मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १५४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 154

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

मुनिरुवाच ।

इति निर्णीय दृश्येऽस्मिन्स्थितोऽस्मि विगतज्वरः ।

वीतरागो निराशङ्को निर्वाणो निरहंकृतिः

॥१॥

निराधारो निराधेयो निर्मानो निरुपाश्रयः ।

स्वभावस्थः स्वयं शान्तः सर्गात्मा सर्वथोदितः

॥२॥

यथाप्राप्तस्य कर्तास्मि न कर्तास्मि कदाचन ।

स्वयमेव हि यो व्योम कर्तृता तस्य कीदृशी

॥३॥

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।

इत्येकात्म नभः सर्वं भूतजालैकचिद्वपुः

॥४॥

शाम्यामि परिनिर्वामि सुखमासे च केवलम् ।

न विधिप्रतिषेधौ मे न मे बाह्यं न मेऽन्तरम्

॥५॥

इति मे तिष्ठत इह यथासंस्थानसंस्थितेः ।

अद्यायं त्वमनुप्राप्तः काकतालीयवत्पुरः

॥६॥

इति ते सर्वमाख्यातं यथा स्वप्नो यथा वयम् ।

यथा जगद्यथा च त्वं यथा दृश्यमिदं तथा

॥७॥

त्वं च यादृग्दृश्यमिदं यथा दृश्यमिदं पुरः ।

यथा भावा यथा ब्रह्म यथेमा जनताः पुरः

॥८॥

एतद्बुद्ध्वा भवाञ्छान्तो मिथ्या लुब्धक लुब्धक ।

शान्तैवैवमियं सत्ता चिन्मात्रव्योमरूपिणी

॥९॥

स्वयमाभाति निर्वाणा नैव वाभाति किंचन ।

लुब्धक उवाच ।

एवं चेत्तदहं त्वं च सर्वे वा विबुधादयः

॥१०॥

सर्व एव मिथः स्वप्नपुरुषाः सदसन्मयाः ।

मुनिरुवाच ।

एवमेतदिदं सर्वमन्योन्यं स्वप्नवत्स्थितम्

॥११॥

अन्योन्यमात्मनि तथा सदसच्चानुभूयते ।

दृश्यं येन यथा बुद्धं तथा तेनानुभूयते

॥१२॥

नानैकं वस्त्वतोऽनेकं न सन्नासन्न मध्यगम् ।

जाग्रति स्वप्ननगरमिव वेदनमात्रकम्

॥१३॥

अदृष्टपूर्वदूरस्थदृश्यमानपुरोपमम् ।

इति ते सर्वमाख्यातं बोधितोऽसि निरन्तरम्

॥१४॥

स्वयं प्राज्ञोऽसि जानासि यथेच्छसि तथा कुरु ।

एवं प्रबोधितस्यापि तव व्याध मते मतिः

॥१५॥

क्षणं प्रबोधविश्रान्ता न विश्रान्ता परे पदे ।

नाभ्यासेन विना बोध एष याति मनोहृदि

॥१६॥

परां परिणतिं प्राज्ञ दारुणीवाम्बुधारणे ।

अभ्यासाद्बोधविश्रान्तौ गुरुशास्त्रैकसेवनात् ।

द्वैताद्वैतदृशोः शान्त्या निर्वाणं चित्तमुच्यते

॥१७॥

निर्मानमोहा जितसङ्गदोषा

अध्यात्मनित्या विनिवृत्तकामाः ।

द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-

गच्छन्त्यमूढाः पदमव्ययं तत्

॥१८॥

इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० वि० श० यथाभूतार्थवर्णनं नाम चतुःपञ्चाशदधिकशततमः सर्गः ।। १५४ ।।