मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ३०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 30

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

ईश्वर उवाच ।

एवं सर्वमिदं विश्वं परमात्मैव केवलम् ।

ब्रह्मैव परमाकाशमेष देवः परः स्मृतः

॥१॥

तदेतत्पूजनं श्रेयस्तस्मात्सर्वमवाप्यते ।

तदेव सर्गभूः सर्वमिदं तस्मिन्व्यवस्थितम्

॥२॥

अकृत्रिममनाद्यन्तमद्वितीयमखण्डितम् ।

अवहिःसाधनासाध्यं सुखं तस्मादवाप्यते

॥३॥

प्रबुद्धस्त्वं मुनिश्रेष्ठ तेनेदं तव कथ्यते ।

नातिदेवार्चने योग्यः पुष्पधूपचयो महान्

॥४॥

अव्युत्पन्नधियो ये हि बालपेलवचेतसः ।

कृत्रिमार्चामयं तेषां देवार्चनमुदाहृतम्

॥५॥

शमबोधाद्यभावे हि पुष्पाद्यैर्वार्चयन्ति हि ।

मिथ्यैव कल्पितैरेवमाकारे कल्पितात्मके

॥६॥

स्वसंकल्पकृतैः कृत्वा क्रमैरर्चनमादृताः ।

बालाः संतोषमायान्ति पुष्पधूपलवार्चनैः

॥७॥

स्वसंकल्पकृतैरर्थैः कृत्वा देवार्चनं मुधा ।

यतः कुतश्चिन्मिथ्यात्म फलमात्रं नयन्ति ते

॥८॥

पुष्पधूपार्चनं ब्रह्मन्कल्पितं बालबुद्धिषु ।

यत्स्याद्भवादृशां योग्यमर्चनं तद्वदाम्यहम्

॥९॥

अस्मदादिस्त्वसौ कश्चिद्देवो मतिमतां वर ।

देवस्त्रिभुवनाधारः परमात्मैव नेतरत्

॥१०॥

शिवः सर्वपदातीतः सर्वसंकल्पनातिगः ।

सर्वसंकल्पवलितो न सर्वो न च सर्वकः

॥११॥

दिक्कालाद्यनवच्छिन्नः सर्वारम्भप्रकाशकृत् ।

चिन्मात्रमूर्तिरमलो देव इत्युच्यते मुने

॥१२॥

संवित्सर्वकलातीता सर्वभावान्तरस्थिता ।

सर्वसत्ताप्रदा देवी सर्वसत्तापहारिणी

॥१३॥

ब्रह्म ब्रह्मन्सदसतोर्मध्यं तद्देव उच्यते ।

परमात्मपराभिख्यं तत्सदोमित्युदाहृतम्

॥१४॥

महासत्तास्वभावेन सर्वत्र समतां गतम् ।

महाचिदिति संप्रोक्तं परमार्थ इति श्रुतम्

॥१५॥

स्थितं सर्वत्र सर्वं तु लतास्वन्तर्यथा रसः ।

सत्तासामान्यरूपेण महासत्तात्मनापि च

॥१६॥

यच्चित्तत्त्वमरुन्धत्या यच्चित्तत्त्वं तवानघ ।

यच्चित्तत्त्वं च पार्वत्या यच्चित्तत्त्वं गणेषु च

॥१७॥

चित्तत्त्वं यन्ममेदं च चित्तत्त्वं यज्जगत्रये ।

तद्देव इति तत्त्वज्ञा विदुरुत्तमबुद्धयः

॥१८॥

पादपाण्यादिमानन्यो यो वा देवः प्रकल्प्यते ।

संविन्मात्रादृते ब्रह्मन्किंसारः किल कथ्यताम्

॥१९॥

चिन्मात्रमेव संसारसारः सकलसारताम् ।

गतः स देवः सर्वोऽहं तस्मात्सर्वमवाप्यते

॥२०॥

न स दूरे स्थितो ब्रह्मन्न दुष्प्रापः स कस्यचित् ।

संस्थितः स सदा देहे सर्वत्रैव च खे तथा

॥२१॥

स करोति स चाश्नाति स बिभर्ति प्रयाति च ।

सनिःश्वसिति संवेत्तासोऽङ्गान्यङ्गानि वेत्ति च

॥२२॥

सोऽस्यां विचित्रचेष्टायां प्रकाशिन्यां च तद्वशात् ।

तत्स्वरूपनिबद्धायां पुर्यामास्ते मुनीश्वर

॥२३॥

शरीरावसथायां च चलायां तत्प्रसादतः ।

सोऽस्यां गहनकोशायां ह्रद्गुहायां गुहेश्वरः

॥२४॥

मनःषष्ठेन्द्रियाचारसत्तातीतामलात्मनः ।

तस्य संव्यवहारार्थं संज्ञा चिदिति कल्पिता

॥२५॥

स एष चिन्मयः सूक्ष्मः सर्वव्यापी निरञ्जनः ।

इमं भास्वरमाभासं करोति न करोति च

॥२६॥

सा चिदत्यन्तविमला जगदर्थं जगत्क्रियाम् ।

इमां रञ्जयति प्राज्ञ रसेनेव मधुर्लताम्

॥२७॥

चारवो ये चमत्काराश्चितश्चिति यथास्थितम् ।

चमत्कुर्वन्ति किल ते तेन केचिन्नभोभिधाः

॥२८॥

केचिज्जीवाभिधानाश्च केचिच्चित्ताभिधानकाः ।

केचित्कलाभिधानाश्च केचिद्देशाभिधानकाः

॥२९॥

केचित्क्रियाभिधानाश्च केचिद्रव्याभिधानकाः ।

केचिद्भावविकारादिजात्यौचित्याभिधानकाः

॥३०॥

प्रकाशाभिधानाः केचित्केचिच्छैलतमोभिधाः ।

अर्केन्द्राद्यभिधाः केचित्केचिद्यक्षाभिधानकाः

॥३१॥

निरिच्छस्वस्वभावेन वसन्तेन यथाङ्कुरः ।

तन्यते तद्वदेवेयं जगल्लक्ष्मीश्चिदात्मना

॥३२॥

चिदेवासु समग्रासु सर्वदैवैकिकैव हि ।

त्रैलोक्याम्भोधिसंस्थासु शरीरजलजालिका

॥३३॥

शरीरपङ्कजभ्रान्तमनोभ्रमरसंभृताम् ।

आस्वादयति संकल्पमधुसत्तां चिदीश्वरी

॥३४॥

ससुरासुरगन्धर्वं सशैलार्णवकं जगत् ।

चिति स्थितं प्रवहति जलावर्ते जलं यथा

॥३५॥

बन्धचित्तमयाचारचारुचञ्चुरचक्रिकम् ।

संसारचक्रं चिच्चक्रे भ्राम्यति भ्रमभाजनम्

॥३६॥

चिच्चतुर्भुजरूपेण जघानासुरमण्डलम् ।

कालो जलदखण्डेन सायुधेन यथाऽऽतपम्

॥३७॥

चित्र्त्रिनेत्रतया ब्रह्मन्वृषशीतांशुचिह्नया ।

गौरीकमलिनीवक्रपद्मषट्पदतां गता

॥३८॥

विष्णोः पद्मालितामेत्य चिद्ध्यानाधीनमानसा ।

त्रयी नलिन्याः सरसीं धत्ते पैतामहीं स्थितिम्

॥३९॥

चितो ब्रह्मन्विचित्राणि शरीराणीह भूरिशः ।

पत्राणीव तरोर्हेम्नि केयूरादिक्रियेव च

॥४०॥

चित्समस्तसुरानीकपरिवन्दितपादया ।

त्रैलोक्यचूडामणितां धत्ते वासवलीलया

॥४१॥

चित्सुभास्वरतामेत्य त्रैलोक्योदरडम्बरे ।

पतत्युदेति संयाति स्वात्मन्येवाब्धिवारिवत्

॥४२॥

चिच्चन्द्रिका चतुर्दिक्षु अवभासं वितन्वती ।

विकासयति निःशेषभूतसत्ताकुमुद्वतीम्

॥४३॥

चिद्दर्पणमहालक्ष्मीस्त्रिजगत्प्रतिबिम्बितम् ।

गृह्णात्यनुग्रहेणान्तः स्वगर्भमिव गर्भिणी

॥४४॥

चिच्चतुर्दशभूतानां मण्डलानि महान्ति च ।

भूतीकरोति वारिश्रीः समुद्रस्वमिवाम्बुधिः

॥४५॥

विचित्रालोककुसुमा घनसंकल्पपल्लवा ।

व्योमकेदारिकारूढा सत्तौघफलशालिनी

॥४६॥

जीवजालरजःपुञ्जवासनारसरञ्जिता ।

संवेदनत्वग्वलिता चित्तेहाकलिकाकुला

॥४७॥

अतीतासंख्यत्रिजगत्केसरोज्ज्वलरूपिणी ।

अनारतस्पन्दमहाविलासोल्लासहासिनी

॥४८॥

सर्वर्तुपर्वपरुषा जडशैलादिगुल्मका ।

विग्रहग्रन्थिवलिता मूलाग्रपरिवर्तिता

॥४९॥

चिल्लतेयं विकसिता पेलवं सदसद्वपुः ।

विचित्रं दृश्यकुसुमं परामर्शासहं बहु

॥५०॥

अनयेह हि सर्वत्र च्छायाच्छमिव जन्यते ।

मन्यते तन्यते वस्तु गीयते क्रियतेऽपि च

॥५१॥

महाचितानया नित्यं भासन्ते भास्करादयः ।

देहाः स्वदन्ते च मिथस्तत्सच्चिज्जडविभ्रमैः

॥५२॥

चिता चावर्तवर्तिन्या सिद्धान्येव प्रनृत्यति ।

जगज्जालरजोलेखा तत्सत्ता दृश्यदेहिनी

॥५३॥

चित्सर्वं जगदारम्भमिमं प्रकटयत्यलम् ।

त्रैलोक्यदीपकशिखादीपो वर्णाश्रयं यथा

॥५४॥

चिच्चन्द्रबिम्बे विमले शशवत्प्राप्य संगमम् ।

सर्वत्र लक्ष्यतामेति पदार्थश्रीर्जगद्गता

॥५५॥

चिद्रसायनसेकेन पदार्थपटलावली ।

रूपमेति फलं चैव प्रावृट्सिक्तेव सल्लता

॥५६॥

चिच्छाययैव सर्वस्य जाड्यं सम्यगुदेति च ।

सर्वस्यास्य शरीरस्य गृहस्येव तमस्त्विह

॥५७॥

चिच्चमत्कृतयो देहे न भवेयुरिमा यदि ।

त्रैलोक्यदेहास्त्यक्त्वैते न स्पृशेयुः किलाकृतिम्

॥५८॥

चिदाकाशप्रकाशेऽस्मिन्संकल्पशिशुधारिणी ।

क्रियाकुलवधूर्देहगृहे स्फुरति चञ्चला

॥५९॥

चिदालोकं विना कस्य रसनाग्रे स्फुरन्नपि ।

कथं कदा प्रकटतामेति दृष्टः क्व वा रसः

॥६०॥

श्रृण्वङ्ग स्वाङ्गशाखोऽपि कुन्तलालिलतोऽप्यलम् ।

चिन्मज्जनं विना देहवृक्षः क इव राजते

॥६१॥

वर्धते विलुठत्यत्ति चिच्चराचरकारिणी ।

चिदेवास्तीतरन्नास्ति चिन्मात्रमिदमुत्थितम्

॥६२॥

श्रीवसिष्ठ उवाच ।

इत्युक्तवांस्तदा त्र्यक्षः सुधांशुस्वच्छया गिरा ।

पुनः पृष्टो मया राम सुधांशुस्वच्छया गिरा

॥६३॥

यदि सर्वगता देव चिदस्त्येका तदात्मकः ।

तदयं चावनिस्फारमयान्धेव न चेतति

॥६४॥

अयं चित्वान्पुरा भूत्वा चिद्धीनः संप्रति स्थितः ।

इतीयं कल्पना लोके प्रत्यक्षानुभवा कथम्

॥६५॥

ईश्वर उवाच ।

श्रृण्वेतदखिलं ब्रह्मन्यदा पृष्टं वदामि ते ।

महानयं त्वया प्रश्नः कृतो ब्रह्मविदां वर

॥६६॥

चिदस्ति हि शरीरेह सर्वभूतमयात्मिका ।

चलोन्मुखात्मिकैका तु निर्विकल्पा परा स्मृता

॥६७॥

संकल्पबुद्धा सैवान्तः स्वयमन्येव संस्थिता ।

संकल्पितेतरवरा दौःशील्यं स्त्री यथा गता

॥६८॥

स एव हि पुमान्कोपाद्यथेहान्य इव क्षणात् ।

भवत्येवं विकल्पाङ्का चित्स्वरूपान्यतां गता

॥६९॥

विकल्पकल्पिता ब्रह्मंश्चित्स्वरूपपरिच्युता ।

जाड्यं क्रमाद्भावयन्ती प्रयाति कलनापदम्

॥७०॥

चित्स्वयं चेत्यतामेति साकाशपरमाणुताम् ।

शब्दबीजात्मिकां पश्चाद्वाततन्मात्रगामिनी

॥७१॥

देशकालविभागान्ता तन्मात्रवलिता क्रमात् ।

जीवो भूत्वा भवत्याशु बुद्धिः पश्चादहं मनः

॥७२॥

मनस्त्वं समुपायाता संसारमवलम्बते ।

चण्डालोऽस्मीति मननाच्चण्डालत्वमिव द्विजः

॥७३॥

संकल्पिताऽप्रबोधेन जाड्याऽविश्वप्रबोधिनी ।

शबलं रूपमासाद्य संकल्पाद्यात्यनारतम्

॥७४॥

अनन्तसंकल्पमयी जाड्यसंकल्पपीवरा ।

चिज्जाड्यान्मोदमायाति पयः पाषाणतामिव

॥७५॥

ततश्चित्तं मनोमोहो मायेति विहिताभिधा ।

जाड्यं निपुणमाश्रित्य संसारे जायते मुने

॥७६॥

मोहमान्द्यमुपायाता तृष्णानिगडपीडिता ।

कामक्रोधभयोपेता भावाभावातिपातिनी

॥७७॥

त्यक्तानन्तनिजाभोगा व्यवच्छेदविकारिणी ।

दुःखदावानलातप्ता शोकाशिवकृशाशया

॥७८॥

इयमस्मीति भावेन शून्येन विकलीकृता ।

देहमात्रगृहीतास्था परं दैन्यमुपागता

॥७९॥

मग्ना मोहमहापङ्के जीर्णेव वनदन्तिनी ।

भावाभावलतादोला परिलोलशरीरका

॥८०॥

असारापारसंसारविकारव्यवहारिणी ।

तापोपतप्तहृदया रागतेजोनुरञ्जिता

॥८१॥

निजयूथपरिभ्रष्टा मृगीवावशतां गता ।

आविर्भावोदिताकारा तिरोभावेऽस्तमागता

॥८२॥

स्वसंकल्पोपयातासु भीता संभ्रमदृष्टिषु ।

पलायते वाष्वन्यासु वेतालेष्विव बालिका

॥८३॥

उष्ट्रीव मधुरं विन्दुं वाञ्छते भावितं सुखम् ।

अवान्तरपरिभ्रष्टा दोषाद्दोषं पतत्यधः

॥८४॥

परं वैषम्यमायाति संकटात्संकटं गता ।

दुःखाद्दुःखं निपतिता विपदो विपदि स्थिता

॥८५॥

नानानर्थगणोपेता चेष्टापरवशाशया ।

कष्टात्कष्टमनुप्राप्ता परितापानुतापिनी

॥८६॥

क्रमादाबद्धवैदग्ध्याद्वैदग्ध्याङ्गमुपागता ।

विचित्रबन्धनिर्माणपराक्रमपदं गता

॥८७॥

सर्वतः शङ्कते भीता प्राणात्ययमुपागता ।

क्षीणतोयेव शफरी विवर्तनपरायणा

॥८८॥

बाल्ये विवशसर्वार्था यौवने चिन्तयाऽऽवृता ।

वार्धकेऽप्यतिदुःखार्ता मृता कर्मवशीकृता

॥८९॥

जायते स्वर्गनगरे नागी पातालकोटरे ।

आसुरी दैत्यविवरे नरस्त्री वसुधातले

॥९०॥

राक्षसी राक्षसाधारे वानरी वनकोटरे ।

सिंही गिरीन्द्रशिखरे किन्नरी कुलपर्वते

॥९१॥

विद्याधरी देवगिरौ व्याली च वनगर्तके ।

लता तरौ खगी नीडे वीरुत्सानौ वने मृगी

॥९२॥

शेते नारायणोऽम्भोधौ ध्यानी ब्रह्मपुरेऽब्जजः ।

कान्तागतो हरः शैले स्वर्गे सुरवरो हरिः

॥९३॥

दिनं करोति तीक्ष्णांशुर्वर्षत्यम्बुधरो जलम् ।

करोति श्वसनं संवित्सपर्वतमहोदधिम्

॥९४॥

ऋतुचक्रं प्रवहति सहसा कालमण्डलम् ।

दिनरात्रितयोपैति तेजस्तिमिरतां क्रमात्

॥९५॥

क्वचिद्बीजरसोल्लासात्क्वचित्पाषाणमौनिनी ।

क्वचिन्नदी रसवती क्वचित्कुमुदविस्तृतिः

॥९६॥

क्वचित्फलावलीपाकैः क्वचित्काष्ठानलादिभिः ।

क्वचिच्छैत्यहिमद्वारि क्वचित्खादि न किंचन

॥९७॥

क्वचिदुज्ज्वलिताकारा क्वचित्कष्टा शिला क्वचित् ।

क्वचिन्नीलाथ हरिता क्वचिदग्निः क्वचिन्मही

॥९८॥

सर्वात्मत्वात्सर्वगत्वात्सर्वशक्तित्वयोगतः ।

सर्वत्वादेवंरूपैव खादप्यच्छैव सा परा

॥९९॥

चिच्चिनोति यथात्मानं येन यत्र यदा यदा ।

तत्तथानुभवत्यम्बु स्पन्दाद्वीच्यादितां यथा

॥१००॥

हंसी क्रौञ्ची बकी काकी सारसी तुरगी वृकी ।

बकी बलाका हरिणी वानरी किन्नरी शुनी

॥१०१॥

वटीका पिङ्गली शाली मक्षिका भ्रमरी शुकी ।

धीः श्रीर्ह्रीः प्रीती रतिश्च शंबरी शर्वरी शशी

॥१०२॥

एतास्वन्यासु चान्यासु परिभ्रमति योनिषु ।

विवर्तमानसंसारे जलावर्ते तृणं यथा

॥१०३॥

बिभेत्यथ स्वसंकल्पात्स्वशब्दादिव गर्दभी ।

नानया सदृगन्यास्ति मुग्धा बाला चलाऽबला

॥१०४॥

एषा सा कथिता तुभ्यं जीवशक्तिर्महामुने ।

प्राकृताचारविवशा वराकी पशुधर्मिणी

॥१०५॥

कर्मात्मेत्यभिधां प्राप्ता शोच्यास्य परमात्मनः ।

अनन्तं दुःखबहुलं स्वयं विभ्रममाश्रिता

॥१०६॥

असदेवानयाक्रान्तं विनाशि सहजं मलम् ।

तण्डुलेनेव कञ्चूकमनन्ययाऽव्यवस्थितम्

॥१०७॥

अनन्तविभवभ्रष्टा दौर्भाग्यपरितापिनी ।

शोचन्ती प्राप्य जीवत्वं भर्तृहीनेव नायिका

॥१०८॥

जडगतेरवलोकय शक्ततां

निजपदस्मरणेन विनेह चित् ।

व्रजति कष्टमधः पतनाय या

यदरघट्टघटीघनपीठवत्

॥१०९॥

इत्यार्षे श्रीवा०रामायणे वाल्मीकीये दे०मो० निर्वाणप्रकरणे पू० शिवपूजोपाख्याने चेत्योन्मुखचिद्विचारो नाम त्रिंशः सर्गः ।।३० ।।