मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ६

3
योगवासिष्ठम् · उपशमप्रकरणम् · 6

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इमं विश्वपरिस्पन्दं करोमीत्यस्तवासनम् ।

प्रवर्तते यः कार्येषु स मुक्त इति मे मतिः

॥१॥

पौरुषीं तनुमाश्रित्य केचिदेतत्क्रियारताः ।

स्वर्गान्नरकमायान्ति स्वर्गं च नरकात्पुनः

॥२॥

केचित्त्वकर्मणि रता विरता अपि कर्मणः ।

नरकान्नरकं यान्ति दुःखाद्दुःखं भयाद्भयम्

॥३॥

केचित्स्ववासनातन्तुबद्धाः कर्मफलोदिताः ।

तिर्यक्त्वात्स्थावरतनुं यान्ति तिर्यक्तनुं ततः

॥४॥

केचिदात्मविदो धन्या विचारितमनोदृशः ।

विच्छिन्नतृष्णानिगडा यान्ति निष्केवलं पदम्

॥५॥

पुरा कतिपयान्येव भुक्त्वा जन्मानि राघव ।

अस्मिञ्जन्मनि यो मुक्तस्तस्माद्राजससात्त्विकः

॥६॥

जातोऽसौ वृद्धिमभ्येति पार्वणश्चन्द्रमा इव ।

कुटजं प्रावृषीवैनं सौभाग्यमनुगच्छति

॥७॥

यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते ।

विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम्

॥८॥

आर्यता हृद्यता मैत्री सौम्यता करुणा ज्ञता ।

समाश्रयन्ति तं नित्यमन्तःपुरमिवाङ्गनाः

॥९॥

यः कुर्वन्सर्वकार्याणि पुण्ये नष्टेऽथ तत्फले ।

समः सन्सर्वकार्येषु न तुष्यति न शोचति

॥१०॥

तमांसीव दिवा यान्ति तत्र द्वन्द्वानि संक्षयम् ।

शरदीव घनास्तत्र गुणा गच्छन्ति शुद्धताम्

॥११॥

पेशलाचारमधुरं सर्वे वाञ्छन्ति तं जनाः ।

वेणुं मधुरनिध्वानं वने वनमृगा इव

॥१२॥

नरं पाश्चात्यजन्मानमेवंप्राया गुणश्रियः ।

जातमेवानुधावन्ति बलाका इव वारिदम्

॥१३॥

ततोऽसौ गुणसंपूर्णो गुरुमेवानुगच्छति ।

स तमेवं विवेके वै नियोजयति पावने

॥१४॥

विचारवैराग्यवता चेतसा गुणशालिना ।

देवं पश्यत्यथात्मानमेकरूपमनामयम्

॥१५॥

तनोत्ययं विचारेण चारुणा शान्तचेतसा ।

प्रबोधनाय प्रथमं मनोमननमान्तरम्

॥१६॥

ये हि पाश्चात्यजन्मानस्ते हि सुप्तं मनोमृगम् ।

प्रबोधयन्ति प्रथमं गुणहीनं महागुणाः

॥१७॥

प्रथितगुणान्सुगुरून्निषेव्य यत्ना-

दमलधिया प्रविचार्य चित्तरत्नम् ।

गतिममलामुपयान्ति मानवास्ते

परमवलोक्य चिरं प्रकाशमन्तः

॥१८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे प्रथमोपदेशो नाम षष्ठः सर्गः ।। ६ ।।