मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ९१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 91

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

ततोऽहमभवं तेजस्तेजोधारणयेद्धया ।

चन्द्रार्कतारकाग्न्यादिविचित्रावयवान्वितम्

॥१॥

नित्यं सत्त्वप्रधानत्वात्प्रकाशाकृतिराजगत् ।

सर्वं दृश्यमृते सर्वचौरध्वान्तप्रतापयुक्

॥२॥

दीपादिभिः शनैः स्निग्धैर्दशाशतविहारिभिः ।

प्रत्यक्षीकृतसर्वार्थं प्रतिगेहं सुराजवत्

॥३॥

लोकालोके च हृषितैश्चन्द्रार्काद्यंशुरोमभिः ।

परप्रकाशैकरतैर्दूरोत्क्षिप्ताम्बराम्बरम्

॥४॥

अन्धकारस्य दैन्यस्य समस्तगुणनाशिनः ।

दृश्यं सदृश्यमनिशं सर्वस्य गुणशालिनः

॥५॥

तमस्तमालपरशुः परशुद्धिकरं पदम् ।

सुवर्णमणिमाणिक्यमुक्तादिजनजीवितम्

॥६॥

शुक्लकृष्णारुणादीनां नित्यं ज्योत्स्नाङ्गशायिनाम् ।

पुत्राणामिव वर्णानां सर्वेषां देहदः पिता

॥७॥

घनस्नेहरसं पृथ्व्या रक्षितानलवेधनम् ।

गृहं प्रति घनानन्दैर्वृतदीपकपुत्रकम्

॥८॥

दृष्टं पातालकेष्वीषत्तमोरूपेषु पावकम् ।

अर्धदृष्टं रजोरूपे भूतले भूतमालिते

॥९॥

सत्त्वात्मसु महासत्त्वं नित्यत्वं देवसद्मसु ।

जगज्जीर्णकुटीदीपः कूपोम्भस्तमसोर्महान्

॥१०॥

दिग्वधूविमलादर्शो निशानीहारमारुतः ।

सत्त्वं चन्द्रार्कवह्नीनां कुङ्कुमालेपनं दिवः

॥११॥

केदारं दिनसस्यानां तमोच्छूनामनुग्रहः ।

नभःकाचबृहत्पात्रक्षालनाम्बु समुल्लसत्

॥१२॥

सत्ताप्रदतयार्थानां प्रकाशकतयापि च ।

चिन्मात्रपरमार्थस्य सहोदर इवानुजः

॥१३॥

क्रियाकमलिनीभानुर्भूतलोदरजीवितम् ।

रूपालोकमनस्कारचमत्कारश्चितेर्यथा

॥१४॥

नभस्तलगतासंख्यनक्षत्रमणिमालितः ।

दिनर्तुवत्सराबृंह्यवाडवाग्न्यादिफेनिलः

॥१५॥

चन्द्रार्कादितरङ्गान्तरजडं पङ्किलो महान् ।

बृहद्ब्रह्माण्डखातस्थो नित्यमेकार्णवोऽक्षयः

॥१६॥

हेमादिषु सुवर्णत्वं नरादिषु पराक्रमः ।

काचकच्यं च रत्नादौ वर्षादिष्ववभासनम्

॥१७॥

ज्योत्स्ना मुखेन्दुबिम्बेषु पक्ष्मलेक्षणलक्ष्मसु ।

स्रवत्स्नेहामृतापूरो हाससौहार्दभासनम्

॥१८॥

कपोलबाहुनेत्राक्षिभ्रूकरालकलासकः ।

निजोऽजेयतया जातो विलासः कामिनीजने

॥१९॥

तृणीकृतत्रिभुवनचपेटास्फोटितद्विषाम् ।

शिरःसु वज्रीकरणं वीर्यं सिंहादिचेतसि

॥२०॥

कटुकङ्कटकुट्टाकखड्गसंघट्टटांकृतैः ।

पटुस्फुटाटोपरटि भटेष्वटनमुद्भटम्

॥२१॥

देवेषु दानवारित्वं सुरारित्वं सुरादिषु ।

सर्वभूतेषु सोजस्त्वमुन्नामः स्थावरादिषु

॥२२॥

अथ ते मरुवद्भास्वांस्तत्राहमनुभूतवान् ।

जगदाकाशकोशेषु तेषु तामरसेक्षण

॥२३॥

दिगन्तदशनिस्तीर्णैः करजालैर्जगत्खगम् ।

गृह्णदद्व्यङ्गमर्कत्वं ग्रामवदृष्टभूतलम्

॥२४॥

कामोत्पले कोशचक्रं वाडवं तिमिरार्णवे ।

ब्रह्माण्डसदने दीपं वृक्षं दिनफलावलेः

॥२५॥

रसायनह्रदाकारमिन्दुत्वं वदनं दिवः ।

निशानिशाचरीहासं विकासं रजनीविशाम्

॥२६॥

जगल्लावण्यलक्ष्मीणां सर्वासामुपमास्पदम् ।

रजनीरोहिणीनारीकैरवाणां परं प्रियम्

॥२७॥

नेत्रवृन्दस्य वक्त्रस्य द्युलतापुष्पजालकम् ।

स्वर्गौघमशकव्यूहं तारकापटलं मृदु

॥२८॥

वणिङ्मात्रे वणिग्घस्ततुलातोलनदोलितम् ।

रत्नत्वं जलकल्लोलहस्तान्दोलनमब्धिभिः

॥२९॥

अब्धाऽब्धौ शफरावर्तमब्धा गोमञ्जरीगणः ।

अब्दादौ दावदहनं वैद्युतं द्योतनं तनौ

॥३०॥

दारुदारणदुर्वारदीप्तं ज्वलनमाततम् ।

यज्ञाग्निदाहकल्याणं विस्फोटकठिनारवम्

॥३१॥

कचत्काञ्चनमाणिक्यमुक्तामणिमयं महः ।

तपस्तां नीतमाक्षिप्य पाण्डित्यमिव पामरैः

॥३२॥

विभ्रान्तं स्तनशृङ्गेषु मुक्ताहारतया तया ।

असुरोरगगन्धर्वनरनायकयोषिताम्

॥३३॥

पादाहतिं गतं मार्गे तिलकत्वं वधूमुखे ।

खद्योतेन मया लब्धं पश्यावस्थासु चापलम्

॥३४॥

क्वचिद्विद्युत्तया तेषु शफर्या चार्णवेष्विव ।

खस्थेषु विकृतं चारु वार्यावर्तविराविषु

॥३५॥

क्वचिद्दीपतयानीय कलिकाकोमलाङ्गया ।

अन्तःपुरेषु कान्तानां सुरतालोकनं कृतम्

॥३६॥

क्वचित्कज्जलजालस्य ज्वालाकनकदाकृते ।

खेदिना घनकूर्माभं सङ्गेनैव स्वकोटरे

॥३७॥

कल्पान्तेषु क्वचित्सर्वजगद्भ्रमघनश्रमात् ।

खे कज्जलासिते लीनं रुद्रेभ इव विद्युता

॥३८॥

क्वचिदाकल्पमापीय वाडवाग्नितया जलम् ।

जगत्सु गगनेष्वन्ते ननृते जलराशिषु

॥३९॥

क्वचिदुल्मुकदन्तेन मया ज्वालाभुजात्मना ।

विलोलधूमावर्तोग्रकुन्तलेनाकुलौजसा

॥४०॥

पुरपल्वलदाहेषु कवलीकृतजन्तुना ।

कृताः कृताष्ट काष्ठादिपदार्थाः खादनोचिताः

॥४१॥

हतेन शस्त्रपाषाणैरयःपिण्डादिवासिना ।

हन्तृदाहार्थमुद्गीर्णाः कणकोपलताः क्वचित्

॥४२॥

क्वचिन्महाशिलाकोशे पाषाणमणिना मया ।

समस्तभूतादृश्येन स्थितं युगशतान्यपि

॥४३॥

श्रीराम उवाच ।

मुने तस्यामवस्थायामनुभूतं त्वया सुखम् ।

उत दुःखमिति ब्रूहि बोधाय मम मानद

॥४४॥

श्रीवसिष्ठ उवाच ।

यथा याति नरः सुप्तो जडतां चेतनोऽपि सन् ।

चिद्व्योम गच्छेद्दृश्यत्वं तथा जाड्यं प्रचेतति

॥४५॥

आत्मानं चेतति ब्रह्म पृथ्व्यादीव यदा तदा ।

सुप्तं जडमिवास्तेऽन्तः स्यादस्य न तदन्यथा

॥४६॥

वस्तुतस्तस्य खोर्व्यादि नासद्रूपं न सन्मयम् ।

द्रष्टृदृश्यमिवाभाति ब्रह्म चैतत्समं स्थितम्

॥४७॥

एतत्सत्यपरिज्ञानं यस्योत्पन्नमखण्डितम् ।

न तस्य पञ्चभूतानि न दृश्यद्रष्टृविभ्रमः

॥४८॥

तदा मयैवं शुद्धेन तत्कृतं ब्रह्मरूपिणा ।

ब्रह्मरूपादृते किंचिदेतत्कर्तुर्न युज्यते

॥४९॥

यदा सर्वमिदं दृश्यं जातं ब्रह्म निरामयम् ।

तदा ब्रह्मपदस्थेन मयात्मैवैवमीक्षितः

॥५०॥

यदा पुनरहं पञ्चभूतानीत्येव भासयन् ।

भवामि जड एवाहं तदा चेतामि किं किल

॥५१॥

सुप्तोऽस्मीति दृढं भावं बुद्धवांश्चेतनोऽपि सन् ।

नैद्रमेवैत्यलं जाड्यं लसच्चेतति किंचन

॥५२॥

यस्तु ज्ञानप्रबुद्धात्मा देहस्तस्याधिभौतिकः ।

शाम्यत्युदेति विमलो बोधात्मैवातिवाहिकः

॥५३॥

आतिवाहिकदेहेन तेन बोधात्मनाणुना ।

बृहता वा यथाकामं निर्वाणात्मावतिष्ठते

॥५४॥

बोधदेहेन हृदयं शिलानामप्यभेदिनाम् ।

प्रविश्याशु विनिर्याति याति पातालमम्बरम्

॥५५॥

तस्मान्मया पुरा राम बोधदेहेन तत्तदा ।

तथा कृतमनन्तेन चिन्मयव्योमरूपिणा

॥५६॥

वज्रपाषाणपातालनभोम्बरगमागमान् ।

कुर्वतस्तादृशस्याशु न विघ्न उपजायते

॥५७॥

बोधमात्रशरीरेण यावदास्ते जडेष्वसौ ।

पदार्थेषु तथाभूतस्तावत्तत्रावतिष्ठते

॥५८॥

स्वेच्छयैव चलित्वाथ ततोऽन्यत्र प्रयाति चेत् ।

तच्चैव स्थितिं याति तत्तथैवागतिर्यथा

॥५९॥

बोधमात्रं विदुर्देहमातिवाहिकमव्ययम् ।

इदानीं त्वं तमेवेह बुधोऽनुभवसि स्वयम्

॥६०॥

चिन्मात्रव्योमरूपोऽस्मीत्यर्कादाविति बोधतः ।

आत्मैवास्तमुपानीतः सन्नेवासन्निवात्मना

॥६१॥

स्थितं स्वप्नादिजगति तमसेवासतेव च ।

आवृतेनेव वान्यासामलभ्येन सता दृशम्

॥६२॥

तरङ्गलेखयाङ्गारसरितः स्वाङ्गलग्नया ।

मनोराज्यश्रियेवाशुक् प्रोत्पन्नस्तद्वदेहया

॥६३॥

कज्जलालिकया वह्निविपिनं पुष्पशोभया ।

फुल्लस्थलाम्बुजाकारं किंशुकाशोकरूपया

॥६४॥

विततारम्भयाप्युच्चैर्ज्वालाज्वलतयेद्धया ।

उपोत्थायाङ्ग गलितं खललक्ष्म्येव लीलया

॥६५॥

तेजस्तयापि परमाणुकणोदरेऽपि

दृष्टेत्थमेवमिह राम मया जगच्छ्रीः ।

अन्या च सा न च चिदम्बरतः परस्मा-

त्स्वप्ने पुराचलगणोऽत्र निदर्शनं वः

॥६६॥