मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः १३

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 13

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

काल उवाच ।

एतासां भूतजातीनामूर्मीणामिव सागरात् ।

विविधानां विचित्राणां लतानामिव माधवे

॥१॥

भव्या जितमनोमोहा दृष्टलोकपरावराः ।

जीवन्मुक्ता भ्रमन्तीह यक्षगन्धर्वकिंनराः

॥२॥

अन्ये तु काष्ठकुड्याभा मूढाः स्थावरजगमाः ।

अपरे क्षीणमोहास्ते किं तेषां प्रविचार्यते

॥३॥

लोके प्रबुध्यमानानां भूतानामात्मसिद्धये ।

विहरन्तीह शास्त्राणि कल्पितान्युदितात्मभिः

॥४॥

संप्रबुद्धाशया ये तु दुष्कृतानां परिक्षये ।

तेषां शास्त्रविचारेषु निर्मला धीः प्रवर्तते

॥५॥

विलीयते मनोमोहः सच्छास्त्रप्रविचारणात् ।

नभोविहरणाद्भानोः शार्वरं तिमिरं यथा

॥५॥

अक्षीयमाणं हि मनो मोहायैव न सिद्धये ।

नीहार इव संछाद्य वेताल इव वल्गति

॥७॥

सर्वेषामेव देहानां सुखदुःखार्थभाजनम् ।

शरीरं मन एवेह नतु मांसमयं मुने

॥८॥

योऽयं मांसास्थिसंघातो दृश्यते पाञ्चभौतिकः ।

मनोविकल्पनं विद्धि न देहः परमार्थतः

॥९॥

मनःशरीरेण तव पुत्रोऽयं कृतवान्मुने ।

तदेव प्राप्तवानाशु वयं नात्रापराधिनः

॥१०॥

स्वया वासनया लोको यद्यत्कर्म करोति यः ।

स तथैव तदाप्नोति नेतरस्येह कर्तृता

॥११॥

स्वानुसंहितमन्तर्यन्मनोवासनया स्वया ।

को नाम भुवनेशोऽस्ति तत्कर्तुं यस्य शक्तता

॥१२॥

ये सर्गा नरकाभोगा या जन्ममरणैषणाः ।

स्वप्नमनोमननेनेदं स निष्पन्दोऽपि दुःखदः

॥१३॥

बहुनात्र किमुक्तेन शब्दसंग्रहकारिणा ।

उत्तिष्ठ भगवन्यामो यत्र ते तनयः स्थितः

॥१४॥

सर्वं चित्तशरीरेण भुक्त्वा शुक्रः क्षणादिव ।

तथेन्दुरश्मिसंघट्टात्समङ्गातापसः स्थितः

॥११॥

तत्प्राणपवनश्चित्तान्मुक्त इन्द्वंशुवत्फलम् ।

अवश्यायतया भूत्वा वीर्यं तेनान्तरास्थितः

॥१६॥

इत्युक्त्वा भगवान्कालो हसन्निव जगद्गतिम् ।

हस्ताद्धस्तेन जग्राह भृगुमिन्दुमिवांशुमान्

॥१७॥

अहो नु चित्रा नियतेर्व्यवस्थेति वदंछनैः ।

भगवान्भृगुरुत्तस्थावुदयाद्रेर्यथा रविः

॥१८॥

तेजोनिधी ह सममङ्ग समुत्थितौ तौ

भातस्तदाम्बरतले सतमालजाले ।

तुल्योदयाविव नभस्यमले विहर्तु-

मभ्युत्थितौ सजलदौ सकलेन्दुसूर्यौ

॥१९॥

श्रीवाल्मीकिरुवाच ।

इत्युक्तवत्यथ मुनौ दिवसो जगाम

सायतनाय विधयेऽस्तमिनो जगाम ।

स्नातुं सभा कृतनमस्करणा जगाम

श्यामाक्षये रविकरैश्च सहाजगाम

॥२०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने भृगुसमाश्वासनं नाम त्रयोदशः सर्गः ।। १३ ।।