मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ६७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 67

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

दशरथ उवाच ।

मुनिनायक तं भिक्षुं गत्वा संबोधयन्त्वमी ।

नरा मत्प्रहिताः शीघ्रं चानयन्तु कुटीगतम्

॥१॥

श्रीवसिष्ठ उवाच ।

राजंस्तस्य महाभिक्षोः स देहः प्राणवर्जितः ।

क्लेदो वैवर्ण्यमायातो नासौ जीवितभाजनम्

॥२॥

तस्य भिक्षोस्तु जीवोऽसौ भूत्वा पद्मजसारसः ।

जीवन्मुक्तः स्थितो भूयो नासौ संसृतिभाजनम्

॥३॥

तद्गृहे मासपर्यन्ते बलान्निष्कासितार्गलाः ।

अन्तराले तु तिष्ठन्ति भृत्या भिक्षुदिदृक्षवः

॥४॥

ततो नष्टाङ्गसंधानं कायं निष्काल्यते जले ।

त्यक्ष्यन्त्यन्यं करिष्यन्ति भिक्षुमक्षुण्णमानसम्

॥५॥

अनेनैवं सदेहेन भिक्षुर्मुक्तो व्यवस्थितः ।

कथं प्रबोध्यते नष्टं तद्विहारे शरीरकम्

॥६॥

एषा गुणमयी माया दुर्बोधेन दुरत्यया ।

नित्यं सत्यावबोधेन सुखेनैवातिवाह्यते

॥७॥

असत्येव कृतारम्भा हेम्नः कटकता यथा ।

प्रतिभासविपर्यासमात्रकारणकोदया

॥८॥

परमात्मनि वाचेयमित्थं मायानुमीयते ।

तरङ्गालीव पयसि प्रेक्षामात्रविनाशिनी

॥९॥

ज्ञो हि दृश्यतया दीर्घस्वप्नात्स्वप्नान्तरं व्रजेत् ।

एवं जीवत्वमायाति विवेकात्सर्वमात्मदृक्

॥१०॥

यो यस्य प्रतिभासः स्यादात्मैव स स्वबोधतः ।

स एवोदेति संसारः करञ्जवनगुल्मदृक्

॥११॥

प्रत्येकं भूतमुदितं कृतं संसारमण्डलम् ।

भिक्षोः स्वप्नान्तर इव परां भङ्गिमिवाम्भसः

॥१२॥

प्रस्तुतः पद्मजादेव जगत्स्वप्नो यथोदितः ।

तथैवास्वच्छचित्तोत्थो रूढः सर्वजनं प्रति

॥१३॥

पितामहवदाभाति सर्गः स्वप्नविलासवत् ।

प्रत्येकमुदितस्तेन ब्रह्माण्डानीव कोटिशः

॥१४॥

स्फुरन्यथा तथा वास्मिञ्जीवः पश्यति विभ्रमम् ।

हृदयेऽयं समर्थं च स्वप्नवद्दीर्घमान्तरम्

॥१॥

चित्सत्तामात्रमासाद्य प्रतीतिच्युतमात्रतः ।

जरामरणदुःखानां क्वचिद्भाजनतां गतः

॥१६॥

पातालं ब्रह्मलोकं वा चित्तत्सुकृतशालिनी ।

चित्तांशस्पन्दमात्रेण कृत्वा कृत्वेव संस्थिता

॥१७॥

चित्स्पन्दरूपिणी जीवनामरूपं गतात्मनि ।

अन्यत्र च विलुठति गत्वा संभ्रमहारिणी

॥१८॥

चित्तेति परमात्मा न परमात्मा न वा न किम् ।

जीवदेहादिनाम्नोऽस्य प्रतिबिम्बादिवार्हता

॥१९॥

ब्रह्मण्येव परं ब्रह्म जगदृष्ट्यैव संस्थितम् ।

शुद्धाकाशमिवाकाशे जले जलमिवामलम्

॥२०॥

लोको ब्रह्मण एवायं जगद्रूपेषु तिष्ठति ।

बिभेत्यन्यतया बोधात्प्रतिबिम्बादिवार्भकः

॥२१॥

स्पन्देऽस्पन्दीकृते चेह स्वतः संज्ञा विलीयते ।

साप्यलं परिणामेन लीयतेऽग्नौ घृतं यथा

॥२२॥

चित्स्पन्द एव चित्स्पन्दे सर्वात्मनि विजृम्भितः ।

स्पन्दास्पन्दौ जृम्भणादि कल्पितं नात्र वास्तवम्

॥२३॥

न स्पन्दोऽस्तीह नास्पन्दो नैकता वापि न द्विता ।

शुद्धं चिन्मात्रसर्वस्वं यथैवास्ति तथा स्थितम्

॥२४॥

सारेण तु विचारेण सर्वशब्दार्थयोः समे ।

चिन्मात्रमेव ज्ञातेयं नास्तीत्यपि न विद्यते

॥२५॥

भेदवेदनयोदेति भेदः प्रकृतिलाञ्छनम् ।

अभेदबोधादखिले गलिते शिष्यते परम्

॥२६॥

नानातैवास्य बोधेन स बोधस्त्वनवेक्षणात् ।

पृच्छकं चैवमस्त्येव तस्मान्निःशङ्कता परा

॥२७॥

ततः स्वप्नो न जागर्तिर्न सुषुप्तिर्न तुर्यता ।

न बन्धोस्ति न मोक्षोस्ति नान्यथाकल्पनात्मकम्

॥२८॥

शान्तिरेका जगन्नाम्नी शान्तिरेवमवस्थिता ।

अबोधोऽसत्य एवातः क्व द्रष्टृदृश्यदर्शनम्

॥२९॥

स्पन्दोऽप्यस्पन्द एव स्यान्निःसंकल्पतया च ते ।

न स्पन्दास्पन्दयोर्भिन्ना संकल्परहितैव चित्

॥३०॥

द्वैतैक्यविकला रूपसंकल्पश्चिदभावनात् ।

स च भावनमात्रेण गतो ब्रह्मैव शिष्यते।

॥३१॥

चिच्चन्द्रबिम्बे संकल्पकलङ्कः स्फुरतीव यः ।

नासौ कलङ्कस्तद्विद्धि चिद्धनस्य घनं वपुः

॥३२॥

चिद्धनस्य न सन्नासन्स्थीयतां यत्तते पदे ।

इत्यदोषमहाबोधसारसंग्रहणं कृतम्

॥३३॥

चिच्चन्द्रबिम्बासंकल्पकलङ्कामृतविग्रहः ।

त्वया भव्येन संस्पृष्टो भावाभावक्षयात्मना

॥३४॥

भावाभावादिकलनां नीत्वा चिन्मयतां चितः ।

समोल्लासविलासान्तः समाश्वस यथासुखम्

॥३५॥

स्पन्दास्पन्दौ कल्पनाकल्पना वा

चित्ताम्नायो विद्धि नामाब्धिनाम्ना ।

सर्वाकारा निर्वृतिः शान्तिसत्ता

पूर्णापूर्णे ह्येकमेवास्थितेति

॥३६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० ब्रह्मैक्यप्रतिपादनं नाम सप्तषष्टितमः सर्गः ।। ६७ ।।