मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ३६

3
योगवासिष्ठम् · उपशमप्रकरणम् · 36

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

प्रह्लाद उवाच ।

आत्मा सर्वपदातीतश्चिरात्संस्मृतिमागतः ।

दिष्ट्या लब्धोऽसि भगवन्नमस्तेस्तु महात्मने

॥१॥

अभिवन्द्याथ चालोक्य चिरमालिङ्ग्यसे मया ।

कोऽन्यः स्यात्त्वदृते बन्धुर्भगवन्भुवनत्रये

॥२॥

हंसि पासि ददासि त्वं स्तौषि यासि विवल्गसि ।

अयं प्राप्तोसि दृष्टोसि किं करोषि क्व गच्छसि

॥३॥

स्वसत्तापूरिताशेषविश्व विश्वजनीन भोः ।

सर्वत्र लक्ष्यसे नित्यमधुना क्व पलायसे

॥४॥

आवयोरन्तरं भूरि जन्मव्यवहितान्तरम् ।

अदूरमद्य संपन्नं दिष्ट्या दृष्टोऽसि बान्धव

॥५॥

नमस्ते कृतकृत्याय कर्त्रे भर्त्रे नमोस्तु ते ।

नमः संसारवृन्ताय नित्याय विमलात्मने

॥६॥

नमश्चक्राजहस्ताय नमश्चन्द्रार्धधारिणे ।

नमो विबुधनाथाय नमस्ते पद्मजन्मने

॥७॥

वाच्यवाचकदृष्ट्यैव भेदो योऽयमिहावयोः ।

असत्या कल्पनैवैषा वीचिवीच्यम्भसोरिव

॥८॥

त्वमेवानन्तयानन्तवस्तुवैचित्र्यरूपया ।

भावाभावविलासिन्या नित्ययैव विजृम्भसे

॥९॥

नमो द्रष्ट्रे नमः स्रष्ट्रे नमोऽनन्तविकासिने ।

नमः सर्वस्वभावाय नमस्ते सर्वगात्मने

॥१०॥

प्रतिजन्म चिरं बह्व्यो दीर्घदुःखवता मया ।

त्वया मयोपदिष्टेन दग्धेनापहतौजसा

॥११॥

आलोकिता लोकदृशो दृष्टा दृष्टान्तदृष्टयः ।

न प्राप्तस्तत्त्वयाऽनेन किंचिदासादितं भवेत्

॥१२॥

सर्वं मृत्काष्ठपाषाणवारिमात्रमिदं जगत् ।

नेहास्ति त्वदृते देव यत्प्राप्तौ नाभिवाञ्छति

॥१३॥

देवायमद्य लब्धोऽसि दृष्टोऽस्यधिगतोऽसि च ।

संप्राप्तोऽसि गृहीतोऽसि नमस्तेस्तु न मुह्यसि

॥१४॥

योऽक्ष्णोः कनीनिकारश्मिजालप्रोतवपुः स्थितः ।

देव दर्शनरूपेण कथं सोऽत्र न दृश्यते

॥१५॥

यस्त्वक्स्पर्शौ स्पृशन्सर्वं गन्धं तैलं तिले यथा ।

स्पर्शमन्तःकरोत्येष स कथं नानुभूयते

॥१६॥

यः शब्दश्रवणादन्तः शब्दशक्तिं परामृशन् ।

रोमाञ्चं जनयत्यङ्गे स दूरस्थः कथं भवेत्

॥१७॥

जिह्वापल्लवलग्नानि स्वदितस्याग्रतोऽपि च ।

स्वदन्ते यस्य वस्तूनि स्वदते स न कस्य च

॥१८॥

पुष्पगन्धानुपादाय घ्राणहस्तेन देहकम् ।

य आलोकयति प्रीत्या कस्यासौ न करे स्थितः

॥१९॥

वेदवेदान्तसिद्धान्ततर्कपौराणगीतिभिः ।

यो गीतः स कथं ह्यात्मा विज्ञातो याति विस्मृतिं

॥२०॥

सैवेह देहभोगाली सुभगापीयमद्य मे ।

अन्तर्न स्वदते स्वच्छे त्वयि दृष्टे परावरे

॥२१॥

त्वया विमलदीपेन भानुः प्रकटतां गतः ।

त्वया शीततुषारेण चन्द्रः शिशिरतां गतः

॥२२॥

त्वयैते गुरवः शैलास्त्वयैते द्युचरा धृताः ।

त्वयैवेयं धरा धीरा त्वयैवाम्बरमम्बरम्

॥२३॥

दिष्ट्या मत्तामसि प्राप्तो दिष्ट्या त्वत्तामहं गतः ।

अहं त्वं त्वमहं देव दिष्ट्या भेदोऽस्ति नावयोः

॥२४॥

अहं त्वमितिशब्दाभ्यां पर्यायाभ्यां महात्मनः ।

तव वा मम वा शाखा संयुक्ताभ्यां नमोनमः

॥२५॥

नमो मह्यमनन्ताय निरहंकाररूपिणे ।

नमो मह्यमरूपाय नमः समसमात्मने

॥२६॥

मय्यात्मनि समे स्वच्छे साक्षिभूते निराकृतौ ।

दिक्कालाद्यनवच्छिन्ने स्वात्मन्येवेह तिष्ठसि

॥२७॥

मनः प्रक्षोभमायाति स्फुरन्तीन्द्रियवृत्तयः ।

शक्तिरुल्लसति स्फारा प्राणापानप्रवाहिनी

॥२८॥

वहन्ति देहयन्त्राणि कृष्टान्याशावरत्रया

चर्ममांसास्थिदिग्धानि मनःसारथिमन्ति च

॥२९॥

अयं संविद्वपुरहं न काचिन्न कृतास्पदः ।

देहः पततु वोदेतु यथाभिमतयेच्छया

॥३०॥

चिरादहमहं जातः स्वात्मलाभश्चिरादयम् ।

चिरादुपशम याति कल्पस्यान्ते जगद्यथा

॥३१॥

चिरात्संसारगामित्वाद्दीर्घे संसारवर्त्मनि ।

विश्रान्तोऽस्मिचिरं श्रान्तः कल्पस्यान्त इवानलः

॥३२॥

सर्वातीताय सर्वाय तुभ्यं मह्यं नमो नमः ।

तेभ्योऽपि च नमस्तेस्तु ये मां त्वां प्रवदन्ति च

॥३३॥

अखिलानन्तसंभोगा न स्पृष्टा दोषवृत्तिभिः ।

जयत्यकृतसंरम्भा साक्षिता परमात्मनः

॥३४॥

आत्मन्पुष्प इवामोदो भस्त्रापिण्ड इवानिलः ।

तिले तैलमिवास्मिंस्त्वं सर्वत्र वपुषि स्थितः

॥३५॥

हंसि पासि ददासि त्वमवस्फूर्जसि वल्गसि ।

अनहंकृतिरूपोऽपि चित्रेयं तव मायिता

॥३६॥

जयामीशज्वलद्दीप्तिः सर्वमुन्मीलयञ्जगत् ।

जयाम्युपरतारम्भो जगद्भूयो निमीलयन्

॥३७॥

परमाणोस्तवैवान्तरिदं संसारमण्डलम् ।

वटत्वं वटधानायां बभूवास्ति भविष्यति

॥३८॥

हयद्विपरथाकारैर्यद्वत्खे दृश्यतेऽम्बुदः ।

तद्वदालोक्यसे देव पदार्थशतविभ्रमैः

॥३९॥

भावानां भूरिभङ्गानामभवाय भवाय च ।

भव भावविमुक्तात्मा भावाभावबहिष्कृतः

॥४०॥

जहि मानं महाकोपं कालुष्यं क्रूरतां तथा ।

न महान्तो निमज्जन्ति प्राकृते गुणसंकटे

॥४१॥

प्राक्तनीं दीर्घदौरात्म्यदशां स्मृत्वा पुनःपुनः ।

कोहं किं तद्बभूवेति हसन्मुक्ताच्छटासितम्

॥४२॥

ते प्रयाताः समारम्भा गतास्ते दग्धवासराः ।

येषु चिन्तानलज्वालाजालाकीर्णो भवानभूत्

॥४३॥

अद्य त्वं देहनगरे राजा स्फारमनोरथः ।

न दुःखैर्गृह्यसे नापि सुखैर्व्योम करैरिव

॥४४॥

अद्येन्द्रियदुरश्वांश्च जित्वा जितमनोगजः ।

भोगारिमभितो भङ्क्त्वासाम्राज्यमधितिष्ठसि

॥४५॥

अपाराम्बरपान्थस्त्वमजस्रास्तमयोदयः ।

अवभासकरो नित्यं बहिरन्तश्च भास्करः

॥४६॥

सर्वदैवासि संसुप्तः शक्त्या संबोध्यसे विभो ।

भोगालोकनलीलार्थं कामिन्या कामुको यथा

॥४७॥

दृक्क्षुद्राभिरुपानीतं दूराद्रूपमधु त्वया ।

पीयते स्वीकृतं शक्त्या नेत्रवातायनस्थया

॥४८॥

ब्रह्माण्डकोटराध्वान्ताः प्राणापानपरैस्त्वया ।

गतागतैर्ब्रह्मपुरे संप्रेक्ष्यन्ते प्रतिक्षणम्

॥४९॥

देहपुष्पे त्वमामोदो देहेन्दौ त्वमृतामृतम् ।

रसस्त्वं देहविटपे शैत्यं देहहिमे भवान्

॥५०॥

त्वय्यस्ति विस्मयस्नेहः शरीरक्षीरसर्पिषि ।

त्वमन्तरस्य देहस्य दारुण्यग्निरिव स्थितः

॥५१॥

त्वमेवानुत्तमास्वादः प्राकाश्यं तेजसामपि ।

अवगन्ता त्वमर्थानां त्वं भासामवभासकः

॥५२॥

स्पन्दस्त्वं सर्ववायूनां त्वं मनोहस्तिनो मदः ।

प्रज्ञानलशिखायास्त्वं प्राकाश्यं तैक्ष्ण्यमेव च

॥५३॥

त्वद्वशादियमात्मीया वाचा संप्रविलीयते ।

दीपवत्पुनरन्यत्र समुदेति कुतोऽपि सा

॥५४॥

त्वयि संसारवर्तिन्यः पदार्थावलयस्तथा ।

कटकाङ्गदकेयूरयुक्तयः कनके यथा

॥५५॥

भवानयमयं चाहंत्वंशब्दैरेवमादिभिः ।

स्वयमेवात्मनात्मानं लीलार्थं स्तौषि वक्षि च

॥५६॥

मन्दानिलविनुन्नोऽब्दो गजाश्वनरदृष्टिभिः ।

यथा संलक्ष्यते व्योम्नि तथा त्वं भूतदृष्टिभिः

॥५७॥

यथा हयगजाकारैर्ज्वाला लसति वह्निषु ।

तथैवाव्यतिरिक्तैस्त्वं दृश्यसे भुवि सृष्टिषु

॥५८॥

त्वं ब्रह्माण्डकमुक्तानामच्छिन्नस्तन्तुराततः ।

क्षेत्रं त्वं भूतसस्यानां चिद्रसायनसेवितम्

॥५९॥

असत्तदनभिव्यक्तं पदार्थानां प्रकाश्यते ।

त्वया तत्त्वं यथा पक्त्या मांसानां स्वादवेदनम्

॥६०॥

विद्यमानापि वस्तुश्रीर्न स्थिता त्वयि न स्थिते ।

वनितारूपलावण्यसत्तेव गतचक्षुषः

॥६१॥

सदपीह न सत्तायै वस्तु नावर्जितं त्वया ।

तृप्तये न स्वलावण्यं मुकुरात्प्रतिबिम्बितम्

॥६२॥

लुठति त्वां विना देहः काष्ठलोष्टसमः क्षितौ ।

सन्नप्यसन्नगोच्छ्रायः श्यामास्विव रविं विना

॥६३॥

सुखदुःखक्रमः प्राप्य भवन्तं परिनश्यति ।

प्राकाश्यमासाद्य यथा तमस्तेजोऽथवा हिमम्

॥६४॥

त्वदालोकनयैवैते स्थितिं यान्ति सुखादय ।

सूर्यालोकनया प्रातर्वर्णाः शुक्लादयो यथा

॥६५॥

लब्धात्मानो विनश्यन्ति संबन्धक्षण एव ते ।

ते तमांसीव दीपस्य दृष्टा एव व्रजन्त्यलम्

॥६६॥

तमस्ता तमसो दीपासत्तायां स्फुटतां गता ।

दीपसंबन्धसमये सा चोत्पद्य विनश्यति

॥६७॥

तदेवं सुखदुःखश्रीर्दृष्ट्वैव त्वामनामयम् ।

जायते जातमात्रैवं सर्वनाशेन नश्यति

॥६८॥

भङ्गुरत्वादिह स्थातुं कालं नाणुमपि क्षमा ।

निमेषलक्षभागाख्या तन्वी कालकला यथा

॥६९॥

गान्धर्वी नगरी तन्वी सुखदुःखादिभावना ।

स्फुरति त्वत्प्रसादेन त्वयि दृष्टे विलीयते

॥७०॥

त्वदालोकेक्षणोद्भूता त्वदालोकेक्षणक्षया ।

मृतेव जाता जातेव मृता केनोपलक्ष्यते

॥७१॥

क्षणमप्यस्थिरं वस्तु कथं कार्यकरं भवेत् ।

तरङ्गैरुत्पलाकारैर्माला कथमवेक्ष्यते

॥७२॥

यदा वा जातनिर्नष्टं क्रियां वस्तु करिष्यते ।

तदा रमेत लोकोऽयं मालां कृत्वा तडिद्गणैः

॥७३॥

इमां सुखादिकां लक्ष्मीं विवेकिजनचेतसि ।

स्थितः सन्नेव गृह्णासि न जहासि समस्थितिम्

॥७४॥

अविवेकिषु योऽसि त्वं सहजात्मन्यदृच्छया ।

तद्रूपकथनेनालं ममानल्पपदास्पद

॥७५॥

निरीहेण निरंशेन निरहंकृतिना त्वया ।

सता वाप्यसता वापि कर्तृत्वमुररीकृतम्

॥७६॥

जय प्रोड्डामराकार जय शान्तिपरायण ।

जय सर्वागमातीत जय सर्वागमास्पद

॥७७॥

जय जात जयाजात जय क्षत जयाक्षत ।

जय भाव जयाभाव जय जेय जयाजय

॥७८॥

उल्लसाम्युपशाम्यामि तिष्ठाम्यधिगतोऽस्मि च ।

जयी जयाय जीवामि नमो मह्यं नमोऽस्तु ते

॥७९॥

त्वयि स्थिते मयि विगतामयात्मनि

स्वसंस्थितौ व्यपगतरागरञ्जने ।

क्व बन्धनं क्व च विपदः क्व संपदो

भवाभवौ क्व शममुपैमि शाश्वतम्

॥८०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे आत्मस्तवनं नाम षट्त्रिंशः सर्गः ।। ३६ ।।