सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः
श्रीवसिष्ठ उवाच ।
इति चित्तविलासेन चिरमुत्प्रेक्षितैः प्रियैः ।
प्रणयैर्भार्गवस्यासीत्तुष्टये सुसमागमः
॥१॥मन्दारमालाकलया विबुधासवमत्तया ।
तदा तेन तया सार्धं द्वितीयेनामलेन्दुना
॥२॥विहृतं मत्तहंसासु हेमपङ्कजिनीषु च ।
तटीष्वमरवाहिन्याः सह चारणकिंनरैः
॥३॥पीतमिन्दुदलस्यन्दैर्देवैः सह रसायनम् ।
पारिजातलताजालनिलयेषु विलासिना
॥४॥चारुचैत्ररथोद्यानलतालोलासुदोलया ।
चिरं विलसितं व्यग्रैः सह विद्याधरीगणैः
॥५॥नन्दनोपवनाभोगो मन्दरेणेव वारिधिः ।
भृशमालोड्यतां नीतः प्रथमैः सह शाम्भवैः
॥६॥बालहेमलताजालजटालासु नदीषु च ।
भ्रान्तमुन्मत्तनागेन मैरवीष्वज्जिनीष्विव
॥७॥कैलासवनकुञ्जेषु तया सह विलासिना ।
हरेन्दुधवला रात्र्यः क्षिपिता गणगीतिभिः
॥८॥गन्धमादनशैलस्य विश्रम्योपरि सानुषु ।
सा तेन कनकाम्भोजैरापादमभिमण्डिता
॥९॥लोकालोकतटान्तेषु विचित्राश्चर्यहारिषु ।
क्रीडितं कृतहासेन राम तेन तया सह
॥१०॥मन्दरान्तरकच्छेषु सार्धं हरिणशावकैः ।
अवसत्स समाः षष्टिं कल्पितामरमन्दिरे
॥११॥क्षीरार्णवतटीष्वस्य वनितासहचारिणः ।
क्षीणं कृतयुगादर्धं श्वेतद्वीपजनैः सह
॥१२॥गन्धर्वनगरोद्यानलीलाविरचनैरसौ ।
स्रष्टानन्तजगत्सृष्टेः कालस्यानुकृतिं गतः
॥१३॥अथावसदसौ शुक्रः पुरन्दरपुरे पुनः ।
सुखं चतुर्युगान्यष्टौ हरिणेक्षणया सह
॥१४॥पुण्यक्षयानुसंधानात्ततश्चावनिमण्डले ।
तयैव सह मानिन्या पपातोपहताकृतिः
॥१५॥परालूनसमस्ताङ्गो हृतस्यन्दननन्दनः ।
चिन्तापरवशो ध्वस्तः समितीव हतो भटः
॥१६॥पतितस्यावनौ तस्य चिन्तया सह दीर्घया ।
शरीरं शतधा जातं शिलापातीव निर्झरः
॥१७॥संशीर्णयोर्देहकयोश्चित्तके व्यसनाविले ।
विचेरतुस्तयोर्व्योम्नि निर्नीडौ विहगौ यथा
॥१८॥तत्राविविशतुश्चान्द्रं ते चित्ते रश्मिजालकम् ।
प्रालेयतामुपेत्याशु शालितामथ जग्मतुः
॥१९॥शालींस्तान्भुक्तवान्पक्वान्दशार्णेषु द्विजोत्तमः ।
स शुक्रः शुक्रतामेत्य तद्भार्यातनयोऽभवत्
॥२०॥ततो मुनीनां संसर्गात्तपस्युग्रे व्यवस्थितः ।
अवसन्मेरुगहने मन्वन्तरमनिन्दितः
॥२१॥तत्र तस्य समुत्पन्नो मृग्याः पुत्रो नराकृतिः ।
तत्स्नेहेन परं मोहं पुनरप्याययौ क्षणात्
॥२२॥पुत्रस्यास्य धनं मेऽस्तु गुणाश्चायुश्च शाश्वतम् ।
इत्यनारतचिन्ताभिर्जहौ सत्यामवस्थितिम्
॥२३॥धर्मचिन्तापरिभ्रंशात्पुत्रार्थं भोगचिन्तया ।
क्षीणायुषं तमहरन्मृत्युः सर्प इवानिलम्
॥२४॥भोगैकचिन्तया सार्धं सममुत्क्रान्तचेतनः ।
प्राप्य मद्रेशपुत्रत्वमासीन्मद्रमहीपतिः
॥२५॥मद्रदेशे चिरं कृत्वा राज्यमुत्सन्नशात्रवम् ।
जरामभ्याजगामात्र हिमाशनिरिवाम्बुजम्
॥२६॥मद्रराजतनुं चारुं तपोवासनया सह ।
तत्याज तेन जातोऽसौ तपस्वी तापसात्मजः
॥२७॥समङ्गाया महानद्यास्तटमासाद्य तापसः ।
तपस्तेपे महाबुद्धिः स राम विगतज्वरः
॥२८॥विविधजन्मदशां विविधाशयः
समनुभूय शरीरपरम्पराः ।
सुखमतिष्ठदसौ भृगुनन्दनो
वरनदीसुतटे दृढवृक्षवत्
॥२९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे भार्गवोपाख्याने शुक्रविविधजन्मानुभवो नामाष्टमः सर्गः ।। ८ ।।