मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २१४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 214

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवाल्मीकिरुवाच ।

इत्युक्तवत्यथ मुनौ नभसो ननाद

वर्षामृताभ्रमिव दुन्दुभिरामरो द्राक् ।

शुक्लीकृताखिलककुब्वदना तुषार-

वर्षोपमा भुवि पपात च पुष्पवृष्टिः

॥१॥

किंजल्कजालदिवसान्तघनाङ्गरागा

वातावधूतसितकेसरगौरहारा ।

पुष्पोदरोत्थमृदुसीकरशीतलाङ्गा

प्राप्ता स्वयं सुरपुरादिव पुण्यलक्ष्मीः

॥२॥

कल्पान्तकालकपिकम्पितशुष्कशाखा-

त्स्वर्गद्रुमात्पतितमाशु विडम्बयन्ती ।

तारागणं प्रथितभासमनल्पहास-

माशामुखप्रसृतभैरवमम्बरस्था

॥३॥

सा पुष्पवृष्टिरथ दुन्दुभिनादगर्ज-

त्किंजल्कपुञ्जजलदा शममाजगाम ।

आपूरिताखिलसभा हिमहारिपुष्प-

पूरेण कौतुकविकासकरीक्षणेन

॥४॥

तानि दिव्यानि पुष्पाणि यथास्थानमधःस्थिताः ।

वसिष्ठाय नमस्कृत्वा सभ्याः संशोकितां जहुः

॥५॥

दशरथ उवाच ।

अहोऽनुसुविशात्मानः संसारवितताकृतेः ।

विश्रान्ताः स्मश्चिरं श्रान्ताः शुद्धा मेघा इवाचले

॥६॥

कर्मणामवधिः पूर्णो दृष्टः सीमान्त आपदाम् ।

ज्ञातं ज्ञेयमशेषेण विश्रान्ताः स्मः परे पदे

॥७॥

ध्यानलब्धपरव्योमचिरानुभवनभ्रमैः ।

धारणाधारविश्रान्त्या देहसंत्यजनक्रमैः

॥८॥

संकल्पनवनिर्माणैः स्वप्नदृष्टिजगज्ज्वरैः ।

शुक्तिरूप्यानुभवनैः स्वप्नात्ममृतिदर्शनैः

॥९॥

अनन्यैः पवनस्पन्दैरनन्यैः सलिलद्रवैः ।

इन्द्रजालपुरापूरैर्गन्धर्वनगरोत्करैः

॥१०॥

मायापूर्णपुराभोगैर्मृगतृष्णानदीरयैः।

आयतौ पवनस्पर्शैर्द्विचन्द्रानुभवोदयैः

॥११॥

मदभ्रंशपुरस्पन्दैर्मुधा त्ववनिकम्पनैः ।

बालयक्षाद्यनुभवैः खकेशोण्ड्रकदर्शनैः

॥१२॥

एवमादिभिरन्यैश्च दृष्टान्तैः स्वानुभूतिदैः ।

अहो नु मार्जिता दृश्यदृष्टिर्भगवता मम

॥१३॥

श्रीराम उवाच ।

नष्टो मोहः पदं प्राप्तं त्वत्प्रसादान्मुनीश्वर ।

संपन्नोऽहमहं सत्यमत्यन्तमवदातधीः

॥१४॥

स्थितोऽस्मि गतसंदेहः स्वभावे ब्रह्मरूपिणि ।

निरावरणविज्ञानः करिष्ये वचनं तव

॥१५॥

स्मृत्वा स्मृत्वाऽमृतासेकसौख्यदं वचनं तव ।

अर्हितोऽपि च शान्तोपि हृष्यामीव मुहुर्मुहुः

॥१६॥

नैव मेऽद्य कृतेनार्थो नाकृतेनेह कश्चन ।

यथा स्थितोऽस्मि तिष्ठामि तथैव विगतज्वरः

॥१७॥

उपायस्तु तथा तेन दृष्टिर्वास्तीह कीदृशी ।

अहो नु वितता भूमिः कष्टमेतादृशी दशा

॥१८॥

न शत्रुर्न च मित्रं मे न क्षेत्रं दुर्जनो जनः ।

दुर्बोधैषा जगत्क्षुब्धा शान्ता सर्वार्थसुन्दरी

॥१९॥

कथमेतां जनो वेत्ति विना भवदनुग्रहम् ।

विनैव सेतुं पोतं वा बालोऽब्धिं लङ्घयेत्कथम्

॥२०॥

लक्ष्मण उवाच ।

जन्मान्तरोपचितसंशयनाशनेन

जन्मान्तरोपचितपुण्यशतोदितेन ।

जातोऽद्य मे मुनिवचःपरिबोधनेन

जातोऽद्य मे मनसि चन्द्र इव प्रकाशः

॥२१॥

ईदृश्यां दृश्यमानायां दृशि दोषदशाशतैः ।

काष्ठवद्दह्यते लोकः स्वदुर्भगतया तया

॥२२॥

विश्वामित्र उवाच ।

अहो बत महत्पुण्यं श्रुतं ज्ञानं मुनेर्मुखात्।

येन गङ्गासहस्रेण स्नाता इव वयं स्थिताः

॥२३॥

श्रीराम उवाच ।

संपदामथ दृष्टीनां शास्त्राणामापदां गिराम् ।

देशानामथ दृष्टानां दृष्टः सीमान्त उत्तमः

॥२४॥

नारद उवाच ।

यन्न श्रुतं ब्रह्मलोके स्वर्गे भूमितले तथा ।

कर्णौ तज्ज्ञानमाकर्ण्य यातौ मेऽद्य पवित्रताम्

॥२५॥

लक्ष्मण उवाच ।

हार्दं बाह्यं च तिमिरमपमृष्टवता त्वया ।

मुने परमभानुत्वं नूनं नः संप्रदर्शितम्

॥२६॥

शत्रुघ्न उवाच ।

निर्वृतोऽस्मि प्रशान्तोऽस्मि प्राप्तोस्मि परमं पदम् ।

चिराय परिपूर्णोऽस्मि सुखमासे च केवलम्

॥२७॥

दशरथ उवाच ।

बहुजन्मोपलब्धेन पुण्येनायं मुनीश्वरः ।

धीरः कथितवान्नस्तद्येन पावनतां गताः

॥२८॥

श्रीवाल्मीकिरुवाच ।

इति तेषु वदत्स्वत्र सभ्येषु सह भूभृता ।

वसिष्ठः स उवाचेदं ज्ञानपावनया गिरा

॥२९॥

राजन्रघुकुलैकेन्दो यदहं वच्मि तत्कुरु ।

इतिहासकथान्ते हि पूजनीया द्विजातयः

॥३०॥

तदद्य ब्राह्मणौघांस्त्वं सर्वकामैः प्रपूरय ।

वेदार्थसमनुष्ठानफलं प्राप्स्यसि शाश्वतम्

॥३१॥

मोक्षोपायकथावस्तुसमाप्तौ द्विजपूजनम् ।

शक्तितः कीटकेनापि कार्यं किमु महीभृता

॥३२॥

इति मौनं वचः श्रुत्वा सहस्राणि नृपो दश ।

दूतैराकारयामास द्विजानां वेदवादिनाम्

॥३३॥

मथुरायां सुराष्ट्रेषु गौडेषु च वसन्ति ये ।

तेभ्यः कुलेभ्यःसोऽभ्यर्च्य समानीय द्विजन्मनाम्

॥३४॥

अधिकात्यधिकज्ञानप्रकृतद्विजभोजनः ।

तदा दशसहस्राणि भोजयामास भूपतिः

॥३५॥

यथाभिमतभोज्यान्नदानदक्षिणया तया ।

एवं संपूज्य तान्विप्रान्पितृन्देवान्नृपांस्तथा

॥३६॥

पौरामात्यांस्तथा भृत्यान्दीनान्धकृपणांश्च तान् ।

तस्मिन्दशरथो राजा दिने सह सुहृज्जनैः

॥३७॥

लब्धसंसृतिसीमान्तश्चकारोत्सवमुत्तमम् ।

तथा नृपगृहे तस्मिन्कौशेयमणिकाञ्चने

॥३८॥

भूषिते नगरे चैव गीर्वाणनगसुन्दरे ।

ननृतुर्मत्तकामिन्यो विलासिन्यो गृहे गृहे

॥३९॥

लसद्वंशलताकांस्यवीणामुरजमर्दलम् ।

ताण्डवेनोद्धतारावमन्योन्येतरशेखराः

॥४०॥

क्षुब्धीकृतापणकरभ्रान्तिपल्लविताम्बराः ।

मुग्धाट्टहासविक्षिप्तदन्तेन्दुकिरणच्छटाः

॥४१॥

मदाकुलितहुंकारा लीलासु तरलस्वराः ।

एकपादतलाघातहेलाहतधरातलाः

॥४२॥

स्रग्दामतारविगलत्कुसुमासारपाण्डुराः ।

धारापातितविच्छिन्नहारमुक्तास्खलत्पदाः

॥४३॥

लोलाभरणसाकारं कामं ननृतुरङ्गनाः ।

पेठुः स्फुटपदं विप्रा बन्दिनोऽप्यङ्गनाश्च ताः

॥४४॥

पपुरुत्ताण्डवं पानं पानपा मदशालिनः ।

भोज्यं बुभुजिरे चित्रं भूषिता भोजनार्थिनः

॥४५॥

सुधादिपरिलेपेन रञ्जिता गृहभित्तयः ।

रेजू रामेन्दुभानेन पुष्पधूपविलेपनैः

॥४६॥

वासांसि वसिताश्चित्राण्युत्तमस्रग्विभूषणाः ।

चेरुः परिचराश्चेट्यश्चारुगन्धा नृपाध्वरे

॥४७॥

देहयष्टिषु संयोज्य वनिता यक्षकर्दमम् ।

जग्मुस्ताण्डवनर्तक्यः श्रृङ्गारात्माङ्गणान्तरम्

॥४८॥

भवबहुलनिशावसानहर्षा-

दिति घनमुत्सवमेव सप्तरात्रम्।

दशरथनृपतिः सदानभोग-

श्रियमकरोत्पदमक्षयं समेतः

॥४९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० महोत्सववर्णनं नाम चतुर्दशाधिकद्विशततमः सर्गः ।। २१४ ।।