मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ६९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 69

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

जगदङ्गमनाभासमदृश्यं दृश्यवत्स्थितम् ।

परया दृश्यते दृष्ट्या तद्ब्रह्मैव निरामयम्

॥१॥

तत्र शैलसरित्स्रोतोलोकालोकान्तरभ्रमाः ।

भान्ति ते परमादर्शे महाव्योमनि बिम्बिताः

॥२॥

सा प्रविष्टा ततः सर्गं तमनर्गलचेष्टिता ।

अहमप्यविशं तत्र संकल्पात्मा तया सह

॥३॥

यावत्सा तत्र वैरिञ्चं लोकमासाद्य सोद्यमा ।

उपविष्टा विरिञ्चस्य पुरः परमशोभना

॥४॥

वक्त्ययं मुनिशार्दूल पतिर्मे पाति मामिमाम् ।

विवाहार्थमनेनाहं जनिता मनसा पुरा

॥५॥

पुराणः पुरुषोऽप्येष मामप्यद्य जरागताम् ।

न विवाहितवांस्तेन विरागमहमागता

॥६॥

विरागमेषोऽप्यायातो गन्तुमिच्छति तत्पदम् ।

यत्र न द्रष्टता नैव दृश्यता न तु शून्यता

॥७॥

महाप्रलय आसन्नो जगत्यस्मिंश्च संप्रति ।

ध्यानान्न च चलत्येषु शैलमौनादिवाचलः

॥८॥

तस्मान्मामेनमपि च बोधयित्वा मुनीश्वर ।

आमहाकल्पसर्गादौ परमे पथि योजय

॥९॥

इत्युक्त्वा मामसौ तस्य बोधायेदमुवाच ह ।

नाथायं मुनिनाथोऽद्य सद्म संप्राप्तवानिदम्

॥१०॥

एषोऽन्यस्मिञ्जगद्गेहे ब्रह्मणस्तनयो मुनिः ।

पूजयैनं गृहायातं गृहस्थगृहपूजया

॥११॥

बुध्यतामर्घ्यपाद्येन पूज्यतां मुनिपुङ्गवः ।

महन्महत्सपर्याभिर्महात्मभ्यो हि रोचते

॥१२॥

तयेत्युक्ते महाबुद्धिर्बुबुधे स समाधितः ।

स्वसंवित्तिद्रवात्मत्वादावर्त इव वारिधौ

॥१३॥

शनैरुन्मीलयामास नयने नयकोविदः ।

मधुः शिशिरसंशान्ताववनौ कुसुमे यथा

॥१४॥

शनैः प्रकटयामासुस्तान्यङ्गान्यस्य संविदम् ।

मधुपल्लवजालानि नवानीव नवं रसम्

॥१५॥

सुरसिद्धाप्सरःसङ्घाः समाजग्मुः समंततः ।

यथा हंसालयो लोलाः प्रातर्विकसितं सरः

॥१६॥

ददर्शासौ पुरःप्राप्तं मां च तां च विलासिनीम् ।

उवाचाथ वचो वेधाः प्रणवस्वरसुन्दरम्

॥१७॥

अन्यजगद्ब्रह्मोवाच ।

करामलकवद्दृष्टसंसारासारसार हे ।

ज्ञानामृतमहाम्भोद मुने स्वागतमस्तु ते

॥१८॥

पदवीमसि संप्राप्त इमामतिदवीयसीम् ।

दूराध्वसुपरिश्रान्त इदमासनमास्यताम्

॥१९॥

इत्युक्ते तेन भगवन्नभिवादय इत्यहम् ।

वदन्मणिमये पीठे निविष्टो दृष्टिदर्शिते

॥२०॥

अथामरर्षिगन्धर्वमुनिविद्याधरोदिताः ।

प्रस्तुताः स्तुतयः पूजा नतयः स्थितिनीतयः

॥२१॥

ततो मुहूर्तमात्रेण सर्वभूतगणोदिते ।

शान्ते प्रणतिसंरम्भे तस्योक्तं ब्रह्मणो मया

॥२२॥

किमिदं भूतभव्येश यदियं मामुपागता ।

वक्ति ज्ञानगिरास्मांस्त्वं बोधयेति प्रयत्नतः

॥२३॥

भवान्भूतेश्वरो देव सकलज्ञानपारगः ।

इयं तु काममूर्खा किं ब्रूते ब्रूहि जगत्पते

॥२४॥

कथमेषा त्वया देव जायार्थं जनिता सती ।

नेह जायापदं नीता नीता विरसतां कथम्

॥२५॥

अन्यजगद्ब्रह्मोवाच ।

मुने शृणु यथावृत्तमिदं ते कथयाम्यहम् ।

यथावृत्तमशेषेण कथनीयं यतः सताम्

॥२६॥

अस्ति तावदजं शान्तमजरं किंचिदेव सत् ।

ततश्चित्कचनैकान्तरूपिणः कचितोऽस्म्यहम्

॥२७॥