मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १९५

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 195

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अहो नु संप्रबुद्धोऽसि राघवाघविघातिनी ।

वागियं तव संपन्ना प्रबुद्धेष्ववहासिनी

॥१॥

विभातीवासदेवेदमसंकल्पेन शाम्यति ।

एतच्छान्तिस्तु निर्वाणमित्येव परमार्थता

॥२॥

कल्पनाकल्पने रूपं परस्यैवेतरस्य नो ।

स्पन्दनास्पन्दने वायोर्यथा नात्रैकताद्विते

॥३॥

प्रबुद्धस्यैव या पुंसः शिलाजठरवत्स्थितिः ।

शान्तौ व्यवहृतौ वापि सामला मुक्ततोच्यते

॥४॥

वयमस्मिन्पदे स्थित्वा राघवाघविघातिनि ।

शान्तत्वे व्यवहारे च सममित्थमवस्थिताः

॥५॥

अस्मिन्नेव पदे नित्यं ब्रह्मविष्णुहरादयः ।

तिष्ठन्ति व्यवहारस्था अपि शान्ता ज्ञरूपिणः

॥६॥

शैलोदरस्थितिमतां प्रबुद्धानामनामयम् ।

अस्माकं पदमेवं तदालभ्यैतदिहोष्यताम्

॥७॥

श्रीराम उवाच ।

ब्रह्मण्येवमसद्रूपमनुत्पन्नमभासुरम् ।

अनारम्भमनाकारमेवेदं भासते जगत्

॥८॥

मृगतृष्णाम्बुसदृशं तरङ्गावर्तिवारिवत् ।

रुचकादीव कनके स्वप्नसंकल्पशैलवत्

॥९॥

श्रीवसिष्ठ उवाच ।

बुद्धवानसि चेद्राम तत्स्वबोधविवृद्धये ।

कुरु संशयविच्छेदं पृच्छतः प्रच्छकस्य मे

॥१०॥

इत्थं नित्यानुभूतोऽपि शिरस्थोऽप्यतिभासुरः ।

जगदाख्योऽयमाभासः कथं नाम न विद्यते

॥११॥

श्रीराम उवाच ।

पूर्वमेवेदमुत्पन्नं न किंचन कदाचन ।

तेन वन्ध्यासुतस्यास्य न सत्ता कल्पनादृते

॥१२॥

किमिवास्या जगद्भ्रान्तेः कारणं प्रोत्थिता यतः ।

न कारणं विना कार्यं किंचित्संभवति क्वचित्

॥१३॥

न चाविकारमजरं सविकारं क्षयादृते ।

कारणं क्वचिदेवेह किंचिद्भवितुमर्हति

॥१४॥

ब्रह्मैवेदमनाख्यात्म कारणं प्रविजृम्भते ।

तत्क्व कस्य कथं नाम जगच्छब्दार्थसंविदः

॥१५॥

तदनाख्ये पदे शान्ते चिरात्प्रथमचेतनम् ।

कंचित्काललवं तिष्ठत्यातिवाहिकदेहभृत्

॥१६॥

क्षणे वत्सरसंवित्तिं स्वप्ने त्वमिव चेतति ।

काकतालीयवत्तत्र चन्द्रार्कादींश्च पश्यति

॥१७॥

संकल्पैकात्मनस्तस्य देशकालक्रियान्वितम् ।

अत्यन्तमेव व्योम्न्येव भुवनं भासते स्वयम्

॥१८॥

तस्मिन्मिथ्योपसंपन्ने स मिथ्यापुरुषस्ततः ।

मिथ्यैव तत्समाचारं कुर्वन्विपरिवर्तते

॥१९॥

अधस्तादूर्ध्वमायाति पुनरूर्ध्वाद्ब्रजत्यधः ।

कल्पितानन्तसंभारपदार्थानर्थसंभ्रमः

॥२०॥

काकतालीयवत्तस्य संकल्पस्य भवेद्यदि ।

यद्यथा तत्तथाद्यापि सुस्थिरामात्तवान्स्थितिम्

॥२१॥

शिला वन्ध्यासुतमुखे व्योमचूर्णेन रञ्जनम् ।

करोतीत्यादिवदिदं मिथ्या जगदुपस्थितम्

॥२२॥

सत्यमेवेदमथवा मिथ्यात्वं तु कुतः किल ।

न मिथ्यात्वं न सत्यत्वं किमपीदमजं ततम्

॥२३॥

आकाशकोशवत्स्वच्छं शिलाजठरवद्धनम् ।

पाषाणमौनवच्चेदं शान्तमेवाक्षयं जगत्

॥२४॥

चिन्मात्रसर्वसंकल्पे विराडात्मातिवाहिके ।

देहे संवेदनं व्योम जगदित्यवभासते

॥२५॥

एवं ब्रह्म महाकाशमेवेदं क्व जगत्कथा ।

शान्तं समसमाभोगमेकमाद्यन्तवर्जितम्

॥२६॥

यथा पयसि वीचीनामुन्मज्जननिमज्जनैः ।

न जलान्यत्वमेवं हि भावाभावैः परैः परे

॥२७॥

परावरविदः केचिदेतस्मिन्परमे पदे ।

शुद्धे परिणमन्त्यन्तर्वारिबिन्दुरिवाम्भसि

॥२८॥

परेऽपरमिदं भाति परस्येव परात्मकम् ।

संभवन्त्यमले शान्ते न जगन्ति न तत्क्रियाः

॥२९॥

स्वप्ने स्वप्न इति ज्ञाते दृश्ये ब्रह्मतयापि च ।

मृगाम्बुनि परत्वेन को भावयति भावनाम्

॥३०॥

परमार्थचमत्कारमन्तःस्थानुभवं विना ।

अन्यस्यान्यं न जानाति सीधुस्वादुमिव द्विजः

॥३१॥

निर्वाय निज आत्मायं परिवृत्यावलोकितः ।

चेत्योन्मुखत्वमुत्सृज्य संतिष्ठेच्छान्त आत्मनि

॥३२॥

श्रीवसिष्ठ उवाच ।

दृश्यं बीजाङ्कुर इव स्थितं ब्रह्मणि कारणे ।

इति सर्गादिसद्भावः कस्मान्नेहोपपद्यते

॥३३॥

श्रीराम उवाच ।

बीजेऽङ्कुरोऽङ्कुरतया संश्रितो नोपलभ्यते ।

बीजोदरे तु या सत्ता बीजमेव हि सा भवेत्

॥३४॥

ब्रह्मणोऽन्तर्जगत्तैवं जगत्तैवोपलभ्यते ।

अस्ति चेत्तद्भवेन्नित्यं सा ब्रह्मैवाविकारि तत्

॥३५॥

अविकारादनाकाराद्विकार्याकृतिभासुरम् ।

उदेतीति किलास्माभिर्नैव दृष्टं न च श्रुतम्

॥३६॥

अनाकृतावाकृतिमन्न चैतत्स्थातुमर्हति ।

परमाणौ न चैवान्तरिव संभान्ति मेरवः

॥३७॥

समुद्गके रत्नमिव जगद्ब्रह्मणि तिष्ठति ।

महाकारं निराकार इत्युन्मत्तवचो भवेत्

॥३८॥

शान्तं परं च साकारस्याधार इति राजते ।

न वक्तुं राजते क्वेव साकारस्याविनाशिता

॥३९॥

बोध एवायमाकार इति कल्पनयापि धीः ।

अपूर्वैः स्वप्नवद्रूढैः संसारैर्नोपलभ्यते

॥४०॥

अपूर्व एव स्वप्नोऽयं यद्वै सर्गोऽनुभूयते ।

स्वप्नः किलानुभूतार्थः स्वभ्यस्त इव दृश्यते

॥४१॥

यदेव जाग्रत्तत्स्वप्न इति नात्रोपपद्यते ।

स्वप्ने प्रदग्धः पुरुषः कथं प्रातर्विलोक्यते

॥४२॥

अशरीरस्य न स्वप्न इत्येतदपि नोचितम् ।

संभवन्ति पिशाचाद्यास्तेषां च स्वप्नवत्स्थितिः

॥४३॥

तस्मात्स्वप्नवदाभासः संविदात्मनि संस्थितः ।

सर्गादिनानाकृतिना परमात्मा निराकृतिः

॥४४॥

स्वप्ने चिदेव शैलादिरूपेणात्मनि तिष्ठति ।

ब्रह्मात्माखिलमुक्तोऽसावन्येनासौ कृतो यदि

॥४५॥

नेहास्तित्वं न नास्तित्वमुपलब्धेऽनुभूयते ।

नैवानुभवितृत्वं च न चानुभवनक्रमः

॥४६॥

किमपीदमनाख्येयं बुद्धेनैवानुभूयते ।

स्वसंवेदनसंवेद्यं सत्तासत्ताविजृम्भितम्

॥४७॥

अभावरूपिणो भावा अभावा भावरुपिणः ।

सर्वदा सर्वथा सर्वे भान्ति भासुरतां गताः

॥४८॥

बृंहति ब्रह्मणि ब्रह्म व्योम व्योमनि वर्धते ।

न चोपपद्यते किंचिद्ब्रह्म व्योम्नि विबृंहणम्

॥४९॥

द्रष्टृदृश्यदृगात्मायमहं सर्गादिविभ्रमः ।

शान्तश्चिद्व्योमविस्तारो न कुड्याद्युपपद्यते

॥५०॥

यथा न सन्न कुड्यादि स्वसंकल्पनपत्तनम् ।

तथैवायं जगदिति शान्तमेकमनामयम्

॥५३॥

पूर्णं हि परमं शान्तमिदं सर्वमखण्डितम् ।

अनिङ्गनमनाभासमनाद्यन्तमचेतितम्

॥५२॥

अजन्ममरणं शान्तमनादिनिधनं महत् ।

अनुपाधि निराकारं स्वपदं बुद्धवानहम्

॥५३॥

या संविदन्तः स्फुरति सैवोपायाति वाक्यताम् ।

यद्बीजं लीनमवनौ तद्यात्यङ्कुरतां किल

॥५४॥

शुद्धज्ञानामयैकात्मा द्वैतैक्यपरिवर्जितः ।

मनागपि न जानामि द्वैतैक्यकलनाकलाम्

॥५५॥

सर्वे तूष्णींमया एव जीवन्मुक्ता इमे जनाः ।

संशान्तसर्वसंरम्भाः खे खभाव इव स्थिताः

॥५६॥

जगत्स्पर्शमहारम्भमपि तूष्णीमिदं स्थितम् ।

चित्रं भित्ताविव कृतं मनोराज्य इवोदितम्

॥५७॥

शैलादिवोत्कीर्णसमं कथायामिव वर्णितम् ।

शम्बरेणेव रचितं व्योम्नि स्वप्न इवोदितम्

॥५८॥

किल स्वप्नवदेवेदं सर्गादावेव भाति यत् ।

अभित्तिकं निष्प्रतिघं जगत्केवास्य सत्यता

॥५९॥

जगद्बुद्धाविदं सत्यं परिज्ञानवतो मृषा ।

ब्रह्मात्मक इदं ब्रह्म शान्ते शान्तं पराम्बरम्

॥६०॥

सर्व एव इमे भावाः सह स्थावरजङ्गमाः ।

अस्मदादय आकाशं जगज्ज्ञविषयं तथा

॥६१॥

खमहं खं भवांश्चित्खं जगत्खं खं खमेव च ।

चिदाकाशैकतामेत्य भजैकाकाशरूपताम्

॥६२॥

ज्ञानेनाकाशकल्पेन सर्वात्म गगनोपमम् ।

ज्ञेयाभिन्नेन संबोधात्तं वन्दे द्विपदां वरम्

॥६३॥

चिद्रूपत्वादुदेतीदं जगत्तत्रैव लीयते ।

अकारणकमेवान्तः परं व्योमैव निर्मलम्

॥६४॥

एतत्सर्वपदातीतं सर्वंशास्त्रकलातिगम् ।

पदमासाद्य निर्द्वन्द्वं त्वमाकाशात्मकोऽभवः

॥६५॥

अहं जगच्च नो पादपाण्यादि न घटादि च ।

सर्वमाकाशमाकाशमेवाच्छ सूक्ष्यचिद्भवेत्

॥६६॥

सर्वापह्नव एवायं मया यो दर्शितस्तव ।

स निन्द्यो वादिनां वादेष्वात्मज्ञानेषु राजते

॥६७॥

काष्ठमौनात्मको वादे न सर्वापह्नवो यदा ।

क्रियते तेन वादेषु नात्मज्ञानं प्रसीदति

॥६८॥

प्रत्यक्षादिप्रमाणानां यदगम्यमचिह्नितम् ।

स्वानुभूतिभवं ब्रह्म वादैस्तल्लभ्यते कथम्

॥६९॥

सर्वागमार्थसमतीतमचिह्नमच्छ-

माकाशमेकमजमाद्यमनामरूपम् ।

शुद्धं चिदात्मकमिहास्त्यनुभूतिमात्रं

शान्ताभिधानकलनं मलशङ्कयालम्

॥७०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० बोधप्रकाशीकरणयोगोपदेशो नाम पञ्चनवत्यधिकशततमः सर्गः ।।१९५।।