मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १०६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 106

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

कीदृशं स्याच्चिदाकाशं तद्ब्रह्मन्ब्रह्म यत्परम् ।

भूयः कथय तृप्तिर्हि श्रृण्वतो नास्ति मेऽमृतम्

॥१॥

श्रीवसिष्ठ उवाच ।

समयोर्यमयोर्भ्रात्रोर्व्यवहाराय नामनी ।

यद्वत्क्रियेते द्वे तद्वज्जाग्रत्स्वप्नशिलामये

॥२॥

वस्तुतस्त्वनयोर्भेदो न द्वयोः पयसोरिव ।

द्वयमप्येकमेवैतच्चिन्मात्रं व्योम निर्मलम्

॥३॥

देशाद्देशान्तरं दूरं प्राप्तायाः संविदो वपुः ।

निमिषेणैव तन्मध्ये चिदाकाशं तदुच्यते

॥४॥

यादृशस्तिष्ठतः स्वच्छं रसमाकर्षतस्तरोः ।

भवेद्भावो नभःस्वच्छस्तादृशं चिन्नभः स्मृतम्

॥५॥

विनिवृत्ताखिलेच्छस्य पुंसः संशान्तचेतसः ।

यादृशः स्यात्समो भावस्तादृशं चिन्नभः स्मृतम्

॥६॥

अनागतायां निद्रायां मनोविषयसंक्षये ।

पुंसः स्वस्थस्य यो भावः स चिदाकाश उच्यते

॥७॥

तृणगुल्मलतादीनां वृद्धिमागच्छतामृतौ ।

यः स्यादुन्ममतो भावः स चिदाकाश उच्यते

॥८॥

रूपालोकमनस्कारविमुक्तस्यामृतस्य यः ।

भावः पुंसः शरद्वद्योमविशदस्तच्चिदम्बरम्

॥९॥

यदेतदासनं सृष्टं काष्ठपाषाणभूभृताम् ।

चेतनानां च सत्तात्म चिदाकाशः स उच्यते

॥१०॥

द्रष्टृदर्शनदृश्यानां त्रयाणामुदयो यतः ।

यत्र वास्तमयश्चित्खं तद्विद्धि विगतामयम्

॥११॥

यत उद्यन्ति यस्मिंश्च चित्राः परिणमन्त्यलम् ।

पदार्थानुभवाः सर्वे चिदाकाशः स उच्यते

॥१२॥

यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।

यश्च सर्वमयो नित्यं स चिदाकाश उच्यते

॥१३॥

दिवि भूमौ बहिश्चान्तस्तथान्यस्य समाभिधः ।

यो विभात्यवभासात्मा चिदाकाशः स उच्यते

॥१४॥

यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति ।

सदसदुत्थितं विश्वं विश्वाङ्गे तच्चिदम्बरम्

॥१५॥

यस्मात्सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः ।

यस्मिंश्चैव प्रलीयन्ते यन्मयास्तच्चिदम्बरम्

॥१६॥

निद्रायां विनिवृत्तायां यतो विश्वं प्रवर्तते ।

निवर्तते च यच्छान्तौ तच्चिदम्बरमुच्यते

॥१७॥

यस्योन्मेषनिमेषाभ्यां जगत्सत्तालयोदयौ ।

स्वानुभूत्यात्मकं स्वान्तः स्थितं तद्विद्धिचिन्नभः

॥१८॥

नेदं नेदं तदित्येवं सर्वं निर्णीय सर्वथा ।

यन्न किंचित्सदा सर्वं तच्चिद्व्योमेति कथ्यते

॥१९॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।

दूरतोऽर्धनिमेषेण तच्चिन्मात्रवपुः स्मृतम्

॥२०॥

विश्वं तन्मयमेवेदं यथा भूतं यथा स्थितम् ।

रूपालोकमनस्कारैर्युक्तमप्येवमीदृशम्

॥२१॥

ईषदुन्मेषणादेतदन्यतामिव गच्छति ।

अनन्यरूपमपि सच्चिद्व्योम विमलाकृति

॥२२॥

पश्यन्नेवेन्द्रियैरर्थान्नूनं निर्वासनाशयः ।

प्रबुद्ध एवैकघनः सुषुप्तावस्थितो भव

॥२३॥

निर्वासनः शान्तमना वद व्रज पिबाहर ।

पाषाण इव संजीवो नित्यं सुघनमौनवान्

॥२४॥

इदं न संभवत्येव दृश्यं पश्यसि यत्पुरः ।

मृगतृष्णाजलमिव द्वैतमिन्दाविवोदितम्

॥२५॥

इदमादावनुत्पन्नं कारणाभावतः किल ।

कारणेन विना कार्यं न हि नामोपपद्यते

॥२६॥

यद्वोपपद्यते किंचित्तदकारणकोद्भवम् ।

यथास्थितं परं रूपमुद्भूतमिव लक्ष्यते

॥२७॥

तद्यथास्थितमेवाङ्ग पूर्वरूपमवस्थितम् ।

भवत्यद्वयमेवाच्छं द्वयेनाप्युपलक्षितम्

॥२८॥

तत्रेदंप्रत्ययः प्रौढो भवत्यनुभवो हि यः ।

समायातमिदं भ्रान्तं तत्स्वप्नस्त्रीसमं विदुः

॥२९॥

तस्माद्दृश्यं न चोत्पन्नं नैवास्ति न भविष्यति ।

न च नश्यति यन्नास्ति तस्य किं नाम नश्यति

॥३०॥

तत्तदेव परं शान्तं चिद्व्योमैव तथा स्थितम् ।

स्वरूपादच्युतं स्वस्थं सौम्यं जगदिवोदितम्

॥३१॥

न हीदमग्रे यद्दृष्टं दृश्यं तत्सत्कदाचन ।

न चापि द्रष्टा दृष्टार्थाभावे क्व द्रष्टृता किल

॥३२॥

श्रीराम उवाच ।

एवं चेत्तद्वद ब्रह्मन्द्रष्टृदृश्यावभासनम् ।

किमिदं कथमाभाति भूयोऽपि वदतांवर

॥३३॥

श्रीवसिष्ठ उवाच ।

असद्रूपस्य दृश्यस्य कारणाभावतः सदा ।

दृश्यतास्येत्यपि प्रौढिनिर्देशस्यात्यसंभवात्

॥३४॥

यदिदं भासते किंचिद्द्रष्टृदृश्यभ्रमात्मकम् ।

जगदादि परं रूपं तद्विद्धि परमात्मनः

॥३५॥

स्वप्ने चिन्मात्र एवास्ते यथा गगनकाननम् ।

तथा जगत्तया भाति स्वयं चिन्मात्रमात्मनि

॥३६॥

इहादिसर्गात्प्रभृति नास्त्युपादानकारणम् ।

किंचनापि क्वचिदपि भातीत्थं ब्रह्म केवलम्

॥३७॥

यच्चिदाकाशकचनं स्वयमात्मनि जृम्भते ।

तदिदं भाति तस्यैव जगदित्युदितं वपुः

॥३८॥

यथा भावस्य भावत्वं यथा शून्यस्य शून्यता ।

आकारिणो यथाकारस्तथा चिन्नभसो जगत्

॥३९॥

इदं विद्धि चिदाभासं परमार्थघनं घनम् ।

इत्थं स्थितं स्वयं भातं द्रष्टृदृश्यदृगात्मकम्

॥४०॥

वस्तुतस्तु द्वयाभावान्नाभासि न च भासनम् ।

किमपीदमनिर्देश्यं सद्वाऽसद्वेति वेत्ति कः

॥४१॥

श्रीराम उवाच ।

एवं चेत्तद्वद ब्रह्मन्कार्यकारणतादिकः ।

कथं भेदः किमायातः कथं सत्यत्वमागतः

॥४२॥

श्रीवसिष्ठ उवाच ।

चित्प्रकाशो यथाभानं यदा भावयति स्वयम् ।

स्वात्मा तथा तदेवाशु पश्यसीत्यसि दृष्टवान्

॥४३॥

चिद्व्योमैवायमाकारः स्वे व्योम्न्येव न मुह्यति ।

स्वयमेव यथा स्वप्ने कोऽस्य पर्यनुयोगकृत्

॥४४॥

भावाद्भावान्तरप्राप्तौ मध्ये यत्संविदो वपुः ।

तच्चिद्व्योम तदेवेदं सर्वं च स्थिति नेतरत्

॥४५॥

कार्यकारणभावादिदृशोऽविद्याविजृम्भिकाः ।

जगद्वत्कल्पयत्येष कोऽस्य पर्यनुयोगकृत्

॥४६॥

द्रष्टा भोक्ताथ कर्ता वा कश्चित्स्यादितरो यदि ।

तत्कथं किमिदं दृश्यमिति युज्येत नान्यथा

॥४७॥

यत्र स्वप्ने निराभासं चिद्व्योमैव विराजते ।

शुद्धमेकमनेकात्म तत्र किं क्व विकल्प्यते

॥४८॥

आस्वयंभुव एवेयं चिन्मात्रे भाति सर्गभाः ।

परिज्ञाता सती सा तु ब्रह्मैव भवति क्षणात्

॥४९॥

एषैव त्वपरिज्ञाता भ्रान्तिर्मायेति कथ्यते ।

जगदित्युच्यते विद्या दृश्यमित्युपवर्ण्यते

॥५०॥

चिदाकाशप्रकाशेन चित्ता दृश्यपिशाचकः ।

वेतालो बालकेनेव बुद्धोऽसन्नेव सन्निव

॥५१॥

जगत्तात्मन्यसत्यापि चिद्व्योम्नैवानुभूयते ।

सत्येव साङ्गलेखेव स्वप्नेऽद्रिपुरता यथा

॥५२॥

अहमद्रिरहं रुद्रः समुद्रोऽहमहं विराट् ।

चेत्यते खे चितैवेति स्वप्नेऽद्रिपुरता यथा

॥५३॥

आकारि कारणाभावाज्जातं कार्यं न किंचन ।

महाप्रलयचिद्व्योम्नि चित्स्थितेत्थमिदन्तया

॥५४॥

अकारणकमेवेदं व्योम व्योम्नानुभूयते ।

जगदित्येव शून्याङ्गं चिन्मात्रात्म चिदात्मनि

॥५५॥

सर्व एव जडा जीर्णा दर्पणा इव जन्तवः ।

समीपगत एवान्तः कुर्वतस्तु विचारणम्

॥५६॥

तत्तत्स्वरूपमुत्सृज्य बुद्ध्वा चिन्मात्रखं जगत् ।

अश्मना चेतनेनैव स्थेयं नास्थेतरोत्तमा

॥५७॥

यथास्ते चलयद्देहं वार्यावर्तजगद्द्रवः ।

चेततीति तथा चित्त्वं स्थिता चित्तज्जगद्दृशा

॥५८॥

यथा कल्पद्रुमोऽभीष्टं कुर्याच्चिन्तामणिर्यथा ।

तथा यद्भावितं स्वान्तस्तत्पूरयति चित्क्षणात्

॥५९॥

चितिश्चिन्तामणिरिव कल्पद्रुम इवेप्सितम् ।

आशु संपादयत्यन्तरात्मनात्मनि खात्मिका

॥६०॥

देशाद्देशान्तरप्राप्तौ मध्यदेशे चितेर्वपुः ।

यत्तन्मयमिदं दृश्यं कुतो द्वैतैक्यविभ्रमः

॥६१॥

चिच्छायैवं कचत्यच्छमनन्ता भास्वरोदरा ।

अङ्गरिक्तापि दृश्यान्तःशून्यता नीलतेव खे

॥६२॥

विसदृशकार्यानुभवो

न भवति सहकारिकारणाभावात् ।

सर्गादावत आद्या

चिदेव दृश्यं यथा स्वप्ने

॥६३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उत्तरार्धे कार्यकारणनिरासो नाम षडधिकशततमः सर्गः ।। १०६ ।।