मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ५

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 5

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ पूर्वापरविदां वर ।

अयं मनसि संसारः स्फारः कथमिव स्थितः

॥१॥

यथायं मनसि स्फारः संसारः स्फुरति स्फुरन् ।

दृष्टान्तदृष्ट्या स्फुटया तथा कथय मेऽनघ

॥२॥

श्रीवसिष्ठ उवाच ।

यथैन्दवानां विप्राणां जगन्त्यवपुषामपि ।

स्थितानि जातदार्ढ्यानि मनसीदं तथा स्थितम्

॥३॥

लवणस्य यथा राज्ञश्चेन्द्रजालाकुलाकृतेः ।

चण्डालत्वमनुप्राप्तं तथेदं मनसि स्थितम्

॥४॥

भार्गवस्य चिरं कालं स्वर्गभोगबुभुक्षया ।

यथा भोगाधिनाथत्वं संसारित्वं बभूव च

॥५॥

भोगेश्वरत्वं च यथा तथेदं मनसि स्थितम् ।

श्रीराम उवाच ।

भगवन्भृगुपुत्रस्य स्वर्गभोगबुभुक्षया

॥६॥

कथं भोगाधिनाथत्वं संसारित्वं बभूव च ।

श्रीवसिष्ठ उवाच ।

श्रृणु राम पुरा वृत्तं संवादं भृगुकालयोः

॥७॥

सानौ मन्दरशैलस्य तमालविटपाकुले ।

पुरा मन्दरशैलस्य सानौ कुसुमसंकुले

॥८॥

अतप्यत तपो घोरं कस्मिंश्चिद्भगवान्भृगुः ।

तमुपास्ते स्म तेजस्वी बालः पुत्रो महामतिः

॥९॥

शुक्रः सकलचन्द्राभः प्रकाश इव भासुरः ।

भृगुर्वनवरे तस्मिन्समाधावेव संस्थितः

॥१०॥

सर्वकालं समुत्कीर्णो वनोपलतलादिव ।

शुक्रः कुसुमशय्यासु कलधौताजिरेषु च

॥११॥

मन्दरोद्दामदोलासु बालो रमणलीलया ।

विद्याविद्यादृशोर्मध्ये शुक्रः प्राप्तमहापदः

॥१२॥

त्रिशङ्कुरिव रोदोन्तरवर्तत तदाकुलः ।

निर्विकल्पसमाधिस्थे स कदाचित्पितर्यथ

॥१३॥

अव्यग्रोऽभवदेकान्ते जितारिरिव भूमिपः ।

ददर्शाप्सरसं तत्र गच्छन्तीं नभसः पथा

॥१४॥

क्षीरोदमध्यलुलितां लक्ष्मीमिव जनार्दनः ।

मन्दारमालावलितां मन्दानिलचलालकाम्

॥१५॥

हारझाङ्कारिगमनां सुगन्धितनभोनिलाम् ।

लावण्यपादपलतां मदघूर्णितलोचनाम्

॥१६॥

अमृतीकृततद्देशां देहेन्दूदयदीप्तिभिः ।

कान्तामालोक्य तस्याभूदुल्लसत्तरलं मनः

॥१७॥

दृष्टनिर्मलपूर्णेन्दुवपुरम्बुनिधेरिव ।

साप्यालोक्य शुक्रमुखं तथा परवशा ह्यभूत्

॥१८॥

मनसिजेषु पराहतमाशयं

स परिबोध्य मनस्तदनूशना ।

विगलितेतरवृत्तितयात्मना

स च वधूमय एव वभूव ह

॥१९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे भार्गवोपाख्याने भार्गवस्खलनं नाम पञ्चमः सर्गः ।। ५ ।।