मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १९१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 191

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

एवं चेत्तन्मुनिश्रेष्ठ परमार्थमयं जगत् ।

सर्वदा सर्वभावात्मा नोदेति न च शाम्यति

॥१॥

भ्रान्तिरेवेयमाभाति जगदाभासरूपिणी ।

भ्रान्तिरेवापि वा नैव ब्रह्मसत्तैव केवला

॥२॥

श्रीवसिष्ठ उवाच ।

काकतालीयवद्ब्रह्म यद्भातीवात्मनात्मनि ।

स तेनैवात्मनात्मैव जगदित्यवबुध्यते

॥३॥

श्रीराम उवाच ।

कथं तपत्यहोऽदिक्कं सर्गस्यादौ परत्र च ।

कथं भित्त्या विना भाति वद दीपप्रभा मुने

॥४॥

श्रीवसिष्ठ उवाच ।

इत्थंरूपमिदं भाति चितिरूपप्रभाप्रभा ।

पश्य सैवात्मनाऽऽस्ते यत्प्रकाशादिभिरेव च

॥५॥

भित्तौ प्रकाशो भातीव तत्कुड्यं भासनं च तत् ।

दृश्यस्यासंभवादादौ वक्ता द्रष्टा प्रदृश्यताम्

॥६॥

तस्माद्द्रष्टास्ति नो दृश्यं नैवास्तीदमनामयम् ।

चित्प्रभैवात्मना भित्तिर्भवत्याभासनं तथा

॥७॥

द्रष्टृदृश्यात्मिकैकैव स्वात्मनैव विराजते ।

स्वप्नादिषु यथेहाद्य द्रष्टृदृश्यात्मिका सती

॥८॥

चिद्भात्येव हि सर्गादौ कचन्ती भाति सर्गवत् ।

भासनीयं च भानं च रूपं यत्र स्वयंप्रभा

॥९॥

एकैव चित्र्त्रयं भूत्वा सर्गादौ भाति सर्गवत् ।

एष एव स्वभावोऽस्या यदेवं भाति भासुरा

॥१०॥

एतत्तु स्वप्नसंकल्पनगरेष्वनुभूयते ।

इत्थं नाम तपत्येषा चिद्दीप्तिः प्रथमोदिता

॥११॥

नभस्येव नभोरूपा यदिदं भासते जगत् ।

अनाद्यन्तमिदं तस्याः सर्गाः सर्गात्मभासनम्

॥१२॥

स्वभावभूतमस्माकं त्विदं भाति महात्मनाम् ।

भास्यभासकसंवित्तिर्नश्यति प्रतिभामिता

॥१३॥

तदा तु नाम सर्गादौ नासीद्भास्यो न भासकः ।

मिथ्याज्ञानवशादेव स्थाणौ पुंस्प्रत्ययो यथा

॥१४॥

तथात्मनि द्विताभानाच्चित्ते द्वैतविभासनम् ।

सर्गादौ न च भास्योस्ति न च वा नास्ति भासकः

॥१५॥

कारणाभावतोद्वैतं चिद्व्योमाभाति केवलम् ।

किं नाम कारणं ब्रूहि सर्गादौ चिति वस्तुतः

॥१६॥

अभावादर्थदृष्टीनां चिदेवेत्थं प्रकाशते ।

जगद्भानमिदं यत्तन्न जाग्रन्न सुषुप्तकम्

॥१७॥

न स्वप्नोसंभवाद्दृश्यं केवलं ब्रह्म भासते ।

चिन्मात्रव्योमसर्गादावित्थं कचकचायते

॥१८॥

यत्स्वमेव वपुर्वेत्ति जगदित्यजगन्मयम् ।

चिन्मात्रव्योमसर्गादावित्थं भाति विकासनम्

॥१९॥

यदिदं जगदित्येव शून्यत्वाम्बरयोरिव

॥२०॥

बुद्ध्वा च यावत्स्वनुभूतियुक्तं

स्थातव्यमेतेन विकल्पमुक्तम् ।

पाषाणमौनं कुजनेन तूक्तं

न ग्राह्यमज्ञेन हि भुक्तमुक्तम्

॥२१॥

इत्यार्षे श्रीवासिष्ठम० वा० दे० मो० नि० उ० महावादबोधनं ( तत्त्वानुसंधानं) नामैकनवत्यधिकशततमः सर्गः ।। १९१ ।।