मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ७०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 70

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

अन्यजगद्ब्रह्मोवाच ।

अथाहं चिन्मयाकाशस्त्वन्याकाशमयीं स्थितिम् ।

परां ग्रहीतुमिच्छामि तेनेहोपस्थितः क्षयः

॥१॥

महाप्रलयकालेऽस्मिंस्त्यक्तुमेषा मयाधुना ।

मुनीन्द्र नूनमारब्धा तेन वैरस्यमागता

॥२॥

आकाशत्वाद्यदाद्योऽयं पराकाशो भवाम्यहम् ।

तदा महाप्रलयता वासनायाश्च संक्षयः

॥३॥

तेनैषा विरसीभूता मन्मार्गं परिधावति ।

नानुगच्छति को नाम निर्मातारमुदारधीः

॥४॥

इहाद्यायं कलेरन्तश्चतुर्युगविपर्ययः ।

प्रजामन्विन्द्रदेवानामद्यैवान्तोऽयमागतः

॥५॥

अद्यैव चायं कल्पान्तो महाकल्पान्त एव च ।

ममायं वासनान्तोऽद्य देहव्योमान्त एव च

॥६॥

तेनेयं वासना ब्रह्मन्क्षयं गन्तुं समुद्यता ।

क्वेव पद्माकराशोषे गन्धलेखावतिष्ठताम्

॥७॥

यथा जडाब्धिलेखाया जायते लहरी चला ।

वासनायास्तथैवेच्छा मुधोदेत्यपकारणम्

॥८॥

आभिमानिकदेहाया वासनायाः स्वभावतः ।

अस्या आत्मावलोकेच्छा स्वयमेवोपजायते

॥९॥

आत्मतत्त्वं नु पश्यन्त्या धारणाभ्यासयोगतः ।

दृष्टोऽनया भवत्सर्गो वर्गव्यग्रनिरर्गलः

॥१०॥

अनयाम्बरसंचारपरयाद्रिशिरःशिला ।

दृष्टा स्वजगदाधारभूतास्माकं तु खात्मिका

॥११॥

एतद्यस्मिञ्जगद्यत्र तद्दृषत्त्वं जगद्गिरौ ।

अस्मज्जगत्पदार्थेषु संत्यन्यानि जगन्त्यपि

॥१२॥

वयं तानि न पश्यामो भेददृष्टौ स्थिता इमे ।

बोधैकतां गतास्त्वाशु पश्यामस्तानि वीक्षणात्

॥१३॥

घटे पटे वटे कुड्ये खेऽनलेऽम्भसि तेजसि ।

जगन्ति सन्ति सर्वत्र शिलायामिव सर्वदा

॥१४॥

जगन्नाम मुधा भ्रान्तिः किल स्वप्नपुरोपमा ।

मिथ्यैवेयं क्व नामासौ चिद्रूपास्त्यथ नास्ति च

॥१५॥

परिज्ञाता सती येषामेषा चिन्नभसैकताम् ।

गता ते न विमुह्यन्ति शिष्टास्तु भ्रमभाजनम्

॥१६॥

अथान्यधारणाभ्यासात्स्वविरागवशोदितम् ।

साधयन्त्याऽर्थमात्मीयं दृष्टस्त्वमनया मुने

॥१७॥

इति मायेव दुष्पारा चिच्छक्तिः परिजृम्भते ।

इत्थमाद्यन्तरहिता ब्राह्मी शक्तिरनामया

॥१८॥

प्रवर्तन्ते निवर्तन्ते नेह कार्याणि कानिचित् ।

द्रव्यकालक्रियाद्योता चितिस्तपति केवलम्

॥१९॥

देशकालक्रियाद्रव्यमनोबुद्ध्यादिकं त्विदम् ।

चिच्छिलाङ्गकमेवैकं विद्ध्यनस्तमयोदयम्

॥२०॥

चिदेवेयं शिलाकारमवतिष्ठति बिभ्रती ।

अङ्गमस्या जगज्जालं मरुतः स्पन्दनं यथा

॥२१॥

विज्ञानघनमात्मानं जगदित्यवबुध्यते ।

अनाद्यन्तापि साद्यन्ता चित्त्वादिति गतापि चित् ।।

चिच्छिलेयमनाद्यन्ता साद्यन्तास्तीति बोधतः ।

साकारापि निराकारा जगदङ्गेति संस्थिता

॥२३॥

यद्वत्स्वप्ने चिदेव स्वं रूपं व्योमैव पत्तनम् ।

वेत्ति तद्वदिदं वेत्ति पाषाणं जगदङ्गकम्

॥२४॥

न सरन्तीह सरितो न चक्रं परिवर्तते ।

नार्थाः परिणमन्त्यन्तः कचत्येतच्चिदम्बरम्

॥२५॥

न महाकल्पकल्पान्तसंविदः संविदम्बरे ।

संभवन्ति पृथग्रूपाः पयसीव पयोन्तरम्

॥२६॥

जगन्ति सन्त्येव न सन्ति शान्ते

चिदम्बरे सर्वगतैकमूर्तौ ।

नभोन्तराणीव महानभोन्त-

श्चित्सन्ति सत्तानि पराम्बराणि

॥२७॥

वसिष्ठ तद्गच्छ मुने जगत्स्वं

त्वं चासने संप्रति शान्तिमेहि ।

बुद्ध्यादिरूपाणि परं व्रजन्तु

वयं बृहद्ब्रह्मपदं प्रयामः

॥२८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पा० शिलान्तर्जगत्पितामहवाक्यानि नाम सप्ततितमः सर्गः ।।७०।।