनास्तु वादः

॥४५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० जाग्रत्स्वप्नैक्यप्रतिपादनं नाम पञ्चोत्तरशततमः सर्गः ।। १०५ ।।