मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः २३

3
योगवासिष्ठम् · उपशमप्रकरणम् · 23

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

विरोचन उवाच ।

अस्ति पुत्रातिविततो देशो विपुलकोटरः ।

त्रैलोक्यानां सहस्राणि यत्र मान्ति बहून्यपि

॥१॥

यत्र नाम्भोधयो नापि सागरा वा न चाद्रयः ।

न वनानि न तीर्थानि न नद्यो न सरांसि च

॥२॥

न मही नापि चाकाशं न द्यौर्न पवनादयः ।

न चन्द्रार्कौ न लोकेशा न देवा नच दानवाः

॥३॥

न भूतयक्षरक्षांसि न गुल्मा न वनश्रियः ।

न काष्ठतृणभूतानि स्थावराणि चराणि च

॥४॥

नापो न ज्वलनो नाशा नोर्ध्वं नाधो न विष्टपम् ।

न लोको नातपो नाहं न हरीन्द्रहरादयः

॥५॥

एक एवास्मि सुमहांस्तत्र राजा महाद्युतिः ।

सर्वकृत्सर्वगः सर्वः स च तूष्णीं व्यवस्थितः

॥६॥

तेन संकल्पितो मन्त्री सर्वसन्मन्त्रणोन्मुखः ।

अघटं घटयत्याशु घटं विघटयत्यलम्

॥७॥

भोक्तुं न किंचिच्छक्नोति न च जानाति किंचन ।

राजार्थं केवलं सर्वं करोत्यज्ञोऽपि सन्सदा

॥८॥

स एव सर्वकार्यैककर्ता तस्य महीपतेः ।

राजा केवलमेकान्ते स्वस्थ एवावतिष्ठते

॥९॥

बलिरुवाच ।

आधिव्याधिविनिर्मुक्तः कः स देशो महामते ।

कथमासाद्यते चापि केन वाधिगतः प्रभो

॥१०॥

कः स तादृग्विधो मन्त्री राजा चापि महाबलः ।

हेलालूनजगज्जालैर्योऽस्माभिरपि नो जितः

॥१३॥

अपूर्वमेतदाख्यानं ममामरभयप्रद ।

कथयापनयास्माकं हृद्व्योम्नः संशयाम्बुदम्

॥१२॥

विरोचन उवाच ।

स तत्र मन्त्री बलवान्देवासुरगणैः सुत ।

समेतैर्लक्षगुणितैरपि नाक्रम्यते मनाक्

॥१३॥

नासौ सहस्रनयनो न यमो न धनेश्वरः ।

नामरो नासुरो वापि यदि पुत्रक जीयते

॥१४॥

तत्रासिमुसलप्रासवज्रचक्रगदादयः ।

हेतयः कुण्ठतां यान्ति दृषदीवोत्पलाहतिः

॥१५॥

गम्योऽसौ नास्त्रशस्त्राणां न भटोद्भवकर्मणाम् ।

तेन देवासुराः सर्वे सर्वदैव वशीकृताः

॥१६॥

अविष्णुनापि तेनेह हिरण्याक्षादयोऽसुराः ।

पातिताः कल्पवातेन मेरुकल्पद्रुमा इव

॥१७॥

नारायणादयो देवा अपि सर्वावबोधिनः ।

तेनाक्रम्य यथाकाममवटेषु निवेशिताः

॥१८॥

तत्प्रसादेन साटोपं पञ्चमात्रशरः स्मरः ।

त्रैलोक्यमिदमाक्रम्य सम्राडिव विवल्गति

॥१९॥

सुरासुरौघगृह्योऽपि गुणहीनोऽपि दुर्मतिः ।

दुराकृतिरपि क्रोधस्तत्प्रसादेन जृम्भते

॥२०॥

देवासुरसहस्राणां संगरो यः पुनः पुनः ।

तदेतत्क्रीडनं तस्य मन्त्रिणो मन्त्रशालिनः

॥२१॥

स मन्त्री केवलं पुत्र तेनैव प्रभुणा यदि ।

जीयते तत्सुजेयोऽसावन्यथा त्वचलोपमः

॥२२॥

तस्यैव तत्प्रभोः काले जेतुं तं मन्त्रिणं निजम् ।

इच्छा संजायते तेन जीयतेऽसावयत्नतः

॥२३॥

त्रैलोक्यवलिनां मल्लमुच्छ्वासितजगत्त्रयम् ।

जेतुं चेदस्ति ते शक्तिस्तत्पराक्रमवानसि

॥२४॥

तस्मिन्नभ्युदिते सूर्ये त्रैलोक्यकमलाकराः ।

इमे विकासमायान्ति विलीयन्तेऽस्तमागते

॥२५॥

तमेवमेकया बुद्ध्या व्यामोहपरिहीनया ।

यदि जेतुं समर्थोऽसि धीरस्तदसि सुव्रत

॥२६॥

तस्मिञ्जिते जिता लोका भविष्यन्त्यजिता अपि ।

अजिते त्वजिता एते चिरकालजिता अपि

॥२७॥

तस्मादनन्तसिद्ध्यर्थं शाश्वताय सुखाय च ।

तज्जये यत्नमातिष्ठ कष्टयापि हि चेष्टया

॥२८॥

ससुरदनुजनागयक्षसंघं

सनरमहोरगकिन्नरं समेतम् ।

त्रिजगदपि वशीकृतं समन्ता-

दतिबलिना ननु हेलयैव तेन

॥२९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे विरोचनवचनं नाम त्रयोविंशः सर्गः ।। २३ ।। 5.24