मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १६१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 161

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

यन्मुनिव्याधयोरेतद्वृत्तं नानादशाशतम् ।

अन्यकारणकं किं स्यादेतत्किं वा स्वभावजम्

॥१॥

श्रीवसिष्ठ उवाच ।

ईदृशाः प्रतिभावर्ताः परमात्ममहाम्बुधौ ।

अनारतं प्रवर्तन्ते स्वतः स्वात्मनि खात्मकाः

॥२॥

यथा स्पन्दात्मनो वायोरजस्रं स्पन्दलेखिकाः ।

उद्यन्त्येव सतश्चित्त्वाच्चिद्व्योम्नि प्रतिभायुताः

॥३॥

या यथा स्वाङ्गभूतास्मादुदिता प्रतिभा प्रभा ।

तावत्सेह तथैवास्ते न हता यावदन्यया

॥४॥

नानावयववानेक एवेहावयवी यथा ।

चिद्ब्रह्मैकमिदं व्योम तथैवं प्रतिभात्मकम्

॥५॥

ब्रह्म काश्चित्स्थिराः काश्चिदस्थिराः प्रतिभार्थवत् ।

देहावस्था इवात्मस्थाः स्थितमात्मनि खात्मनि

॥६॥

स्वात्मनि स्वप्नपुरवद्भानं चिति चमत्कृतिः ।

किं सारं किमसारं वा किं सत्किं वाप्यसद्भवेत्

॥७॥

परिज्ञातमिदं यावत्सर्वं चिद्व्योममात्रकम् ।

दृश्यं जगद्भवद्बुद्धं न सन्नासत्किमुच्यते

॥८॥

चिद्व्योममात्रकचनं संसारे सर्वतः शिवे ।

आस्थानास्थादि किं तज्ज्ञा यथासंस्थानमास्थित

॥९॥

समुद्यन्ति स्वतोऽम्भोधेर्वीचिवत्प्रतिभाकृताः ।

स्वात्मिकाः स्वात्मनो देवात्कार्यकारणदृक्तया

॥१०॥

स्फारं यत्परमं व्योम्नः स्वसंकल्पस्वसर्गवत् ।

तत्तेनैव जगद्बुद्धं कुतः पृथ्व्यादयोऽत्र के

॥११॥

भात्येवमयमाभासो नैव भाति च किंचन ।

ब्रह्मण्येव स्थितं ब्रह्म तदविद्याभिधं स्वतः

॥१२॥

घनता चिद्धनेनेह चिद्व्योमैवाखिलं जगत् ।

इत्येव परमो बोध एतत्प्रौढिस्तु मुक्तता

॥१३॥

चिद्व्योमशून्यतारूपमात्रमाभास आततः ।

इदमप्रतिघं शान्तं जगदित्येव भासते

॥१४॥

ध्यायिनः क्षीणदेहस्य ध्याने दृक्त्वे क्षणं स्थिते ।

चिन्मात्रव्यतिरेकेण शक्तत्वं स्यात्किमुच्यताम्

॥१५॥

चिद्धातुव्योमभागो यो भाति यत्र यथा यथा ।

तथा तथा स तत्रास्ते यावदित्थं स्वभावतः

॥१६॥

अविचारवतो दृश्यभ्रान्तिर्गगनमय्यपि ।

जातितैमिरिकद्वीन्दुदोषवन्नोपशाम्यति

॥१७॥

यदिदं दृश्यते किंचित्तद्ब्रह्मैव निरामयम् ।

चिदाकाशमनाद्यन्तं तत्कथं किं प्रशाम्यति

॥१८॥

स्वमसन्त्यजतो रूपं स्वच्छसंवेदनात्मकम् ।

स्वप्नवत्कचनं स्वस्य यन्नाम तदिदं जगत्

॥१९॥

शास्त्रार्थैस्तीक्ष्णया बुद्ध्या मिथो यन्न विकल्पनैः ।

कृत्वा सुप्तमिवात्मानं किंचिद्बुद्धेन बोध्यते

॥२०॥

रूढा येयमविद्येति संविदव्यभिचारिणी ।

भवतां ननु नास्त्येव सा सरित्स्विव पांसुभूः

॥२१॥

यथा स्वप्नेऽवनिर्नास्ति स्वानुभूतापि कुत्रचित् ।

तथेयं दृश्यता नास्ति स्वानुभूताप्यसन्मयी

॥२२॥

चिद्व्योममात्रमेवार्थाऽनलवद्भासते यथा ।

स्वप्ने तथैव जाग्रत्त्वेऽनलं स्वस्यैव लक्ष्यते

॥२३॥

इदं जाग्रदयं स्वप्न इति नास्त्येव भिन्नता ।

सत्ये वस्तुनि निःशेषसमयोर्यानुभूतितः

॥२४॥

नैतदेवमिति स्वप्नप्रबोधात्प्रत्ययो यथा ।

मृत्वामुत्र प्रबुद्धस्य जाग्रति प्रत्ययस्तथा

॥२५॥

कालमल्पमनल्पं च स्वप्नजाग्रदितीह धीः ।

वर्तमानानुभवनसाम्यात्तुल्ये तयोर्द्वयोः

॥२६॥

बाह्ये तदेवमित्यादिगुणसाम्यादशेषतः ।

न जाग्रत्स्वप्नयोर्ज्यायानेकोऽपि यमयोरिव

॥२७॥

यदेव जाग्रत्स्वप्नोऽयं यः स्वप्नो जाग्रदेव तत् ।

नैतदेवं किलेत्यस्ति धीः कालेनोभयोरपि

॥२८॥

आजीवितान्तं स्वप्नानां शतान्यनियतं यथा ।

अनिर्वाणमहाबोधे तथा जाग्रच्छतान्यपि

॥२९॥

उत्पन्नध्वंसिनः स्वप्नाः स्मर्यन्ते बहवो यथा ।

तथैव बुद्धैः स्मर्यन्ते सिद्धैर्जन्मशतान्यपि

॥३०॥

एवं समस्तसाधर्म्ये समस्तानुभवात्मनि ।

कचति स्वप्नवज्जाग्रज्जाग्रद्वत्स्वप्नवेदनम्

॥३१॥

यथा दृश्यं जगच्चेति नित्यमेकार्थतां गतौ ।

उभौ शब्दौ तथैवैतज्जाग्रत्स्वप्नात्मकौ स्मृतौ

॥३२॥

एवं स्वप्नपुरं स्फारं यथा व्योमैव चिन्मयम् ।

तथैवेदं जगदतः क्वाविद्या दृश्यते कुतः

॥३३॥

तदेवाकाशमात्रात्म यद्यविद्येति कथ्यते ।

तद्यदास्ते तदेवाहं बन्धः स्वकलनात्मकः

॥३४॥

तन्मैवं क्रियतामेतदबन्धस्यैव बन्धनम् ।

कान्यता अमलव्योम्नश्चिन्मयस्य निराकृतेः

॥३५॥

चिन्मयाकाशकचने क्वास्मिन्किल निराकृतेः ।

दृश्यनामन्यविद्याख्ये बन्धो मोक्षोऽथवा कुतः

॥३६॥

नाविद्या विद्यते नाम बन्धो बन्धो न कस्यचित् ।

मोक्षो न कस्यचिन्मोक्षश्चास्तिनास्तीति नास्त्यलम्।।

नास्त्येव विद्याऽविद्या वा चिदेवेयं कचत्यजा ।

ख एव खाकृतिः स्वप्न इव सर्गस्वदेहिनी

॥३८॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।

तज्जाग्रत्स्वप्नदृश्यस्य रूपमित्येव निश्चयः

॥३९॥

सबाह्याभ्यन्तरे दृश्ये शान्तनिद्रस्य यद्वपुः ।

एकस्य निशि तद्रूपं जाग्रत्स्वप्नदृशामिह

॥४०॥

विद्धि तद्रूपमेवेदं भेदवेदनमित्यपि ।

चित्यन्तमागतः कोऽन्यो नाम स्याद्भेदवेदने

॥४१॥

चिद्व्योमैवाभेदबुद्धिश्चिद्व्योमैव च भेदधीः ।

द्वैताद्वैते चैकमेव तथा शान्तमखण्डितम्

॥४२॥

सदंशो बोधतद्ग्राह्यमय एव यथा तथा ।

दृष्टा य एव दृश्यं तद्द्वैतवेदनमेककम्

॥४३॥

तद्ब्रह्म खं विदुर्द्वैतमद्वैताद्वैतमेव च ।

सर्ग एव परं ब्रह्म द्वैतमद्वैतमेव सत्

॥४४॥

नेति नेति विनिर्णीय सर्वतोऽभिभवत्यपि ।

पश्चात्त्यक्त्वा चिदाकाशे शिलां कृत्वास्यतामिह

॥४५॥

यथाक्रमं सुभग यथास्थितस्थिति

यथोदयं व्रज पिब भुंक्ष्व भोजय ।

अभीप्सितं गतमननो निरिङ्गनः

सुचिन्मये परमपदोपलो भवान्

॥४६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० अ० वि० श० निर्वाणवर्णनं नामैकषष्टयधिकशततमः सर्गः ।। १६१ ।।